शक्तावर्थापत्तिपञ्चकम्
शक्तावर्थापत्तिपञ्चकम् [[लेखकः :|]] |
किंच दण्डादेरन्वयव्यातिरेकाभ्यां 3 घटादिकारणत्वं तावदनुमीयते । तत्र न तावत्पूर्व 4 वृत्तित्वमात्रं लिङ्गम् । रासभादावपि सत्वात् ।।
नापि नियमविशेषितम् । अन्यथासिद्धेऽपि सत्वात् । तस्मात्प्रत्यक्षसिद्धं कारणता 1 त्वेन त्वदभिमतमनन्यथासिद्धनियतपूर्ववृत्तित्वमेव लिङ्गं वाच्यम् । न च तदेव 2 तेनानुमेयमिति तदनुमेयातीन्द्रियशक्तिसिद्धिः । न च तत्र स्वरूपयोग्यतारूपं दण्डत्वमनुमेयम् । तस्य प्रत्यक्षत्वात् ।।
नापि -- सहकारिसमवधानरूपं फलोपधानमनुमेयम् । दण्डे सहकार्यसमवधानेऽपि 1 तव्द्यवहारात् । शिलादौ तत्समवधानेऽपि 2 कारणत्वाव्यवहाराच्च ।।
नापि -- दण्डत्वस्यानन्यथासिद्धिविशिष्टनियमाविच्छेदकत्वमनुमेयम् । तस्य हेतुशरीर एव प्रवेशात् । एतदेवाभिप्रेत्योक्तं सुधायाम् -- "ततोन्वयव्यतिरेकसमधिगम्यमतीन्द्रियमेव किञ्चिन्मृदातीनां घटादिकारणत्वमभ्युपगमनीयम् । तदेव च शक्ति" रिति ।।
व्याप्तिग्राहकप्रत्यक्षेण तु नियमरूपा रसरूपादिसाधारणी व्याप्तिरेव गृह्यते । न तु शक्तिरूपाकारणता । तस्या नित्यातीन्द्रियत्वात् ।।
न च 1 व्यभिचारितं सहचारदर्शनं नियमरूपव्याप्तेरपि कथं ग्राहकम्, ग्राहककोटौ नियमप्रवेशे चात्माश्रय इति वाच्यम् । तस्याञ्जनादिवद्व्याप्तिग्राहकप्रत्यक्षसहकारित्वेनाव्यभिचारानपेक्ष 2 णात् ।।
किञ्च जलस्य जलत्वेन पिपासोपशामकत्वं तावदनुमीयते । तत्र च न तावत्फलोपधानमनुमेयम् । बाधाद्व्यभिचाराच्च । किं तु पिपासोपशमनकाणत्वमात्रम् । तच्च न तावदन्यथासिद्धनियतपूर्ववृत्तित्वरूपम् । तस्य पूर्वमेवज्ञातत्वात् । कथमन्यथा जलत्वस्य व्याप्तिग्रहः ।।
नापि सहकारिविरहप्रयुक्तकार्याभाववत्वरूपम् । सहकारिशब्देन स्वेतरकारणस्यैव विवक्षणीयत्वेनात्माऽश्रयात् 1 । भाविसहकारिविरहशङ्क्या फलार्थिनो निष्कम्पप्रवृत्ययोगात् । तावता 2 त्वदुक्तनिर्वचनस्य सहकारिविरहः 3 कार्यप्रागभावस्योत्तरकालसंबन्ध 4 कारणमित्येतदर्थकतया कारणत्वमज्ञात्वा कार्याभावस्य सहकारिविरहप्रयुक्तत्वस्य ज्ञातुमशक्यतयाऽ 6 ल्यसमवधानदशायां दण्डादेरहेतुत्वापाताच्च 7 । तस्मादतीन्द्रियं शक्तिरूपं कारणत्वमेवानुमेयमिति शक्तिसिद्धिः।।
किंचानन्यथासिद्धनियतपूर्ववृत्तित्वमेव कारणत्वं चेद्रासभादौ तदभावो न तावदन्यथासिद्ध्या । नियतपदवैयर्थ्यात् ।।
नापि -- पूर्ववृत्तित्वस्यानियतत्वेन । व्यक्त्यपेक्षया नियमस्य दण्डादावप्यभावात् । जात्यपेक्षयानियमस्य च रासभेऽपि प्रसङ्गात् । संभवति 2 ह्यनादौ संसारे घटाजातीयाद्रासभजातीयस्य 3 कदाचिदपि व्यवहितपूर्ववृत्तित्वानियमः ।।
नाप्यव्यवहितपूर्ववृत्तित्वस्यानियतत्वेन ।
व्यवहितनियपूर्ववर्तिनो यागादेः स्वर्गाद्यहेतुत्वापातात् । सापूर्वस्य यागस्याव्यवहितत्वमस्तीति चेन्न । पूर्वं प्रतीतेन यागस्य स्वर्गहेतुत्वेन पश्चादपूर्वस्य कल्पनीयतया तदव्यवहितत्वस्य कारणत्वशरीते प्रवेशायोगात् । अन्यथाऽपूर्वं वाच्यं स्यात् ।।
तस्यादतीन्द्रियशक्तिरेव कारणत्वम् । तां च प्रति स्वाश्रयजातीयस्य फलाव्यवधानं व्यापकम् । यागस्य च भोजनादेस्तृप्तिं प्रतीव स्वर्गं प्रति स्वरूपेणाव्यवधानं न सम्भवती 2 त्यनुभवस्य स्मृतिं प्रतीव व्यापार 3 द्वाराऽव्यवधानं वक्तव्यमित्यपूर्वकल्पना युक्ता ।।
एतदप्युक्तं सूधायाम्-- अतीन्द्रियमेवेत्यादिना ।।
नन्वेवं शक्तिः कारणत्वं चेत्सा कारणं न स्यात् । तथाच शक्तिर्दाहानुकूला न स्यादिति चेन्न 1 । कारणत्वस्यापि कारणत्वस्येव कार्यप्रागभावव्याप्यप्रागभावप्रतियोगित्वरूपानुकूलत्वाश्रयत्वात् ।।
केचित्तु -- प्रतिबन्धकाभावत्वेन कारणत्वेऽन्योन्याश्रयान्मण्याद्यभावकूटस्य कारणता त्वयोक्ता । तथाचाननुगतानां तावदभावानां कारणता तत्तदनन्तनिष्ठानन्तधर्माणां कारणतावच्छेदकत्वमिति कल्पनाद्वारं शक्तिकल्पनम् । अन्यथा तवापि समवायो न सिध्येति। क्लृप्तैरनन्तैः स्वरूपसम्बन्थैरेव विशिष्टप्रतीत्युपपत्तेरित्याहुः ।।
किञ्चैवमुत्तेजकाभावविशिष्ट 2 मण्यभावस्य हेतुत्वं स्वीकृत्य शक्त्यपलापे प्रायश्चित्ताभावसहकृतसन्ध्यावन्दनाद्यकरणस्य नरकहेतुत्वसंभवात्त 3 न्निवत्येमपि दूरितापूर्वं न सिध्येत् ।।
एवं ज्योतिष्टोमादि 4 जन्यमपूर्वमपि न सिध्येत् । अन्वयव्यतिरेकाभ्यां साङ्गयागप्रगभाव 5 विशिष्टात्माभावस्यैव स्वर्गादिफलहेतुत्वोपपत्तेः। आत्मनः स्थायित्वेन विशेष्याभावाभावेपि प्रागभावरूपविशेषणाभावेन विशिष्टाभावसंभवात् ।।
नचास्य 1 विशिष्टाभास्यानन्तत्वेन फलानन्त्यं 2 स्यादिति शङ्क्यम् । सावधिकफलबोधकश्रुतिबलादपूर्वस्येवोक्तस्य विशिष्टाभावस्यापि सावधिकफलजनकत्वस्वभावकल्पनात् ।।
अपि च यत्र देवदत्तादिशरीरं प्रत्यक्षेण गृहीतं प्रत्यक्षान्तरेणानुमानादिना वा पुनर्नानुभूतं तत्रापि तच्छरीरस्मृतिस्तावदुत्पद्यते । तां च स्मृतिं प्रत्यन्वयव्यतिरेकाभ्यां तदनुभवप्रागभावविशिष्टात्म 1 विरहः स्मृतिपर्यन्तस्थायी कारणमस्तु । कृतमनुभवस्य स्मृतिहेतुत्वमङ्गीकृत्य तन्निर्वाहाय संस्कारकल्पनया ।।
न चात्र स्मृतिरूपफलसा 2 तत्यशङ्काऽवकाशोप्यस्ति ।। संस्कारकल्पनापक्ष इव सदृशादृष्टचिन्तासहकारिवैकल्प्यादेव फलोभावोपपत्तेः ।।
यदि च 3 तत्र स्वर्गस्मरणादो कल्पृप्तकारणभावस्य यागानुभवादेरेव लघवेन भावरूपापूर्वसंस्कार 4 द्वारा कारणत्वं व्यवस्थाप्य तदभावात्कार्याभावोपपादनं ; तर्हिहापि 5 दाहे क्लृप्तकारणा 6 भावस्य वह्नेरेव लाघवाद्भावरूपशक्त्या कारणत्वं निर्वाह्य तदभावात्कार्याभाव उपपाद्यताम् । कुतमुत्त 7 म्भकाभावविशिष्टप्रतिबन्धकाभावस्य हेतुत्वकल्पनया ।।
तस्मात्प्रतिबन्धकाभावो न हेतुरिति प्रतिबन्धकसमये शक्त्यभावादेव दाहाभावो वक्तव्य इति शक्ति सिद्धिः ।।
ननु -- शक्तिपक्षे पूर्वस्याः शक्तेर्नाशात्प्रतिबन्धकापनये वोत्तेजकसमवधाने वा कथं पुनर्दाहः । यदि च ताभ्यां शक्त्यन्तरोत्पादस्तताऽननुगतस्यापि प्रतिबन्धकाभावस्य हेतुत्वं तवापिसमानमिति चेन्न ।। सत्ये 2 व कुठारे 3 कदाचित्कुण्ठत्ववत्सामग्र्यां संशयोत्तरप्रत्यक्षस्थलेऽनुमित्यभाववत्ससत्येवापूर्वे कदाचितविपाकवच्च सत्यमेव शक्तौ तस्याः 4 कदाचित्कण्ठीभाववलक्षणावस्थाविशेषस्य कल्पनात् ।।
उक्तं हि सुधायां "व्यक्तिशब्देन शक्तेरेवावस्थाविशेषस्य विवक्षितत्वा" दिति ।।
किंचास्तु त्वया वक्ष्यमाणे 5 पक्षचतुष्टये त्वदनभिमते विशिष्टं पदार्थान्तरमिति पक्षे च कथंचिद्विशिष्टाभावस्यानुगमः कारणता च । तथाऽपि मण्यादे र्लोकसिद्धं कार्यानुकूलकिंचिद्धर्मविघटकत्वरूपं प्रतिबन्धकत्वं
न स्यादिति मण्यादेः प्रतिबन्धकत्वान्यथाऽनुपपत्या शक्तिसिद्धिः ।।
न च मणिः कार्यानुकूलविघटनरूपः प्रतिबन्ध एव, न तु प्रतिबन्धकः, तत्प्रयोक्ता पुरुष एव तु प्रतिबन्धकः, मणौ प्रतिबन्धकव्यवहारस्तु उपचाराद्वा स्यार्थे कप्रत्ययाश्रयणाद्वेति वाच्यम् । मुख्ये बाधकाभावात् । मणिना प्रतिबद्ध इति व्यवहारानुसारेण प्रतिबन्धक इत्यत्रापि कर्तर्था 2 क प्रत्यस्यैवौचित्याच्च ।
किंच मण्याद्यभावस्य कारणत्वे मणेः प्रतिबन्धकत्वमपि न स्यात् । लोके कारणाभावरूपे दण्डाभावादौ प्रत्यवायकारणीभूतविहितकारणस्याभावरूपे विहितकरणे च प्रतिबन्धकव्यवहाराभावात् ।।
तस्माद्दु 1 ष्टान्वयव्यतिरेकाभ्यां कारणत्वानुमित्यन्यथाऽनुपपत्या रासभादेरकारणत्वान्यथाऽनुपपत्याऽपूर्वादिप्रतिबन्द्या मण्यादेर्लोकसिद्धप्रतिबन्धकत्वान्यथाऽनुपपत्या त्वदभिमतप्रतिबन्धकत्वान्यथाऽनुपपत्या च शक्तिसिद्धिः ।।
?2इति शक्तावर्थापत्तिपञ्चकम् ।। 6 ।।