शङ्करविजयः/एकादशस्सर्गः
॥ अथ एकादशस्सर्गः ॥
आविर्बभूव परिलम्बिपयोधराढ्या
मेकात्मजस्वनितदूषितदिग्विदिक्च ।
1श्रीकलिमाश्रितपटा परिलुप्तवर्त्मा
भावृड्वधूस्तदभिनन्दितसर्वलोका ॥ १ ॥
मेघा जगर्जुरुररीकृतभीमचापा
विद्युत्कृपाण2लसिता गगनादिमध्ये ।
उल्लासिनीलिमतनुश्रितसर्वगात्राः
शूरा इवोष्णरिपुमाशु निहन्तुकामाः ॥ २ ॥
यस्मिन्परं परहिताभिरतप्रकाशे
चन्द्रादिके श्रुतिपथं न गतैव वार्ता ।
तस्मिंस्तिरोहितवति प्रथितेऽत्र तेषां
खद्योतनाम भजतामभवत्प्रचारः ॥ ३ ॥
दृष्ट्वातिदुष्टसुसमृद्धविपक्षजातं
हंसा ययुः 3स्थितिमनक्षरमानसीं ते ।
युक्तं हि दुष्टपरिवर्जनमुत्तमानां
भायात्तमःस्थमपि वस्तु तमोवदेव ॥ ४ ॥
चन्द्रादिके परहिताभिरते प्रयाते
खद्योतका विलसितुं परमारभन्त ।
धर्मानुयायिनि नृपे परलोकयाते
प्रत्यन्तवासनिरता इव मण्डलेशाः ॥ ५ ॥
1अ. कालिका सितपटा । 2अ. लतिका ।
3का. सरसिकामथ मानसीं ते ।जीमूतधर्मिगृहदत्तमुपाददाना-
स्ते चातकद्विजवरास्ततृपुर्नवाम्भः ।
एषा न तृप्तिरितरस्य जनस्य जातु
सच्छ्रोत्रियस्य कुनृपात्तधनस्य यद्वत् ॥ ६ ॥
आकर्णयंस्स्तनितमूर्ध्वमुखो घनानां
केकी ननर्त कुशली शिखिनीसमेतः ।
देव्याश्शिवः परिसरे प्रसृतोरुबाहु-
स्सङ्गीयमान इव नृत्यति मोदमानः ॥ ७ ॥
मेघोपरोघवशतो रविमाप दीप्ती
रात्रौ तथा हिमकरं नववारिसिक्ता ।
तावत्प्रकाशपदवीमुपयातवन्तौ
दृष्ट्वा शुचेव पृथिवी विससर्ज बाष्पम् ॥ ८ ॥
लोको विषण्णवदनो विरहातुरो यो
दृष्टेर्निपातमपि न क्षमते क्षपायाम् ।
व्याकोशकन्दलतया गगनेऽभ्रयोगा-
द्दिक्षु प्रणार्तितमयूरतया विशेषात् ॥ ९ ॥
भञ्जंस्तरुं वधिरयञ्जनमुञ्चशब्दा-
त्कुर्वंस्तनून्विदलयन् शिशिरोऽतिमात्रम् ।
वायुर्ववौ द्रुतगतिर्न शशाक कञ्चि-
च्छत्रं विधारयितुमुद्धतवायुवेगात् ॥ १० ॥
धन्यो जनो गृहगतो न चचाल भोगी
तस्माद्दशा दहनमुज्वलमीक्षमाणः ।
तल्पेऽशयिष्ट वनितासहितस्सुखेन
किं नाम दुस्सहमनिष्टदभिष्टभाजाम् ॥ ११ ॥
वर्षासु वारितगतासु सुदुस्सहासु
शोचन्नशेत विरही विरहीव वित्तैः ।
पुण्यस्सुखी घटितवाञ्छितसाधनत्वा-
द्दुःखी च तद्वदितरोऽकृतपुण्यभावात् ॥ १२ ॥
घारां व्यमुञ्चत घनो 1बहुमृण्मयीं तां
या दुर्दिनं व्यधित वारितसूर्यरश्मिः ।
सूर्यव्रतास्त्रिचतुराणि दिनान्युपोषु
र्नाज्ञायि यत्र च नदीवसुधाविभागः ॥ १३ ॥
नद्यस्तदा बहुजला बहुधाप्रवाहाः
क्षेत्राणि संविविशुरुत्तमसम्यभांजि ।
सस्यव्ययाद्विरुरुदुः कृषिकाः कृशाशाः
केचिच्छशंसुरपि शेपुरनल्पवृष्टिम् ॥ १४ ॥
गेहेष्वनावृतचरेषु जलावसेका-
त्कुड्यानि पेतुरतियत्नविनिर्मितानि ।
क्षेत्रावनाय विहिदा दृढसेतवश्च
भिन्ना नदीपरिसरे बहुवित्तकार्याः ॥ १५ ॥
वापाय नीतमपि बीजचयं गृहाणि
निन्युर्जलाधिकतया परिवाप्य भूमेः ।
शीताम्बुसिक्तवपुषो व्यसृजन्महोक्षान्
गन्तुं न शक्नुवत उच्छ्रितशृङ्गभाजः ॥ १६ ॥
श्रीगोकुलं वनभुवि प्रचरद्यथेष्टं
हित्वा वनं गृहमियाय विनम्य वक्त्रम् ।
वर्षानिलेन मुदितं क्षुभितं स्ववत्सैः
हुङ्कारगर्भवचनं व्यसृजत्कृशाङ्गम् ॥ १७ ॥
1का. बहुलामयां :
धन्यो लुलयमहिषीगण एत्य सम्यक्
संसेव्य वृष्टिमदिरां मुमुदे मदान्धम् ।
व्यस्मारि गेहमटता बहुशष्पकक्षं
तस्माद्वनान्तरमियाय निषेवमाणः ॥ १८ ॥
सन्मार्गवत्कलियुगे पथिभिः प्रणेशे
दुष्टैः खलैरिव तृणैर्वितनै सरिद्भिः ।
हंसेषु मानसगतेषु बकौघमाला
मोदं जगाम सुजनै रहितः खलो वा ॥ १९ ॥
1दीर्घाङ्घि्रिकप्रणयिलोलकवल्लरी सा
गर्भं दधार कुसुमं फलसृनुहेतम् ।
या सूयते फलतनूजमविघ्नभावे
मासे सहस्यविदिते प्रथितात्मशक्तिः ॥ २० ॥
फुल्लारविन्दनयना विमलाम्बराढ्या
मेघावरोधनवरग्रहणादिमुक्ता ।
श्रीरामसूर्यपरिशोषितदुःस्वपङ्का
सीतेव सा शरदियं ददृशे मनुष्यैः ॥ २१ ॥
काशैः क्षितिर्धवलदीप्तिभिरुञ्चकाशि
सच्चामरैस्वि दशाकरिणी तथैव !
मेधैर्विमुक्तममलं गानञ्च शुभ्रैः
स्तारागणैरधरितोज्वलमौक्ति2कोघैः ॥ २२ ॥
अम्भाेभिरुज्झितमलैर्मुनिमानसानां
धिक्कारदैर्नदनदीसरसीतठाकाः ।
संरेजिरे विकचवारिरुहैस्समन्तात्
सौरभ्यलुब्घबहुगायिमधुव्रतश्चै ॥ २३ ॥
1क. दीर्घाडूघ्रिप । 2का. काभैः ।
हंसद्विजा लघुमदा शरदोपहूता
आजग्मुरुद्धतविलोकनवाञ्छयेव ।
श्रीमानसात्सकलकालसमृद्धिभाज-
स्संधूयमानसितपत्रपुटास्सुशीलाः ॥ २४ ॥
दिङ्मण्डली नगकुचा सरसीरुहाक्षी
वप्राधरा द्युवसना सिततारदन्ता ।
प्रोत्तुङ्गशाखिकरपाण्डरहारयष्टि-
स्संराजते बहुगुणा शरदा विभक्ता ॥ २५ ॥
कादम्बिनीयवनिकामपसारयन्ती
नानापदार्थनिकरं रविचन्द्रमोभ्याम् ।
आभासयत् गृहगता गृहिणीव तत्स्थं
नानापदार्थनिकरं करदीपिकाभ्याम् ॥ २६ ॥
अम्भांसि कुम्भजननो मुनिरात्मपादै
स्संशोधयन्नुदयते स्म महानुभावः ।
स्रोतस्विनीषु पुलिनानि महान्ति हातुं
प्रक्रान्तवन्ति शनकैरुदकोज्झितानि ॥ २७ ॥
अम्भोधिनीरनगरेषु निचिक्षिषुः स्वं
पोतेषु भाण्डमपरत्र च दुर्लभं यत् ।
संयात्रिका बहुधना धनवृद्धिकामा
यैराप्यते शतगुणं धनमक्षयञ्चेत् ॥ २८ ॥
उच्छ्रायिकूलतरवः पवनेने नुन्ना
पोता ययुर्निहितभाण्डचयास्समुद्रे ।
द्वीपान्तरं प्रति विचक्षणरक्षितव्याः
केचित्समाययुरमी परिपूरितार्थाः ॥ २९ ॥
अश्वा गजास्समवतेरुरमीभ्य उच्चै-
र्यत्नाद्विचक्षणजनरैवतार्यमाणाः ।
दीर्घोन्नताः क्षितितले बहुधाप्युपायैः
लोकस्समायदथ1 लोकयितुं विनोदम् ॥ ३० ॥
केचिद्विलोक्य हरित2स्सहसा प्रसन्ना
ह्रस्वा नदीर्ययुरपूर्वमुपाददानाः ।
विक्रेतुमक्षतधियो वणिजो विदेशात्
क्रेतुं कुरङ्गमदपूर्वमपूर्ववस्तु ॥ ३१ ॥
आपूर्णशालिनिचया बहुमाषगर्भा
मुद्रान्तरा बहुविधाम्बरभारभाजः ।
गोण्यो बलोपहितभद्रमृगाधिपानां
आजग्मुरुच्छ्रितविषाणगचामराणाम् ॥ ३२ ॥
दीर्घद्विखण्डकलितां पृथु3पृष्ठलग्नां
पश्चाद्वयीं बलगतां दधतां निकायाः ।
कण्ठावलम्बिबहुनादिसुघण्डिकानां
सर्वाङ्गपाण्डरिमयोगविराजितानाम् ॥ ३३ ॥
आगत्य दूरवणिजो बहिरेव पुर्या
वासाय वेश्म वसनैर्व्यधुरत्युदारम् ।
आत्मीयगेह इव साधितसर्वसाध्या
अध्युष्य तद्विदधिरे क्रयविक्रयाद्यम् ॥ ३४ ॥
कश्चित्समानयदथात्मगृहं विदेशात्
कश्चिद्विदेशमनयद्गृहतोऽर्थमर्थी ।
कश्चिद्धनं विभजते स्म समानमन्यै
कश्चिद्धनी गणयति स्म गणेयमर्थम् ॥ ३५ ॥
1अ. दवलोकयितुं । 2का. शरदि ।
3अ. पूर्वलग्ना पार्श्वद्वयी ।अभ्रंलिहानि नगरेषु धनाधिनाथाः
सौधानि सेव्यसुखदानि वधूसहायाः ।
अन्तर्गृहादद्रुतमुपारुरुहुस्समन्तात्
द्रष्टुं विभूतिमनघां शरदोपनीताम् ॥ ३६ ॥
राजापि दुर्गनिलयान् द्विषतो विजेतुं
कालं निरीक्ष्य समनीनयदात्मसेनाम् ।
दन्तीन्द्रसैन्धवपदातिरथोपपन्नां
ते दुर्गमात्मनिलयं दृढमाबबन्धुः ॥ ३७ ॥
पक्कानि पिङ्गकपिशानि नतानि भूमौ
सस्यानि तेषु पतति स्म शुकालिरुत्का ।
हर्तुं प्रसह्य कणिशं न शशाक गोपी
संरक्षितुं कथमलं 1बलिनोऽवला सा ॥ ३८ ॥
पूर्वा दिशं गतवती यदि गोपिकेयं
ते पश्चिमां दिशमयन्ति पलायमानाः ।
सा पश्चिमां गतवती यदि पूर्वदिक्का-
मित्थं तताम शुकसङ्घनिकालनोत्का ॥ ३९ ॥
श्यामच्छदान्मृदपदान्मृदुभाषमाणान्
चञ्चुप्रदिष्टकणिशान् चटुलीयताक्षान् ।
तादृक्शुकीरनुगतान् पृथुशोणतुण्डान्
को वा निकालयितुमीश्वर ईदृशस्तान् ॥ ४० ॥
सस्यावने कृतनिरन्तरयत्नवत्यै
तस्यै चुकोप शुकभक्षितमुण्डशालीन् ।
दृष्ट्वाधिपो युगपदुद्धतपक्कशालीन्
नैवाक्षमिष्ट लवितुं परवान्निकृष्टः ॥ ४१ ॥
1अ. चलिनो ।
दृष्ट्वा भयानकमुखं पृथुवक्त्रघोणं
वेशन्तपङ्कपरिलिप्तसमस्तगात्रम् ।
घोराेञ्चशब्दपरिभीषिलोकमुग्रं
भूदारयूथमविशन्निशि पक्वशालीन् ॥ ४२ ॥
कैदार्यमाद च जगर्ज च भीमनादं
पादाभिघातपरिचूर्णितमञ्जरीकम् ।
नाबुद्ध गोपकुलमुग्र1 महान्धकारे
निद्राभिभूतमुदयावधि धर्मरश्मेः ॥ ४३ ॥
उत्थाय गोपककुलं परिनष्टसस्यं
तुन्दं जघान च विलोक्य विहाय पत्युः ।
तच्चापरत्र दिवसे न चकार निद्रां
2ऊत्कालयन्किल कुलं परिवात्प्रजाहः ॥ ४४ ॥
दीयालिकोत्सवमभूत्प्रथितं नगर्यां
सर्वे यदर्थमुपयुङ्क्त च मोदमानः ।
जग्राह नूत्नवसनं मलिनं न्यधावी-
दामुञ्चतामरणबृन्दममल्पशोभम् ॥ ४५ ॥
रथ्यापङ्गणाणगृहाणि ममार्ज यत्नात्
ताेयैरसिक्त परिमण्डयति स्म भक्त्या ।
द्वारेषु पूर्णकलशानपि पूगवृक्षान्
पुञ्चैर्युतान् कदलिकास्सफला न्यघाच्च ॥ ४६ ॥
सेवानुरूपमददाद्वसनार्थजातं
भृत्यादिकाय धनिकः स्वयमप्यवस्त ।
वस्त्रं नवं बहुधनं परिमण्डिताङ्गः
कर्पूरचन्दनरसादिकृताङ्गरागः ॥ ४७ ॥
1अ. तरे । 2अ. मुक्त्वाऽऽलपत्करिकुलं परियादृ जागः
केचिज्जहुर्नवनिषेवणमात्तवित्ता
अन्ये महीपतिमुपासिषवोक्तवीर्याः ।
जग्मुर्विदेशमपरे नृपसेवनाय
केचिद्भटास्तत उपाययुरन्यहंतोः ॥ ४८ ॥
तस्मिन्महे महति भुषितसर्वगात्राः
कस्तूरिकामलयनादिकृताङ्गरागाः ।
राजा तदीयललनाः पुरुषा निशाम्भो
नालीमुखेन सिसिचुर्भुशमाननादौ ॥ ४९ ॥
राज्ञी नृपं नृपतिरात्मवधूममात्यान्
ते चैनमेवनपरे सिषिचू रसाद्री ।
आर्द्राङ्गवस्त्रचिकुरा विहिनाट्टहासा
स्संरेजिरे प्रथमका इव धातुरक्ताः ॥ ५० ॥
राज्ञां विजेतुमनसां प्रथरोऽभ्युपायो
भोगास्पदं बिभविनां धुतपङ्कदोषा ।
आपक्वसम्यविभवा विशदांबुहृद्या
दीपालिका विजयते गुणपूररस्या ॥ ५१ ॥
श्रुत्वेति सर्वगुणयुक्तशतां मृगाक्षीं
हेमन्तनाम ऋतुराज उपाजगाम ।
उद्वोदु मि इव लालितधर्मरश्मिः
सवों गुणी गुणिगतिः प्रथितो हि लोके ॥ ५२ ॥
उत्पादयन्पनसचूतमुखाङ्घ्रिपाणा
गर्भं वचौ सहसितश्वसनस्सुतीव्रम् ।
यस्माद्भवन्ति पनसेषु शिवाकृतीनि
सूक्ष्माणि बृन्दसहितानि फलानि सद्यः ॥ ५३ ॥
भूमीरनूपनिलया उदयुञ्जतादौ
क्रष्टुं कृषीवलजनास्सहसा सहासाः ।
पान्थाः प्रमन्दहसितास्सहसा बभूवु-
र्वातेन चापि सहसऽभिगतेन विद्धाः ॥ ५४ ॥
शोकास्पदं सकमलं कमलं व्यनाङ्क्षीत्
हेमन्तकालखलसङ्गतिदूषितं तत् ।
शोच्यास्तदा सरसिजैर्बिरहात्सरस्यो
जाताः परं कुलवधूरिव निस्तनूजा ॥ ५५ ॥
मध्येऽपि वासरपतिर्दिवसस्य तीक्ष्णाे
मन्दो बभूव शिशिराग्बुकणाभिवर्षी ।
शीतोऽप्यशीतवपुरुष्णमनुप्णमास्त
किं नाम कर्तुमनलं बत काल एषः ॥ ५६ ॥
नखंपचाेत्तुङ्गपयोधराळ्यढ्य-
प्रियोपगूढास्सहसा युवानः ।
ताम्बूलवल्लीदलपूगवण्ड-
कर्पूरसंपूरितवक्त्रपद्माः ॥ ५७ ॥
सुदुस्सहं 1शीतमनन्यभार्यं
2सेविरे सेवितकाेष्णभक्ताः ।
निदानवद्वैद्यवरोपादष्ट-
योगेन रुग्णा इव रोगमुग्रम ॥ ५८ ॥
निवातगेहं सुदृढोरुभित्ति
3बद्धादरं कोष्णनिषेव्यमाणम् ।
सरल्लकं तल्पमनल्पशीतलं
संसेव्यमानश्शिथिलीचकार ॥ ५९ ॥
1अ. अनन्यहार्यं । 2अ. प्रसेहिरे ।
3अ. बद्धाररं ।निःस्वस्सुजीर्णवसनस्सदनेऽ1म्बुजीर्णे
शतोत्तरेऽग्निरहिते गतनिद्र आस्त ।
काष्ठोज्झिते दलितजीर्णकवाटचेले
सङ्कोचयन् करपदानि विसास्यंश्च ॥ ६० ॥
आनम्रपक्वफलपुञ्जककृष्णवल्ल्य-
श्शीताद्भियेव ललनावदचेतयन्त्यः ।
आमूलमाग्रपरिरम्भणलब्धसौख्या-
स्सेवन्त औषरवनेषु तरूनुपघ्नान् ॥ ६१ ॥
आलिङ्गिताः कृष्णलताभिरुच्छ्रिता
गुञ्जा नताभिर्बहुभारसंश्रयाः ।
शिरोभिरीड्यां जननीं वसुन्धरां
नूनं प्रणन्तुं विनमन्ति शाखिनः ॥ ६२ ॥
भानुदिवा कठिनकोष्ठभवः कृशानु-
स्सन्ध्याद्वये तुहिनरोगनिपीडितस्य ।
जानुद्वयं निशि मुखेन निचुम्ब्यमानं
भैषज्यमुक्तमति2 दुर्विधपूरुषस्य ॥ ६३ ॥
शेतेऽसकृत्तुहिनपीडित उत्थितश्च
वैश्वानरं निशि विकीर्य निषेवमाणः ।
रात्रेः कियत्वमिति पृच्छति दुर्विधेयं
शेते विषण्णवदनो गतनिद्र एव ॥ ६४ ॥
हेमन्तपीडितमुदीक्ष्य जनं समन्ता-
दभ्यागतश्शिशिरकाल उपात्तदेहः ।
3धर्मावसान उपरोधकपूर्वभाग-
स्सर्वो निपीडितनिपीडनकाम एव ॥ ६५ ॥
1अ. सुजीर्णे । 2अ. दुःखित ।
3अ. शर्मावसान ।
Sankara--141संसेचिरे कोलकवल्लरी2 तां
फलानि कृष्णान्यपि शोणभावम् ।
प्रपेदिरे तानि च पक्षिसङ्घो
जघास दृष्ट्वाधिपतिश्शुशोच ॥ ६६ ॥
आरभ्यमाणाः पुरुषैर्महीरुहो
मृदुस्वभावाश्शिरसा महीतलम् ।
नमन्ति भग्नं न च यन्ति सज्जना
यथा मनाक् कृष्णलतासमाश्रयाः ॥ ६७ ॥
पक्वानि कृष्णानि समं प्रसुस्रुवु-
स्समं विपाकाल्लविता न लभ्यते ।
अलावयन् शीघ्रमनल्पसेवका
लुनन्ति केचित्स्वयमेव लोभिनः ॥ ६८ ॥
कठोरभावात्पुरुषाधिरूढाः
पतन्ति भग्ना अपि पातयन्ति ।
महीरुहा दुर्जनवत्पुमांसं
कृष्णाचिता नग्नलतोपगूढाः ॥ ६९ ॥
अशूशुष3न्नूक्षणमुन्नतस्थले
बह्वातपे त्रीणि दिनानि सत्खले ।
न्यधुः कुसूले मरिचं गृहान्तरे
विक्रेतुकामा धनिनो धनार्थिनः ॥ ७० ॥
विचिक्रियुः केचन शोषयित्वा
प्रयाति मूल्येऽल्पघनाघमर्णाः ।
शीतार्दितानामभवद्धिताय
श्रीकृष्णगेहो बहुलोष्णदायी ॥ ७१ ॥
1अ. संपेचिरे । 2अ. वल्लरीणां ।
3अ. न्नूषण ।श्रद्धालवस्तपसि शीतमनीक्षमाणाः
सस्नुर्नदीपयसि पुण्यमवाप्तकामाः ।
शारीरलोमनिकरे परि1दृश्यमाने
पूर्वाचले तपनमण्डलमण्डिताङ्गे ॥ ७२ ॥
सहस्ररश्मावदितेऽपि केचि-
न्न 2चात्यजन् शीतभयेन शय्याम् ।
पुराभवे सञ्चितपुण्यलेशा
निचेलिनो भोग्यवधूपगूढाः ॥ ७३ ॥
3कुल्योपकूलागतवारिपीतै-
र्निराकृताशेषतृणान्तरालैः ।
योधैरवाङ्गीकृतपंक्तिभावैः
पूगै रराजोपवनं तपस्ये ॥ ७४ ॥
सदालवालोदरनिर्गतासित
छदालिताम्बूललताभिवेष्टितैः ।
ली4लापचयाल्लघुभिस्समोन्नतै-
स्सबालकैः श्यामलदीर्घपत्रकैः ॥ ७५ ॥
आमूलकाग्रफलितैः पनसैरुपेतं
सीमाधिरोपितसदाफलनालिकेरम् ।
रम्भाभि5रुत्तमफलानतपुञ्जभाग्भिः
विस्तीर्णपत्रनिचयाभिरनिन्दिताभिः ॥ ७६ ॥
सोपानसंस्थं बहुदन्त 6शारं
सदा प्रवाहो7द्धदसत्तठाकम् ।
क्वचित्समानीतनदीकबन्धं
क्वचित्सुयन्त्रोद्धृतवारिपुष्टम् ॥ ७७ ॥
1अ. हृष्यमाणे । 2अ. तत्यजुः ।
3अ. कुल्योपकुल्यागतवारिपीतैः । 4अ. फलावचायात् ।
5अ. उन्नत । 6अ. शाटं ।
7अ. ऊर्ध्वग ।एवं क्रमादार्तवमीक्षमाण-
स्सोऽन्वेषमाणो यतिनां निकायः ।
समानयद्देशिकवर्यपाश्वं
भिषग्वरान् शास्त्रचणान् प्रवीणान् ॥ ७८ ॥
मुनिवरस्समुपाचरदागतान्
गृहिवरैर्धनधान्य 1पुराणकैः ।
मुमुदिरे कृतसत्करणादमी
गदनिदानविदो भिषजां वराः ॥ ७९ ॥
बहुदिनैर्बहुदेशसमागतान्
सबहुमानमिदं मुनिरब्रवीत् ।
कुशलता भवतामपि वर्तते
गृहकलत्रसुतादिषु संप्रति ॥ ८० ॥
विशदवारि मृदूलपसंयुतं
भवति काननमन्तिकभुगतम् ।
अपि पशव्यमपौढदवानलं
सरसपल्लव 2वल्गुलतावृतम् ॥ ८१ ॥
सुखदवं वनगोगणमक्षयं
किमु तरक्षुगणश्च न बाघतै ।
अभिमतं बहुवाघमुदीक्ष्यते
न हि विनष्टिरनीहित वस्तुनि ॥ ८२ ॥
हरिहयोऽभिमते समयेऽधुना
नदह्रदे वसुधामाप वर्षति ।
अपि फलन्ति नगा उपजीव्यता-
मुपगता बहुतापभृतोऽनिशम् ॥ ८३ ॥
1अ. वरांशुकैः । 2अ. गुल्म ।
3अ. प्सित ।अपि मनो भवतां नृपसेविनां
तदनुसारि दिवानिशमज्वरम् ।
दहनवन्नृपतिं परिषेवितुं
शिथिलबुद्धिभिरङ्ग न शक्यते ॥ ८४ ॥
1अपि भवद्विषये न भयं क्वचि-
द्विषमदुर्गमदुर्गसमाश्रयात् ।
खलपतेः कुलभूपम2नीषितुः
परधनेन हृतेन सदाश्नतः ॥ ८५ ॥
नरपतेरपि शासनमार्दवा-
ज्जनपदो न च वो बहुतस्करः ।
कथितशास्त्रविदो वहु मन्वते
नृपतयो गुणदोषविचक्षणाः ॥ ८६ ॥
सततमर्थितमेव हि भेषजं
तदपि सञ्चितमस्ति भवद्गृहे ।
न हि विदन्ति जनाः परसङ्कटं
स्वहितमर्थयितुं प्रभवो हि ते ॥ ८७ ॥
अतिथिरत्तुमना गृहमागतो
हतमनाः क्रियते हि न गेहिभिः ।
स हि 3समीक्षत एव भवाहशै-
स्त्रिदशलोकगतौ दृढसंक्रमः ॥ ८८ ॥
आप मखः क्रियते बहुदक्षिणो
द्विजवरैर्बहुयाजकसाधकः ।
4बहुफलो बहुभक्तसुतृप्तिदो
बहुदिनश्रुतिघोषसमन्वितः ॥ ८९ ॥
1अ. अयि । 2अ. अनीक्षितुः ।
3अ. समीरित । 4का. शुभफलः ।नदनदीगिरिदेशविलंघना-
त्समभवद्भवतां पथिजः श्रमः ।
दिनकरस्य करै1रपि तापदैः
परहिताभिरतस्य न दुःखधीः ॥ ९० ॥
इति निशम्य वचो मुनिनोदितं
निजगदे गदहारिजनैस्ततः ।
भवदनु2ग्रहणात्कुशलं च नो
गृहकलत्रसुतादिषु सन्ततम् ॥ ९१ ॥
कुशलमेव समस्ति न सङ्कटं
न हि रवौ तिमिरं लभते स्थितिम् ।
अगमदध्वजभूरिपरिश्रम-
स्तव मुखाब्जविलोकनताऽधुना ॥ ९२ ॥
यदिह नः करणीयमुदीर्यतां
वितनुमो मुनिवर्य यथाबलम् ।
उपगुदं भिषजः परिबाधते
गद उदेत्य तनुं तनुमध्यगः ॥ ९३ ॥
यदिदमस्य विधेयमिदं ध्रुवं
गदत रोगतमस्तिमिरारयः ।
चिरमुपेक्षितवानहमेतकं
दुरितजोऽयमिति प्रतिभाति मे ॥ ९४ ॥
तदपि शिष्यगणैर्नि3रहिंस्यहं
प्रहितवान्भवदानयनाय तान् ।
निगदिते मुनिनेति भिषग्वरा
विदघिरे बहुधा गदसत्क्रियाः ॥ ९५ ॥
1अ. अति । 2अ. स्मरणात् ।
3का. निरबन्ध्यहं ।न च शशाम गदो बहुतापदो
विमनसः पठवो भिषजोऽभवन् ।
जनपदानतिलङ्घ्य समागता
वयमितो न कृतं हितमस्य हा ॥ ९६ ॥
न दहनं विरहय्य मुने गदं
शमयितुं प्रभवन्ति भिष1ग्जनाः ।
अनुचिता यतिनां दहनक्रिये-
2त्यपथभीति मनो वदितुं च नः ॥ ९७ ॥
अठत गेहमगात्समयो बहु-
र्गदहृतां भवतामितरं युषाम् ।
दिनचयं गणयन्पथिलोचनः
प्रियजनो निवसेद्विरहातुरः ॥ ९८ ॥
नरपतिर्भवतां शरणं ध्रुवं
स च विदेशगमं श्रुतवान्यदि ।
रुषितवान् न च वो वितरेन्नृपो
भणितजीवितमक्षतशासनः ॥ ९९ ॥
तुरगवन्नृपतिश्चलमानसो
भिषजमन्यमसौ विदधीत वा ।
नरपतेर्हृदयाम्बुजतोषणं
न सुकरं सुधियापि 3निशेशवत् ॥ १०० ॥
जनपदो विरलो गदहारकै-
र्बहुलरुग्णजनः प्रकृतेरतः ।
मुगयते भवतो भवतां गृहे
4गदिजनस्सहितुं गदमक्षमः ॥ १०१ ॥
1का. भिषग्वराः। 2का. अपि सभीति ।
3अ. विशेषवत् । 4अ. गृहिजनः ।पितृकृता जनिरस्य शरीरिण-
स्समवनं गदहारिषु तिष्ठति ।
जनितमप्यफलं भिषजं विना
भिषगसौ हरिरेव तनुभृतः ॥ १०२ ॥
यदुदितं भवता वितथं न तत्
तदपि न क्षमते व्रजितुं मनः ।
सुरभुवं प्रविहाय मनुष्यकं
व्रजितुमिच्छति कोऽत्र नरस्सुधीः ॥ १०३ ॥
इति निगद्य गते भिषजां गणे
विमनसि प्रथिते गदपीडितः ।
हृदयगौ विदधे मुनिरश्विनौ
हरिहयस्य गृहे गदहारिणौ ॥ १०४ ॥
दिविषदां भिषजौ मम भेषजं
कुरुतमद्य 1नमः कृपयास्तु वाम् ।
मनुजलोकगता भिषजो जहु-
र्गदमुदीक्ष्य स्वरं भृशमक्ष2मम् ॥ १०५ ॥
सुरभिषग्युगलं बुबुधेऽथ त
त्तदकरोच्च परस्परम3न्त्रणम् ।
मनुजरोग4चिकित्सनमावयो-
रनुचितं विपरीत5मथो भवेत् ॥ १०६ ॥
अथ विचारयितुं ययतुस्सभां
हरिहयस्य पटू गुरुसङ्ग6ताम् ।
अमृतबिन्दुकणादुदियाय या
ददतुरेवमभीतिमभीप्सिताम् ॥ १०७ ॥
1अ. मनः । 2अ. अक्षमाः ।
3अ. मन्त्रणाम् । 4अ. लोकचिकित्सितं ।
5क. मितो । 6अ. संमितां ।जिगदिषू इव वामुपलक्षये
गदतमस्ति यदीप्सितमश्विनौ ।
असमये सदनात्समितिं गतौ
तदिह कारणमस्ति न संशयः ॥ १०८ ॥
हरिहयाह्वयति स्म चिकित्सितुं
यतिवरः क्षितिलोकगतोऽपि नौ ।
इति निवेदयितुं कृत आगमो
यदिह कार्यमुदाहरतां भवान् ॥ १०९ ॥
इदमपूर्वमुपस्थितमद्य नौ
सुरगणेषु चिकित्सितमावयोः ।
प्रथितमेव हरे भुवनत्रये
तदपि हूतिरियं मनुजेन नौ ॥ ११० ॥
हरिहयेङ्गितविद्गुरुरुत्तरं
प्रतिजगाद पटुर्भिषजौ हसन् ।
न मनुजश्शिव एव समाह्वयत्
गद1नुदौ गदितः क्षितिगो युवाम् ॥ १११ ॥
द्विजवरस्सहितो निजभार्यया
शिवमतूतुषदुग्रतपश्चरन् ।
सुतमभीप्सुरनल्पगुणोदयं
शिवसमं शिव एव सुतोऽजनि ॥ ११२ ॥
स ववृधे मनुजत्वमुपागतो
द्विजगृहे द्विजमोदमुपावहन् ।
प्रथमहायन एवं समग्रहीत्
सकलवर्णमसौ निजभाषिकाम् ॥ ११३ ॥
'अ. हृतौ ।
द्विसम एव शिशुर्लिखिताक्षरं
गदितुमक्षमताक्षरवित्सुधीः ।
अथ स काव्यपुराणमुपाशृणोत्
स्वयमवोत्किमपि श्रवणं विना ॥ ११४ ॥
अजनि दुःखकरो न गुरोरसौ
श्रवणतस्सकृदेव समग्रहीत् ।
सहनिपाठिजनस्य गुरुः स्वयं
स च पपाठ ततो गुरुणा विना ॥ ११५ ॥
त्रिसम एव शिशोर्जनको जर-
न्नमृत कर्मवशस्सुतमोदितः ।
उपनिनीषत सूनुमपि स्वयं
न हि यमोऽत्र कृताकृतमीक्षते ॥ ११६ ॥
इह भवेत्सुलभं सुसुतेक्षणं
न सुलभं सुतरां विभवेक्षणम् ।
सुतमवाप कथाञ्चिदयं द्विजो
न खलु वीक्षितुमैष्ट सुतोदयम् ॥ ११७ ॥
मृतमदीदहदात्मसनाभिभिः
पितरमस्य शिशोर्जननी ततः ।
समनुनीतवती 1युवतीडितां
स्वजनतामृतिशोकहरैः पदैः ॥ ११८ ॥
कृतवती 2मृतिचोदितमक्षमा
निजजनैरविकारितवत्यसौ ।
उपनिनीषुरभूत्सुतमात्मनः
पारिसमाप्य च वत्सरदीक्षणम् ॥ ११९ ॥
1अ. धदखण्डितां । 2अ. मृत ।
उपनयं किल पञ्चमवत्सरे
प्रचुरयोगयुते सुमुहूर्तके ।
द्विजवधू1र्नियता जननी शिशो-
र्व्यधित तुष्टमनास्सह बन्धुभिः ॥ १२० ॥
अधिजगे निगमांश्चतुरोऽपि स
क्रमत एव गुरोस्स षडङ्गकान् ।
अजनि विस्मितमत्र महामतौ
द्विजसुतेऽल्पतनौ जनताहृदि ॥ १२१ ॥
सहनिपाठयुता वटवस्समं
पठितुमैशत न द्विजसूनुना ।
अपि गुरुर्विशयं प्रतिपेदिवान्
क इव पाठयितुं सहसा क्षमः ॥ १२२ ॥
मृदुवचश्चरितं कुशला मति-
र्वपुरनुत्तममास्पदमोजसाम् ।
सकलमेतदुदीक्ष्य सुतस्य सा
सुखमवाप निरर्गलमम्बिका ॥ १२३ ॥
परिचरञ्जननी निगमं पठन्
अपि हुताशरवी सवनद्वयम् ।
मनुवरैर्नियतं परिपूजयन्
शिशुरवर्तत संस्तरणो यथा ॥ १२४ ॥
शिशुमुदीक्ष्य युवापि 2विमन्युमान्
दिशति वृद्धतमोऽपि निजासनम् ।
अपि करोति जनः करयोर्युगं
चशगतो विहिताञ्जलि तत्क्षणात् ॥ १२५ ॥
1अ. वधूनियता । 2अ.न; का. नमत्यमुं ।
स विरजन्भववर्त्मनि सर्ववित्
व्यधित संन्य1सने किल मानसम् ।
पतति कूपतले बहुकण्टके
न हि विलोचनवान् सहजान्धवत् ॥ १२६ ॥
मम न मानसमिच्छति संसृतिं
न च पुनर्जननीं विजहासति ।
न च गुरुर्जननी न उदीक्षते
तदनुशासनमीषदपेक्षितम् ॥ १२७ ॥
इति विचिन्त्य स जातु मिमङ्क्षया
बहुजलां सरितं समुपाययौ ।
जलमगाहत तत्र समग्रहीत्
जलचरश्चरणे जलमीयुषम् ॥ १२८ ॥
स च रुरोद जले जलचारिणा
धृतपदो हरतेऽम्ब करोमि किम् ।
चलितुमेकपदं न च पारये
बलवता विधृतो2ऽत्र मुखेन हा ॥ १२९ ॥
गृहगता जननी तदुपाशृणोत्
परवशा द्रुतमाप सरित्तठम् ।
अमृत मे प्रथमैं शरणं धव-
स्तदनु मे शरणं तनयो भवान् ॥ १३० ॥
स च मरिष्यति नक्रवशं गत-
श्शिव न मेंऽजनि हन्त पुरा मृतिः ।
इति शुशोच जनन्यपि तीरगा
जलगातत्मजवक्त्रगतेक्षणा ॥ १३१ ॥
1अ. संन्यसितुं । 2अ. विवृतोरुमुखेन ।
त्यजति नूनमसौ चरणं चलो
जलचरोऽम्ब तवानुमतेन मे ।
सकलसंन्यसने परिकल्पिते
यदि तवानुमतिं परिकल्पये ॥ १३२ ॥
इति शिशौ 1चकिते वदति स्फुटं
व्यधित सानुमतिं द्रुतमम्बिका ।
सति सुते भविता मम दर्शनं
मृतवतस्तदु नेति विनिश्चयात् ॥ १३३ ॥
तदनु संन्यसनं मनसा व्यधात्
अथ मुमोच शिशुं 2खलनक्रकः ।
उपययौ स नदीतटमत्रसन्
प्रणतवान्प्रहसन् जननीमपि ॥ १३४ ॥
तदनुशासनवान् प्रययौ गृहं
न्याधित संन्यसनं मुदितश्शिशुः ।
विदितशास्त्रम3वाप्य दयाम्बुधिं
गुरुमनुत्तममुत्तमसेवितम् ॥ १३५ ॥
प्रभुरपि स्वशरीरगमर्दितुं
गदमयं प्रथयन्नरधर्मताम् ।
यतितनुश्शिव आह्वयते स वां
गदहृतावयतं गतसंशयौ ॥ १३६ ॥
अटिदिषू क्षितलाेकमितो युवां
द्विजवरौ भवतं भिषजौ नरौ ।
बलिविधिर्मजनीयसुरानुगो
भवति हीति वदन्ति जना अपि ॥ १३७ ॥
1अ. चकिता । 2अ. जल ।
3अ. अवाप ।इति निगद्य वचस्सुरदेशिके
स्थितवति प्रथितौजसि चाश्विनौ ।
गृहमुपेत्य यथोदितभेषजं
जगृहतुर्दधतुर्गतये मनः ॥ १३८ ॥
द्विजतनुं प्रविधाय भिषग्वरौ
मनुजलोकमुपेयतुरश्विनौ ।
धवलसूत्रधरौ विमलाम्बरौ
करसरोरुहमूलकपुस्तकौ ॥ १३९ ॥
मलयजेन कृतायतपुण्ड्रकौ
स्मितविकासिमुखेन्दुविराजितौ ।
चटुलसाञ्ज २ नपङ्कजलोचनौ
मृदुसुदीर्घकराम्बुजश्नौ ॥ १४० ॥
उपगतौ भिषजौ द्युसदां पतिं
यतिमलोकयतां गदपीडितम् ।
मुनिवरोऽप्यवलोक्य तुतोष तौ
नयनमानसहारिवपुर्धरौ ॥ १४१ ॥
द्विजवरौ किमिदं भुजमूलके
कुत उपागमनं सुमुखौ युवाम् ।
किमिह कृत्यमितः क गमिष्यथो
निवसनं क्षणमत्र सुखाय मे ॥ १४२ ॥
लिखितमेतदनल्पचिकित्सितं
यतिवरेह सुखाय विदूरगौ ।
जिगमिषु स्वयमेव पदं शनै-
र्यदि सुखं वसनेन वसाव ते ॥ १४३ ॥
यदि युवां भिषजौ वयमर्थिनो
गुरुरयं 1गदितो बहुवित्तमः
कुरुतमस्य चिकित्सितमीप्सितं
2विधिनुतं भवतोरिह दर्शनम् ॥ १४४ ॥
भुवि दिनानि बहूनि भिषग्वरा
न मृगयामहि ते च कृतक्रियाः ।
गदमसाध्यमुदीर्य ययुर्गृहं
मृगयितव्यमताे3 भवतोर्युगम् ॥ १४५ ॥
विधिकृतागमनौ सहसा युवां
गरुरयं विगतज्वर 4ईप्सितः ।
इति बुधौ हृदये प्रतिभाति नो
हृदयमेव हि मानमभीप्सिते ॥ १४६ ॥
इति समीपगशिष्यगणोदिता
ववदतां भिषजौ यतिसत्तमम ।
रहसि येयमितो भवता यते
वितनवाव यथाबलमौषधम् ॥ १४७ ॥
दृढसुधामयदोर्युगलेन तौ
गदमुदीक्ष्य समस्पृशतां शनैः ।
द्विजवरौ भिषजौ मुनिसत्तमं
तत उपाजनि शं सह निद्रया ॥ १४८ ॥
निजकरे मथितोत्थितवाह्निके
ज्वलनवज्ज्वलितामभितापिताम् ।
बहुविधौषधभाजन 5मूर्तिकां
निजकराङ्गु6लिकारुघिरस्रुतिम् ॥ १४९ ॥
1अ. गदिको । 2अ. कृतं ।
3अ. मिदं । 4अ. ईडितः ।
5का. मृत्तिकां । 6का. लिकां ।सुखमताडयतां गदमस्तके
द्विजवरौ भिषजौ द्युसदामथ ।
समुदमीलयदक्षियुगं मुनि-
र्न च पुरो ददृशे द्विजयोर्युगम् ॥ १५० ॥
समभवन्मुनिरेव निरामय-
स्स्वभवनं ययतुस्सुखमश्विनौ ।
द्विजवरौ बुबुधे मुनिरश्विनौ
1अचकथन्निजशिष्यगणाय तत् ॥ १५१ ॥
मुमुदिरे यतयाे गुरुमात्मनो
गतगदं परिदृश्य सुखेषितम् ।
स्वगुरुणा सुखदुःखसमो जनो
भवति निर्वृतये हि निरीतये ॥ १५२ ॥
प्रावृड यत्र समं शरद्वनितया पूश्शारदी वर्णिता
हेमन्तश्शिशिरण देशिकवरप्राप्तिर्महीवर्तिनाम् ।
नानाव्याधिहृतां निवृत्तिरमुना हूतिश्च नासत्ययो-
र्यातश्शङ्करदेशिकेन्द्रविजये सर्गोऽयमेकादशः ॥ १५३ ॥
॥ इति श्रीशङ्करविजये व्यासाचलीये एकादशस्सर्गः ॥
1का. अकथयन् ।