शङ्करविजयः/द्वितीयस्सर्गः
अथ द्वितीयस्सर्गः
पुरोपमन्युः किल पञ्चहायन-
स्सन्तोषयामास शेवं समाधिना ।
आराधिता दैवतकल्पवल्लरी
फलान्यमीष्टानि फलिष्यति ध्रुवम् ॥ १ ॥
किलोपमन्योर्जननी दरिद्रा
पिष्टं समालोड्य जले ददाति ।
स्तन्यञ्च किञ्चित्परिकर्शिताङ्गी।
स दुग्धबुद्ध्या तदुतोपभुङ्क्ते ॥ २ ॥
स चोपजीवन्निति मातुलस्य
गेहं जनन्या प्रययौ कदाचित् ।
गोमान् घनी सर्वगुणधिवास-
स्स मातुलस्तस्य गृहे न्यवात्सीत् ॥ ३ ॥
सदुग्धमन्तं सघृतं समश्नं-
श्चिक्रीड बालैस्सह वीतरोगः ।
पुनश्च मात्रा सहितस्समायात्
स्वकीयदारिद्र्यगृहाणि बालः ॥ ४ ॥
भूयोऽपि माता कृपणा पुरेव सा
नीवारापिष्टं प्रददावरोचत ।
नास्मै तदन्नं विजहाव1थारुद
दुग्धं न मातः पय इत्यवोचत् ॥ ५ ॥
क. विजहौ तदा ।
द्वितीयस्सर्गः
शनै रुदन्ती तनयं बभाषे
मातोदिताश्रुं निविमृज्य दीना ।
तातद्देशं दुग्धमिहास्ति गेहे
विशेषलाभे मम नास्ति भाग्यम् ॥ ६ ॥
आराधितो नेश्वरकल्पशाखी
भवान्तरे तात मया कदाचित् ।
यदीश्वरस्याङ्ग्रिसरो1जयुग्मं
समर्चितं तत्कथमीदृशं स्यात् ॥ ७ ॥
तातेह ये परिजनम्बरभूषणा2स्स्युः
स्त्रीरत्नगोवसुमतीसुखभोगभाजः ।
तान्विद्धि पूजितशिवान् पुरुषांस्त्रिलोक्यां
न चेत्कथं गदितवैभवभागिनः स्युः ॥ ८ ॥
यद्येवमम्ब मम दुवेघतापहन्तृ
कर्माकलय्य विधिवत्करणीयमेव ।
3तुष्येद्धरः करुणयैव विना विपतिं
येनाशुभेन4 विरहय्य तनुर्न मेऽन्यत् ॥ ९ ॥
इतीरयित्वा जननीमनुज्ञां
पञ्चाब्दमात्ररतपसे धृतात्मा ।
5अयाचताथाहमठानि किञ्चित्
संप्रार्थयस्वांखिलदेवतास्त्वम् ॥ १० ॥
1अ. का मर्चितं तदा कथं जीवनमीदृशं स्यात् ।
2का. णाढ्याः ।
3का. तुष्ट्वेश्वरं ।
4अ. येनाशु येन, का. यानाश्नुतेन विरहय्य तनुं न मेऽन्यत् ।
5क. अयाचताद्यहं ।इत्युक्तमात्रे जननी मुमूर्छ
सा किञ्चिदाश्वास्य सुतं बभाषे ।
आलिङ्ग्य नो वेत्सि दिशं सुतैकां
पूर्वामुदीचीमथ वा प्रतीचीम् ॥ ११ ॥
त्वं तात दूरं बत मा प्रयासी-
स्तपो हि कर्तुं तव नास्ति शक्तिः ।
1पञ्चाब्दमात्रः पतिता न दन्ता
मां 2किं वदेयुर्जननीमकाले ॥ १२ ॥
वसन्निहैवात्मबलानुरूपं
तपश्चर त्वं यदि रोचते ते ।
तपस्सहाया भवितास्मि शक्त्या
त्यक्त्वा न हि त्वामिह वस्तुमीशे ॥ १३ ॥
अत्रापि तत्रापि शिवोऽस्ति साक्षात्
स सर्वगो व्योमसमो न मूर्तः ।
मनस्स्थित्वं सुदृढा च भक्ति-
स्तपोनिदानं न तु देशभेदः ॥ १४ ॥
सत्यं शिवस्सर्वगतो न संशय-
स्तथापि सान्निध्यममुष्य कारितम् ।
देशादिना सर्वगकृष्णवर्त्मनो
व्यक्तिर्यथा वृक्षविशेषगोचरा ॥ १५ ॥
गृहं न योग्यं तपसेऽम्ब सङ्गतं
मित्रादिभिस्तन्निकटं न शस्यते ।
गृहान् परित्यज्य तपोवनं गताः
किं मौर्ख्यभाजो मुनयः पुरातनाः ॥ १६ ॥
1का. पंचाब्दमात्रे प्रहिते वनान्तं or पंचाब्दमात्रः प्रहितो वनान्तम् ।
2न. निन्दयेयुः किमु मातरं माम् ।सत्यं तपश्शैशव एव नूनं न यौवने नापि च वृद्धभावे ।
यूनो विकारस्तपसो हि विघ्नो वृद्धस्तपः कर्तुमनीश एव ॥ १७ ॥
बालं तपस्यन्तमुदीक्ष्य देवाः
कृपां विदध्युस्स हि विस्मयास्पदः ।
शिशुं तदन्यत्र च दुष्करे स्थितं
पश्यन् दयालुर्हि जनोऽनुकम्पते ॥ १८ ॥
औत्तानपादिः किल पञ्जहायन-
स्तपश्चचारातिसुदुस्स्सहं ततः ।
श्रीविष्णुमुद्दिश्य स चाप दुर्लभं
पदं न किं ते श्रुतिगोचरं गतः ॥ १९ ॥
तपश्चरेयं यदि ते समीपे
दृष्ट्वा हि मामुग्रतपश्चरन्तम् ।
जायेत दुःखं प्रतिवासरं ते
ततो वरं दूरत एव वासः ॥ २० ॥
आत्मानमन्यञ्च न श्क्नुवत्या-
स्त्रातुं विदेशे गमनं मया ते ।
दुःरवाच्च दुःखं तदिहाऽऽस्स्व मात-
र्गृध्नन्त्यभीष्टं मम नित्यमेव ॥ २१ ॥
इत्थं शङ्करविजये काव्येऽस्मिन् व्यासशैलमुनिरचिते ।
सर्गो द्वितीय आसीत् प्राप्तसमाप्तिसमात्तविविधार्थे ॥ २२ ॥
इति श्रीशङ्करविजये व्यासाचलीये द्वितीयस्सर्गः ।