शङ्खसंहिता
प्रथमोऽध्यायः ।
स्वयम्भुवे नमस्कृत्य सृष्टिसंहारकारिणे ।
चातुर्व्वर्ण्यहितार्थाय शङ्खः शास्त्रमथाकरोत् ।। 1.1 ।।
यजनं याजनं दानं तथैवाध्यापनक्रियाम् ।
प्रतिग्रहञ्चाध्ययनं विप्रः कर्म्माणि कारयेत् ।। 1.2 ।।
दानमध्ययनञ्चैव यजनञ्च यथाविधि ।
क्षत्रियस्य तु वैश्यस्य कर्म्मेदं परिकीर्त्तितम् ।। 1.3 ।।
क्षत्रियस्य विशेषेण प्रजानां परिपालनम् ।
कृषिगोरक्षवाणिज्यं वैश्यस्य परीकीर्त्तितम् ।। 1.4 ।।
शूद्रस्य द्विजशुश्रूषा सर्व्व शिल्पानि चाप्यथ ।
क्षमा सत्यं दमः शौचं सर्व्वेषामविशेषतः ।। 1.5 ।।
ब्राह्मणाः क्षत्रियाः वैश्यास्त्रयो वर्णा द्विजातयः ।
तेषां जन्म द्वितीयन्तु विज्ञेयं मौञ्जिवन्धनम् ।। 1.6 ।।
आचार्य्यस्तु पिता प्रोक्तः सावित्री जननी तथा ।
ब्र्हमक्षत्रविशाञ्चैव मौञ्जिवन्धनजन्मनि ।। 1.7 ।।
विप्राः शूद्रसमास्तावद्विज्ञेयास्तु विचक्षणैः ।
यावद्वेदे न जायन्ते द्विजा ज्ञेयास्तु तत्परम् ।। 1.8 ।।
इति शङ्खीये धर्म्मशास्त्रे प्रथमोऽध्यायः ।। 1 ।।
द्वितीयोऽध्यायः ।
गर्भस्य स्फुठताज्ञाने निषेकः परिकीर्त्तितः ।
ततस्तु स्पन्दनात् कार्य्यं सवनन्तु विचक्षणैः ।। 2.1 ।।
अशौचे तु व्यतिक्रान्ते नामकर्म्म बीधीयते ।
नामधेयञ्च कर्त्तव्यं वर्णानाञ्च समाक्षरम् ।। 2.2 ।।
माङ्गल्यं ब्राह्मणस्योक्तं क्षत्रियस्य बलान्वितम् ।
वैश्यस्य धनसंयुक्तं शूद्रस्य तु जुगुप्सितम् ।। 2.3 ।।
शर्म्मान्तं ब्राह्मणस्योक्तं वर्म्मन्तं क्षत्रियस्य च ।
धनान्तञ्चैव वैश्यस्य दासान्तं वान्तजन्मनः ।। 2.4 ।।
चतुर्थे मासि कर्त्तव्यमादित्यस्य प्रदर्शनम् ।
षष्ठेऽन्नप्राशनं मासि चुड़ा कार्य्या यथाकुलम् ।। 2.5 ।।
गर्भाष्टमेऽब्दे कर्त्तव्यं ब्राह्मणस्योपनायनम् ।
गर्भादेकादशे राज्ञो गर्भात्तु, द्वादशेः विशः ।। 2.6 ।।
षोड़शाब्दस्तु विप्रस्य द्वाविंशः क्षत्रियस्य तु ।
विंशतिः सचतुष्का च वैश्यस्य परिकीर्त्तिता ।। 2.7 ।।
नाभिभाषेत सावित्रीमत ऊर्द्धं निवर्त्तयेत् ।। 2.8 ।।
विज्ञातव्यास्त्रयोऽप्येते यथाकालमसंस्कृताः ।
सावित्रीपतिता व्रात्याः सर्व्वधर्म्मबहिस्कृताः ।। 2.9 ।।
मौञ्जौवन्धो द्विजानान्तु क्रमान्मौञ्जौ प्रकीर्त्तिता ।
मार्ग वैयाघ्रवास्तानि चर्म्माणि ब्रह्मचारिणाम् ।। 2.10 ।।
पर्णपिप्पलबिल्वानां क्रमाद्दण्डाः प्रकीर्त्तिताः ।
कर्णकेशललाटेस्तु तुल्याः प्रोक्ताः क्रमेण तु ।। 2.11 ।।
अवक्राः सत्वचः सर्वे नाग्निदग्धास्तथैव च ।
यज्ञोपवौतं कार्पासक्षौमोर्णानां यथाक्रमम् ।। 2.12 ।।
आदिमध्यावसानेषु भवच्छब्दोपलक्षितम् ।
भैक्षस्य चरणं प्रोक्तं वर्णनामनुपूर्व्वशः ।। 2.13 ।।
इति शङ्खीये धर्म्मशास्त्रे द्वितीयोऽध्यायः ।। 2 ।।
तृतीयोऽध्यायः ।
उपनीय गुरूः शिष्यं वेदमस्मै प्रयच्छति ।
भृतकाध्यापको यस्तु उपाध्यायः स उच्यते ।। 3.1 ।।
प्रयतः कल्यमुत्थाय स्नातो हुतहुताशनः ।
कुर्व्वीत प्रयतो सुत्वा गुरूणामभिवादनम् ।। 3.2 ।।
अनुज्ञातश्च गुरूणाततोऽध्यायनमाचरेत् ।
कृत्वा ब्रह्माञ्जलिं पश्यन् गुरोर्वदनमानतः ।। 3.3 ।।
ब्रह्मावसाने प्रारम्भे प्रणवञ्च प्रकीर्त्तयेत् ।
अनध्यायेष्वध्ययनं वर्ज्जयेच्च प्रयत्नतः ।। 3.4 ।।
चतुर्द्दशीं पञ्चदशौमष्टमीं राहुसूतकम् ।
उल्कापातं महीकम्पमशौचं ग्रामविप्लवम् ।। 3.5 ।।
इन्द्रप्रयागं सुरतं घनसङ्घातनिस्वनम् ।
वाद्यकोलाहलं युद्धमनध्यायं विवर्ज्जयेत् ।। 3.6 ।।
नाधौयीताभियुक्तोऽपि प्रयत्नान्न च वेगतः ।
देवायतनवल्मीकश्मशानशिवसन्निधौ ।। 3.7 ।।
भैक्षचर्य्यान्तथा कुर्य्याद् ब्राह्मणेषु यथाविधि ।
गुरुणा चाभ्यनुज्ञातः प्राश्रीयात् प्राङ्मुखः शुचिः ।। 3.8 ।।
हितं प्रियं गुरोः कुर्य्यादहङ्कारविवर्ज्जितः ।। 3.9 ।।
उपास्य पश्चिमां सन्ध्यां पूजयित्वा हुताशनम् ।
अभिवाद्य गुरूं पश्चाद् गुरोर्व्व चनकृद्भवेत् ।। 3.10 ।।
गुरोः पूर्व्वं समुत्तिष्ठेच्छयीत चरमं तथा ।। 3.11 ।।
मधुमांसाञ्जनं श्राद्धं गीतं नृत्यञ्च वर्ज्जयेत् ।
हिंसापवादवादांश्च स्त्रीलौलाश्चः विशेषतः ।। 3.12 ।।
मेखलामजिनं दण्डं धारयेच्च प्रयत्नतः ।
अधः शायौ भवेन्नित्यं ब्रह्मचारी समाहितः ।। 3.13 ।।
एवं कृत्यन्तु कुर्व्वीत वेदस्वीकरणं बुधः ।
गुरवे च धनं दत्त्वा स्नायाच्च तदनन्तरम् ।। 3.14 ।।
इति शङ्खीये धर्म्मशास्त्रे तृतीयोऽध्यायः ।। 3 ।।
चतुर्थोऽध्यायः ।
विन्देत बिधिवद्भार्य्यामसमानार्षगोत्रजाम् ।
मातृपः पञ्चमीञ्चापि पितृतस्त्वथ सप्तमौम् ।। 4.1 ।।
ब्राह्मो दैवस्तथैवार्षः पाजापत्यस्तथासुरः ।
गान्धर्व्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ।। 4.2 ।।
एते धर्म्म्यास्तु चत्वारः पूर्व्वं विप्रे प्रकीर्त्तिताः ।
गान्धर्ब्बी रात्रसश्चैव क्षत्रियस्य प्रशस्यते ।। 4.3 ।।
अप्रार्थितः प्रयत्नेन ब्राह्मस्त परिकीर्त्तितः ।
यज्ञेषु ऋत्विजे दैवमादायार्षस्तु गोद्वयम् ।। 4.4 ।।
प्रार्थितापप्रदानेन प्राजपत्यः प्रकीर्त्तितः ।
आसुरो द्रविणादानाद्गान्धर्व्वः समयान्मिथः ।। 4.5 ।।
राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ।
तिस्रस्तु भार्य्या विप्रस्य द्वे भार्य्ये क्षत्रियस्य तु ।। 4.6 ।।
एकैव भार्य्या वैश्यस्य तथा शूद्रस्य कीर्त्तिता ।
ब्राह्मणी क्षत्रिया वैश्या ब्राह्मणस्य प्रकीर्त्तिताः ।। 4.7 ।।
क्षत्रिया चैव वैश्या च क्षत्रियस्य बिधीयते ।
वैश्यैव भार्य्या वैश्यस्यः शूद्राः शूद्रस्य कीर्त्तिता ।। 4.8 ।।
आपद्यपि न कर्त्तव्या शूद्रा भार्य्या द्विजन्मना ।
अस्यां तस्य प्रसूतस्य निश्कृतिर्न बिधीयते ।। 4.9 ।।
तपस्वी यज्ञशीलश्च सर्व्व धर्म्मभृतां वरः ।
ध्रुवं शूद्रत्वमाप्नोति शूद्रश्राद्धे त्रयोदशे ।। 4.10 ।।
नौयते तु सपिण्डत्वं येषां श्राद्धं कुलोद्गतम् ।
सर्व्वे शूद्रत्वमायान्ति यदि स्वर्गजितास्त ते ।। 4.11 ।।
सपिण्डीकरणं कार्य्यं कुलजस्य तथा ध्रुवम् ।
श्राद्धं द्वादशकं कृत्वा श्राद्धे प्राप्ते त्रयोदशे ।। 4.12 ।।
सपिण्डीकरणं नार्हं न च शूद्रस्तथार्हति ।
तस्मात् सर्व्व प्रयत्नेन शूद्रभार्य्यां विवर्ज्जयेत् ।। 4.13 ।।
पाणिग्राह्यः सवर्णासु गृह्नीयात् क्षत्रिया शरम् ।
वैश्या प्रतोदमाद्याद्वैदले तु द्विजस्मनः ।। 4.14 ।।
सा भार्य्या या वहेदग्निं सा भार्य्या या पतिव्रता ।
सा भार्य्या या पतिप्राणाः सा भार्य्या या प्राजावती ।। 4.15 ।।
लालनीया सदा भार्य्या ताड़नीया तथैव च ।
लालिता ताड़िता चैव स्त्री श्रीर्भवति नान्यथा ।। 4.16 ।।
इति शङ्खीये धर्म्मशास्त्रे चतुर्थोऽध्यायः ।। 4 ।।
पञ्चमोऽध्यायः ।
पञ्चमूना गृहस्थस्य चुल्ली पेष्यणुपस्करः ।
कण्डनी चोदकुम्भश्च तस्य पापस्य शान्तये ।। 5.1 ।।
पञ्चयज्ञबिधानञ्च गृही नित्यं न हापयेत् ।
पञ्चयज्ञबिधानेन तत्पापं तस्य नश्यति ।। 5.2 ।।
देवयज्ञो भूतयज्ञः पितृयज्ञस्तथैव च ।
ब्रह्मयज्ञो नृयज्ञश्च पञ्चयज्ञाः प्रकीर्त्तिताः ।। 5.3 ।।
होमो दैवो बलिर्भौतः पित्र्यः पिण्डक्रिया स्मृतः ।
स्वाध्यायो ब्रह्मयज्ञश्च नृयज्ञोऽतिथिपूजनम् ।। 5.4 ।।
वानप्रस्थो ब्रह्मचारी यतिश्चैव तथा द्विजः ।
गृहस्थस्य प्रसादेन जीवन्तेते यथाविधि ।। 5.5 ।।
गृहस्थ एव यजते गृहस्थस्तप्यते तपः ।
दाता चैव गृहस्थः स्यात् तस्माच्छ्रेष्ठो गृहाश्रमी ।। 5.6 ।।
यथा भर्त्ता प्रमुः स्त्रीणां वर्णाणां ब्राह्मणो यथा ।
अतिथिस्तद्वदेवास्य गृहस्थस्य प्रभुः स्मृतः ।। 5.7 ।।
न व्रतैर्नीपवासेन धर्म्मेण विबिधेन च ।
नारी स्वर्गमवाप्नोति प्राप्नोति पतिपूजनात् ।। 5.8 ।।
न स्नानेन न होमेन नैवाग्निपरितर्पणात् ।
ब्रह्मचारी दिवं याति स याति गुरूपूजनात् ।। 5.9 ।।
नाग्निशुश्रुषया क्षान्त्या स्नानेन विबिधेन च ।
वानप्रस्थो दिवं याति यथा भोजनवर्ज्जनात् ।। 5.10 ।।
न भैक्षैर्न च मौनेन शून्यागाराश्रयेन च ।
योगी सिद्धिमवाप्नोति यथा मैथुनवर्ज्जनात् ।। 5.11 ।।
न यज्ञैर्दक्षिणाभिश्च बह्निशुश्रूषया न च ।
गृहौ स्वर्गमवाप्नोति यथा चातिथिपूजनात् ।। 5.12 ।।
तस्मात् सर्व्वप्रयत्नेन गृहस्थोऽतिथिमागतम् ।
आहारशयनार्थेन बिधिवत् परिपूजयेत् ।। 5.13 ।।
सायं प्रातश्च जुहुयादग्निहोत्रं यथाविधि ।
दर्शश्च पौर्णमासश्च जुहुयाच्च तथाविधिः ।। 5.14 ।।
यज्ञैर्व्वा पशुवन्धैश्च चातुर्म्मास्यैस्तथैव च ।
त्रैवाधइकारिकान्नेन पिवेत् सोममतन्द्रितः ।। 5.15 ।।
इष्टिं वैश्वानरीं कुर्य्यात्तथा चाल्पधनो द्विजः ।
न भिक्षेत धनं शूदात् सर्व्वं दद्यादभीप्सितम् ।। 5.16 ।।
वृत्तिस्तु न त्यजेद्विद्वानृत्विजं पूर्व्वमेव तु ।
कर्म्मणा जन्मना शुद्धं विद्यात् पात्रं बलीततम् ।। 5.17 ।।
एतैरेव गुणैर्युक्तं धर्म्मार्ज्जितधनं तथा ।
याजयेत्तु सदा विप्रो ग्राह्मस्तस्मात् प्रतिग्रहः ।। 5.18 ।।
इति शङ्खीये धर्म्मशास्त्रे पञ्चमोऽध्यायः ।। 5 ।।
षष्ठोऽध्यायः ।
गृहस्थस्तु यदा पश्वेद्वलौपलितमात्मनः ।
अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् ।। 6.1 ।।
पुत्रेषु दारान् निक्षिप्य तया वानुमतो वने ।
अग्नीनुपचरेन्नित्यं वन्यमाहारमाहरेत् ।। 6.2 ।।
यदाहारो भवेत् तेन पूजयेत् पितृदेवताः ।
तेनैव पूजयेन्नित्यमतिथिं ममुपागतम् ।। 6.3 ।।
ग्रामादाहृत्य चाश्रोयादष्टौ ग्रासान् समाहितः ।
स्वाध्यायञ्च सदा कुर्य्याज्जटाश्च विभृयात्तथा ।। 6.4 ।।
तपसा शोषयेन्नित्वं स्वकञ्चैव कलेवरम् ।
आर्द्रवासास्तु हेमन्ते गृष्मे पञ्चतपास्तथा ।। 6.5 ।।
प्रावृष्याकाशशयी स्यान्नक्ताशी च सदा भवेत् ।
चतुर्थकालिको वा स्यात् स्याच्च षष्ठक एव च ।। 6.6 ।।
कृच्छ्रैर्व्वापि नयेत् कालं ब्रह्मचर्य्यञ्च पालयेत् ।
एवं नीत्वा वने कालं द्विजो ब्रह्माश्रमी भवेत् ।। 6.7 ।।
इति शङ्खीये धर्म्मशास्त्रे षष्ठोऽध्यायः ।। 6 ।।
सप्तमोऽध्यायः ।
कृस्वेष्टिं बिधिवत् पश्चात् सर्व्ववेदसदक्षिणम् ।
आत्मन्यग्नीन् समारोप्य द्विजो ब्राह्मश्रमी भवेत् ।। 7.1 ।।
विधूमे न्यस्तमुपले व्यङ्गारे भुक्तवर्ज्जने ।
अतीते पादसम्पाते नित्यं भिक्षां यतिश्चरेत् ।। 7.2 ।।
न व्यथेत तथालाभे यथालब्धेन वर्त्तयेत् ।
न पाचयेत्तथैवान्नं नाश्रीयात् कस्यचिद्गृहे ।। 7.3 ।।
मृन्मयालावुपात्राणि यतीनान्तु विनिर्द्दिशेत् ।
तेषां सम्मार्ज्जनाच्छूद्धिरद्भिश्चैव प्रकीर्त्तिता ।। 7.4 ।।
कौपोनाच्छादनं वासो विभृयादसखश्चरन् ।
शून्यागारनिकेतः स्याद्यत्र सायंगृहो मुनिः ।। 7.5 ।।
दृष्टिपूतं न्यसेत् पादं वस्रपूतं जलं पिवेत् ।
सत्यपूतं वदेद्वाक्यं मनः पूतं समाचरेत् ।। 7.6 ।।
चन्दनैर्लिप्यतेऽङ्गं वा भस्मचूर्णैर्विगर्हितैः ।
कल्याणमप्यकल्याणं तयोरेव न संश्रयेत् ।। 7.7 ।।
सर्व्वभूतहितो मैत्रः समलोष्ट्राश्मकाञ्चनः ।
ध्यानयोगरतो नित्यं भिक्षुर्य्यायात् परां गतिम् ।। 7.8 ।।
जन्मनायस्तु निर्व्विण्णो मन्यते च तथैव च ।
आधिभिर्ब्याधिभिश्चैव तं देवो ब्राह्मणं विदुः ।। 7.9 ।।
अशुचित्वं शरीरस्यः प्रियस्य च विपर्य्ययः ।
गर्भावासे च वसतिस्तस्मान्मुच्यत नान्यथा ।। 7.10 ।।
जगदेतन्निराक्रन्दं न तु सारमनर्थकम् ।
भोक्तव्यमिति निर्व्विण्णो मुच्यते नात्र संशयः ।। 7.11 ।।
प्राणायामैर्द्दहेद्दोषान् धारणाभिश्च किल्विषान् ।
प्रत्याहारैरसत्सङ्गान ध्यानेनानीश्वरान् गुणान् ।। 7.12 ।।
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ।। 7.13 ।।
मनसः संयमस्तज ज्ञैर्द्धारणेति निगद्यते ।
संहारश्चेन्द्रियाणाञ्च प्रत्याहारः प्रकीर्त्तितः ।। 7.14 ।।
हृदयस्थस्य योगेन देवदेवस्य दर्शनम् ।
ध्यानं प्रोक्तं प्रवक्ष्यामि सर्व्वस्माद्योगतः शुभम् ।। 7.15 ।।
हृदिस्था देवताः सर्व्वा हृदि प्राणाः प्रतिष्ठिताः ।
हृदि ज्योतींषि भूयश्च हृदि सर्व्वं प्रतिष्ठितम् ।। 7.16 ।।
स्वदेहमरणिं कृत्वा प्रणवञ्चोत्तरारणिम् ।
ध्याननिर्म्मथनाभ्यान्तु विष्णु पश्येद्धृदि स्थितम् ।। 7.17 ।।
हृद्यर्कश्चन्द्रमाः सूर्य्यः सोमो मध्ये हुताशनः ।
तेजोमध्ये स्थितं तत्त्वं तत्त्वमध्ये स्थितोऽच्युतः ।। 7.18 ।।
अणोरणैयान् महतो महौयानात्मास्य जन्तोर्निहितो गुहायाम् ।
तेजोमयं पश्यति वीतशोको धातुः प्रासादान्महिमानमात्मनः ।। 7.19 ।।
वासुदेवस्तमोऽन्धानां प्रत्यक्षो नैव जायते ।
अज्ञानपटसंवीतैरिन्द्रियैर्व्विषयेप्सुभिः ।। 7.20 ।।
एष वै पुरूषो विष्णुर्व्यक्ताव्यक्तः सनातनः ।
एष धाता बिधाता च पुराणो निष्कलः शिवः ।। 7.21 ।।
विदेहमेतं पुरूषं महान्तमादित्यवर्णं तमसः परस्तात् ।
मन्त्रैर्विदित्वा न विभेति मृत्योर्नान्यः पन्था विद्यतेऽयनाय ।। 7.22 ।।
पृथिव्यापस्तथा तेजोवायुराकाशमेव च ।
पञ्चेमानि विजानीयन्महाभूतानि पण्डितः ।। 7.23 ।।
चक्षुश्रोत्रे स्पर्शनञ्च रसना ध्राणमेव च ।
वुद्धीन्द्रियाणि जानीयात् पञ्चेमानि शरीरके ।। 7.24 ।।
शब्दो रुपं तथा स्पर्शो रसो गन्धस्तथैव च ।
इन्द्रियस्थान् विजानीयात् पञ्चैव विषयान् बुधः ।। 7.25 ।।
हस्तौ पादावुपस्थञ्च जिह्वा पायुस्तथैव च ।
कर्म्मेन्द्रियाणि पञ्चव नित्यं सति शरीरके ।। 7.26 ।।
मनो वुद्धिस्तथैवात्मा व्यक्ताव्यक्तं तथैव च ।
इन्द्रियेभ्यः पराणौह चत्वारि प्रवराणि च ।। 7.27 ।।
तथात्मानं तद्व्यतीतं पूरूषं पञ्चविंशकम् ।
तन्तु ज्ञात्वा विमुच्यन्ते ये जनाः साधुवृत्तयः ।। 7.28 ।।
इदन्तु परमं शुद्धमेतदक्षरमुत्तमम् ।
अशब्दमरसस्पर्शमरुपं गन्धवर्ज्जितम् ।
निर्द्दुः खमसुखं शुद्धं तद्विष्णोः परमं पदम् ।। 7.29 ।।
विज्ञानसारथिर्यस्तु मनः प्रग्रहवन्धनः ।
सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ।। 7.30 ।।
बालाग्रशतशो भागः कल्पितस्तु सहस्रधा ।
तस्यापि शतशो भागाज्जीवः सूक्ष्म उदाहृतः ।। 7.31 ।।
महतः परमव्यक्तमव्यक्तात् पुरूषः परः ।
पुरूषान्न परं किलित् सा काष्ठा सा परा गतिः ।। 7.32 ।।
एषु सर्व्वेषु भूतेषु तिष्ठत्यविरलः सदा ।
दृश्यते त्वग्र्यया वुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ।। 7.33 ।।
इति शङ्खीये धर्म्मशास्त्रे सप्तमोऽध्यायः ।। 7 ।।
अष्टमोऽध्यायः ।
क्रियास्नानं प्रवक्ष्यामि यथावद्बिधिपूर्व्वकम् ।
मृद्भिरद्भिश्च कर्त्तव्यं शौचमादौ यथाविधि ।। 8.1 ।।
जले निमज्ज्य उन्मज्ज्य उपस्पृश्य यथाविधि ।
तीर्थमाबाहनं कुर्य्यात् तत् प्रवक्ष्याम्यशेषतः ।। 8.2 ।।
प्रपद्य वरूणं देवमम्भसां पतिमर्च्चितम् ।
याचेत देहि मे तीर्थं सर्व्वंपापापनुत्तये ।। 8.3 ।।
तीर्थमाबाहयिष्यामि सर्व्वाघविनिसूदनम् ।
सान्निध्यमस्मिंस्तोये च क्रियतां मदनुग्रहात् ।। 8.4 ।।
रूद्रात् प्रपद्य वरदान् सर्व्वानप्सु सदस्तथा ।
सर्व्वानप्सु सदश्चैव प्रपद्ये प्रयतः स्थितः ।। 8.5 ।।
देवमंशुसदंबह्निं प्रपद्याघनिसूदनम् ।
आपः पुण्याः पवित्राश्च प्रपद्ये शरणं तथा ।। 8.6 ।।
रूद्रश्चाग्निश्च सर्पश्च वरूणस्त्वाप एव च ।
शमयन्त्वाशु मे पापं माञ्च रक्षन्तु सर्व्वशः ।। 8.7 ।।
हिरण्यवर्णेतिः तिसृभिर्ज्जगतीति चतसृभिः ।
शन्नोदेवीति च तथा शन्न आपस्तथैव च ।। 8.8 ।।
इदमापः प्रबहते द्यूतञ्च समुदीरयेत् ।
एवं सन्मार्ज्जेनं कृत्वा च्छन्द आर्षञ्च देवताः ।। 8.9 ।।
अघमर्षणसूक्तञ्च प्रपठेत् प्रयतः सदा ।। 8.10 ।।
छन्दोऽनुष्टुप् च तस्यैव ऋषिश्चैवाघमर्षणः ।
देवता भाववृत्तश्च पापक्षये प्रकीर्त्तितः ।। 8.11 ।।
ततोऽम्भसि निमग्नः स्यात्रिः पठेदघमर्षणम् ।
प्रपद्यान्मूर्द्धनि तथा महाव्याहृतिभिर्ज्जलम् ।। 8.12 ।।
यथाश्वमेधः क्रतुराट् सर्व्वपापापनोदनः ।
तथाघमर्षणं सूक्तं सर्व्वपापप्रणाशनम् ।। 8.13 ।।
अनेन बिधिना स्नात्वा स्नातवान् धौत वाससा ।
परिवर्ज्जितवासास्तु तीर्थनामानि सञ्जपेत् ।। 8.14 ।।
उदकस्याप्रदानात्तु स्नानशाटीं न पीड़येत् ।
अनेन बिधिना स्नातस्यीर्थस्य फलमश्रुते ।। 8.15 ।।
इति शङ्खीये धर्म्मशास्त्रे अष्टमोऽध्यायः ।। 8 ।।
नवमोऽध्यायः ।
अतः परं प्रवक्ष्यामि शुभामाचमनक्रियाम् ।
कायं कनिष्ठिकामूले तीर्थमुक्तं करस्य तु ।। 9.1 ।।
अङ्गुष्ठमूले च तथा प्राजापत्यं प्रकीर्त्तितम् ।
अङ्गुल्यग्रे स्मृतं दैवं पित्रं तर्ज्जनिमूलकम् ।। 9.2 ।।
प्राजापत्येन तीर्थेन त्रिः प्राश्रोयाज्जलं द्विजः ।
द्विः प्रमृज्य मुखं पश्चादद्भिः खं समुपस्पृशेत् ।। 9.3 ।।
हृद्गाभिः पूयते विप्रः कण्ठगाभिश्च भूमिपः ।
तालुगाभिस्तथा वैश्यः शूद्रः स्पृष्टाभिरन्ततः ।। 9.4 ।।
अन्तर्जानुः शुचौ देशे प्राङ्भु, खः सुसमाहितः ।
उदङ्भु खाऽपि प्रयतो दिशश्चानबलोकयन् ।। 9.5 ।।
अद्भिः समुद्धृताभिस्तु हीनाभिः फेनवुद्वुदैः ।
वह्निका चाप्यदग्धाभिरङ्गुलीभिरूपस्पृशेत् ।। 9.6 ।।
तर्ज्जन्यङ्गुष्ठयोगेन स्पृशेन्नेत्रद्वयं ततः ।
अङ्गुष्ठानामिकाभ्यान्तु श्रवणौ समुपस्पृशेत् ।। 9.7 ।।
कनिष्ठाङ्गुष्ठयोगेन स्पृशेत् स्कन्धद्वयं ततः ।
सर्व्वासामेव योगेन नाभिञ्च हृदयं ततः ।। 9.8 ।।
संस्पृशेत् तु तथा मूर्द्धा यथा चाचमने विधिः ।। 9.9 ।।
त्रिः प्राश्रीयाद् यदम्भस्तु पीतास्तेनास्य देवताः ।
ब्रह्मा विष्णुश्च रूद्रश्च भवन्तीत्यनुशुश्रुमः ।। 9.10 ।।
गङ्गा च यमुना चैव प्रीयेते परिमार्ज्जनात् ।
नासत्यदस्रौ पीयेते स्पृष्टे नासापुठद्वये ।। 9.11 ।।
स्पृष्टे लोचनयुग्मे च प्रीयेते शशिभ स्करौ ।
कर्णयुग्मे यथा स्पृष्टे प्रीयते अनिलानलौ ।। 9.12 ।।
स्कन्धयोः स्पर्शनादस्य प्रीयन्ते सर्व्वदेवताः ।
मुर्द्धस्तु स्पर्शनादस्य प्रीतस्तु पुरूषो भवेत् ।। 9.13 ।।
विना यज्ञोपवीतेन तथा मुक्तशिखोऽपि वा ।
अप्रत्रालित पादस्तु आचान्तोऽप्यशुचिर्भवेत् ।। 9.14 ।।
बहिर्जानुरूपस्पृश्य एकहस्तार्पितैर्जलैः ।
समलाभिस्तथाद्भिश्च नैव शुद्धिमवाप्नुयात् ।। 9.15 ।।
आचग्य च पुरा प्रोक्तं तीर्थसम्मार्ज्जनं ततः ।
उपस्पृस्य ततः पश्चान्मन्त्रेणानेन धर्म्मतः ।। 9.16 ।।
अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः ।
त्वं यज्ञस्त्वं वषट्कार आपोज्योतौरसोऽमृतम् ।। 9.17 ।।
आचम्य च ततः पश्चादादित्याभिमुखो जलम् ।
उदुत्यं जातवेदसं मन्त्रेण प्रक्षिपेत् ततः ।। 9.18 ।।
एष एव बिधिः प्रोक्तः सन्ध्यायाञ्ज द्विजातिषु ।
पूर्व्वां सन्धां जपस्तिष्ठेदासीनः पश्चिमां तथा ।। 9.19 ।।
ततो जपेत् पवित्राणि पवित्रान् वाथ शक्तितः ।
ऋषयो दीर्घसन्ध्यत्वाद्दोर्घमायुरवाप्नुयुः ।। 9.20 ।।
इति शङ्खीये धर्म्मशास्त्रे नवमोऽध्यायः ।। 9 ।।
दशमोऽध्यायः ।
सर्व्ववेदपवित्राणि सम्प्रवक्ष्याम्यतः परम् ।
येषां जपैश्च होमैश्च पूयन्ते मानवाः सदा ।। 10.1 ।।
अघमर्षणं देवव्रतं शुद्धवत्यस्तु यत् सदा ।
कुष्माण्ड्यः पावमान्यश्च सर्व्वसावित्र्य एव च ।। 10.2 ।।
अभीष्ठरुपदा चैव स्तोमानि व्याहृतिस्तथा ।
भारूण्डानि च सामानि गायत्र्या वै वृतं तथा ।। 10.3 ।।
पुरूषव्रतञ्च भारञ्च तथा सामव्रतानि च ।
अविज्ञ बार्हस्पत्यञ्च वाक्सूक्तमनृतं तथा ।। 10.4 ।।
शतरूद्रौमथर्व्व शिरास्त्रिसुपर्णां महाब्रतम् ।
गासूक्तमश्वसूत्तञ्च इन्द्रसूक्तञ्च सामनौ ।। 10.5 ।।
त्रीनि पुष्पाङ्गदेहानि रथन्तरञ्चाग्निव्रतं वामदेव्यञ्च ।
एतानि गीतानि पुनन्ति जन्तून् जातिस्मरत्वं लभते यदौच्छेत् ।। 10.6 ।।
इति शङ्खीये धर्म्मशास्त्रे दशमोऽध्यायः ।। 10 ।।
एकादशोऽध्यायः ।
इति वेदपवित्राण्यभिहितानि एभ्यः सावित्री विशिष्यते ।
नास्त्यघमर्षणात् परं तज्जलेन व्याहृतिभिः परंहोमः ।। 11.1 ।।
न सावित्र्याः परं जप्यम् । कुशवृष्यामासीनः कुशोत्तरीयः कुशपाणिः प्राङ्मखः सूर्य्याभिमुखो वाक्षमालामादाय देवताध्यायौ तज्जपं कुर्य्यात् । सुवर्ण मणि मुक्ता-स्फाटिकपद्मपत्रवीजाक्षाणमन्यतमेनाक्षमालां कुर्य्यात् । ध्यायन् वामहस्तोपरि वा गणयेत् । आदौ देवतामार्षं चन्दंश्च स्मरेत । ततः सप्रणवव्याहृतिकामादावन्ते च शिरसा गायत्री मावर्त्तयेत् । तथास्याः सविता ऋषिर्व्विश्वामित्रा गायत्रीछन्दः । प्रणवाद्या भूर्भुवः स्वर्म्महर्जनस्तपः सत्यमिति व्याहृतयः । आपोज्योतीरसोऽमृतं ब्रह्मभूर्भुवः स्वरोम् ।। 11.2 ।।
सव्याहृतिकां सप्रणवां गायत्रीं शिरसा सह ।
ये जपन्ति सदा तेषां न भयं विद्यते क्वचित् ।। 11.3 ।।
दशजप्ता तु सा देवौ दिनपापप्रणाशिनी ।
शतं जप्ता तथा सा तु सर्व्वकल्मषनाशिणौ ।
सहस्रं जप्ता सा नृणां पातकेभ्यः समुद्धरेत् ।। 11.4 ।।
स्वर्णस्तेयौ कृतघ्नश्च ब्रह्महा गुरूतल्पगः ।
सुरापश्च विशुध्येत लक्षजप्तेन सर्व्वदा ।। 11.5 ।।
प्राणायामत्रयं कृत्वा स्नानकाले समाहितः ।
अहोरात्रकृतात् पापात् तत्क्षणादेव शुध्यति ।। 11.6 ।।
सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोड़शः ।
अपि भ्रूणहनं मासात् पुनन्त्यहरहः कृताः ।। 11.7 ।।
हुता देवी विशेषेण सर्व्वकामप्रदायिनी ।
सर्व्वपापक्षयकरी वनस्थभक्तवत्सला ।। 11.8 ।।
शान्तिकामस्तु जुहुयाद्गायत्रीमयुतैः शुचिः ।
हर्त्तुकामोऽपमृत्युञ्च घृतेन जुहुयात् तथा ।। 11.9 ।।
श्रीकामस्तु तथा पद्मैविल्वैः काञ्चनकामतः ।
ब्रहमवर्च्चसकामस्तुः जुहुयात् पूर्व्ववत् तथा ।। 11.10 ।।
घृतयुक्तैस्तिलैर्व्वह्नौ हुत्वा तु सुसमाहितः ।
गायत्र्यायुतहोमात् तु सर्व्व पापैः प्रमुच्यते ।। 11.11 ।।
पापात्मा लक्षहोमेण पातकेभ्यः प्रमुच्यते ।
ब्रह्मलोकमवाप्नोति प्राप्नुयात् काममीप्सितम् ।। 11.12 ।।
गायत्री चैव जननी गायत्री पापनाशिनी ।
गायत्र्यास्तु परं नास्ति दिवि चेह च पावनम् ।। 11.13 ।।
हस्तत्राणपदा देवी पततां नरकार्णवे ।
तस्मात्तामभ्यसेन्नित्यं ब्राह्मणो नियतः शुचिः ।। 11.14 ।।
गायत्रीजप्यनिरतो हव्यकव्येषु भोजयेत् ।
तस्मिन् न तिष्ठते पापमव्विन्दुरिव भास्करे ।। 11.15 ।।
जपेनैव तु संसिध्येद्ब्राह्मणा नात्र संशयः ।
कुर्य्यादन्यन्न वा कुर्य्यान्मैत्रो ब्राह्मण उच्यते ।। 11.16 ।।
उपांशुः स्याच्छतगुणः साहस्रो मानसः स्मृतः ।
नोच्चैर्जप्यं बुधः कुर्य्यात् सावित्र्यस्तु विशेषतः ।। 11.17 ।।
सावित्रौजप्यनिरतः स्वर्गमाप्नोति मानवः ।
सावित्रौजप्यनिरतो मोक्षोपायञ्च विन्दति ।। 11.18 ।।
तस्मात् सर्व्व प्रयत्नेन स्नातः प्रयतमानसः ।
गायत्रौञ्च जपेद्भक्त्या सर्व्व पापप्रणाशिनीम् ।। 11.19 ।।
इति शङ्खीये धर्म्मशास्त्रे एकादशोऽध्यायः ।। 11 ।।
द्वादशोऽध्यायः ।
स्नातः कृतजपस्तदनु प्राङ्भुखो दिव्येन तीर्थेन देवानुदकेन तर्पयेत् । प्रत्यहं पुरूषसूक्तेनोदकाञ्जलीन् दद्यात् पुष्पाञ्जलीन् भक्त्या । अथ कृतापसव्यो दक्षिणामुखोऽन्तर्ज्जानुः पित्र्येण पितॄणां श्राद्धप्रकारमुदकं दद्यात् । पित्रे पितामहाय पितामह्यै सप्तमात् पुरूषात् पितृपक्षे यावतां नाम जानीयात् । पितृपक्षोयाणां त्रयणां दत्त्वा मातृपक्षीयाणां गुरुणां सम्बन्धवान्धवानाञ्च कृत्वा सुहृदां कुर्य्यात् । भवन्ति चात्र श्लोकाः ।
विना रौप्यसुवर्णेन विना ताम्रतिलेन च ।
विना दर्भेश्च मस्त्रैश्च पितॄणां नोपतिष्ठते ।। 12.1 ।।
सौवर्णराजताभ्याञ्च खड़्गेनोडुम्वरेण वा ।
दत्तमक्षयतां याति पितॄणान्तु तिलोदकम् ।। 12.2 ।।
कुर्य्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पयोमूलफलैर्ब्बापि पितॄणां प्रीतिमाबहन् ।। 12.3 ।।
स्नातस्तु तर्पणं कृत्वा पितृणान्तु तिलाम्भता ।
पितृयज्ञमवाप्नोति प्रौणन्ति पितरस्तथा ।। 12.4 ।।
इति शङ्खीये धर्म्मशास्त्रे द्वादशोऽध्यायः ।। 12 ।।
त्रयोदशोऽध्यायः ।
ब्राह्मणान्न परीक्षेत दैवे कर्म्मणि धर्म्मवित् ।
पित्र्ये कर्म्मणि सम्प्राप्ते सूक्तमार्गैः परीक्षणम् ।। 13.1 ।।
ब्राह्मणा ये विकर्म्माणो वैड़ालव्रतिकाः शठाः ।
हौनाङ्गा अतिरिक्ताङ्गा ब्राह्मणाः पङिक्तदूषकाः ।। 13.2 ।।
गुरुणां प्रतिकूलाश्च तथाग्न्युत्पातिनश्च ये ।
गुरुणां त्यागिणश्चैव ब्राह्मणाः पङिक्तदूषकाः ।। 13.3 ।।
अनध्यायेष्वधीयानाः शौचाचारविवर्ज्जिताः ।
शूद्रान्नरसम्पुष्ठा ब्राह्मणाः पङिक्तदूषकाः ।। 13.4 ।।
षड़ङ्गवेदवेत्तारो बह्वृचश्चैव सामागाः ।
त्रिणाचिकेतः पञ्चाग्निर्व्राह्मणाः षडिक्तपादनाः ।। 13.5 ।।
ब्र्हमदेयानुसन्ताना ब्रह्मदेयाप्रदायकाः ।
ब्रह्मदेयापतिर्यश्च ब्राह्मणाः पङिक्तपावनाः ।। 13.6 ।।
ऋग् यजुः पारगो यश्च माम्नां यश्चापि पारगः ।
अथर्व्वाङ्खिरसाऽध्येता ब्राह्मणाः पङिक्तपावनाः ।। 13.7 ।।
नित्यं यागरतो विद्वान् समलोष्ट्राश्मकाञ्चनः ।
ध्यानशौलो यतिर्विद्वान् ब्राह्माः पड़िक्तपावनाः ।। 13.8 ।।
द्वौ देवे प्राङ्भुखौ त्रोंश्च पित्र्ये चादङ्भु खांस्तता ।
भोजयेद्विबिधान् विप्रानेकैकमुत यत्र वा ।। 13.9 ।।
भोजयेदथवाप्येकं ब्राह्मणं पङिक्तपवनम् ।
देशे कृत्वा तु नैवेद्यं पश्चाद्वह्नौ तु तत् क्षिपेत् ।। 13.10 ।।
उच्छिष्ठसन्निधौ कार्य्यं पिण्डनिर्ब्बपणं बुधेः ।
अभावे च तथा कार्य्यमग्निकार्य्यं यथाविधि ।। 13.11 ।।
श्राद्धं कृत्वा तु यत्नेन त्वरा क्रोधविवर्ज्जितः ।
उष्णमन्नं द्विजातिभ्यः श्रद्धया विनिवेदयेत् ।। 13.12 ।।
भोजयेद्विबिधान् विप्रान् गन्धमाल्यानुलेपनैः ।
पङिक्तविदात्मनो गेहे भोज्यं वा भक्ष्यमेव वा ।
अनिवेद्य न भोक्तव्यं पिण्डमूले कथञ्चन ।। 13.13 ।।
उग्रगन्धान्यागन्धानि चेत्यवृक्षभवानि च ।
पुष्पाणि वर्ज्जनौयानि तथा पर्व्वतजानि च ।। 13.14 ।।
तायोद्भुतानि देयानि रक्तान्यपि विशेषतः ।
ऊर्णासूत्रं प्रदातव्यं कार्पासमथवा नवम् ।। 13.15 ।।
दशा विवज्जयेत् प्राज्ञो यद्यनाहतवस्त्रजाः ।
घृतेन दोषा दातव्यस्थिलतैलेन वा पुनः ।। 13.16 ।।
धूपार्थं गुग्गुलं दद्यात् घृतयुक्तं मधूत्कटम् ।
चन्दनञ्च तथा तद्यादिष्टं यत् कुङ्कुमं शुभम् ।। 13.17 ।।
छत्राकं शरशिम्बञ्च पलञ्च सूपकं तथा ।
कुष्माण्डालावुवार्त्ताकुकोविदारांश्च वर्ज्जयेत् ।। 13.18 ।।
पिप्पलीं मरिचञ्चैव तथा वै पिण्डमूलकम् ।
कृतञ्च लवणञ्चैव वंशागन्तु विवर्ज्जयेत् ।। 13.19 ।।
राजमासान् मसूरांश्च प्रवालकोरदूषकान् ।
लोहितान् वृक्षनिर्य्यासान् श्राद्धकर्म्मणि वर्ज्जयेत् ।। 13.20 ।।
आम्रातलबलीमूलमूलकान् दधिदाड़िमान् ।
सकोविदार्य्यसत्कन्दराजेन मधुना सदा ।। 13.21 ।।
शक्तून् शर्करया सार्द्धं दद्याच्छाद्धे प्रयत्नतः ।
पायसादिभिरूष्णैश्च भोजयित्वा तथा द्विजान् ।। 13.22 ।।
भक्त्या प्रणम्य आचान्तान् तथा वै दत्तदक्षिणान् ।
अभिवाद्य प्रसन्नात्मा अनुव्रज्य विसर्ज्जयेत् ।। 13.23 ।।
निमन्त्रितस्तु यः श्राद्धे मैथुनं सेवते द्विजः ।
श्राद्धं भुक्त्वा च दत्त्वा च युक्तः स्यान्महतैनसा ।। 13.24 ।।
कालशाकं महाशल्कं मांसं वा शकुनस्य च ।
खड़्गमांसं तथानन्त्यं यमः प्रोवाच धर्म्मवित् ।। 13.25 ।।
इति शङ्खीये धर्म्मशास्त्रे त्रयोदशोऽध्यायः ।। 13 ।।
चतुर्द्दशोऽध्यायः ।
यद्ददाति गयाक्षेत्रे प्रभासे पुष्करेऽपि च ।
प्रयागे नैमिषारण्ये सर्व्वमानन्त्यमुच्यते ।। 14.1 ।।
गङ्गायमुनयोस्तीरे तीर्थे वामरकण्टके ।
नर्म्मदायां गयातौरै सर्व्वमानन्त्यमुच्यते ।। 14.2 ।।
वाराणस्यां कुरूक्षेत्रे भृगुतुङ्गे महालये ।
सप्तारण्येऽसिकूपे च यत् तदक्षयमुच्यते ।। 14.3 ।।
म्लेच्छदेशे तथारात्री सन्ध्ययाश्च विशेषतः ।
न श्राद्धमाचरेत् प्राज्ञो म्लेच्छदेशे न च व्रजेत् ।। 14.4 ।।
हस्तिच्छायासूर्य्यमितचन्द्रार्द्धे राहुदर्शने ।
विषुवत्ययने चैव सर्व्वमानन्त्यमुच्यते ।। 14.5 ।।
प्रौष्ठपद्यामतौतायां मघायुक्तां त्रयोदशीम् ।
प्राप्य श्राद्धन्तु कर्त्तव्यं मधुना पायसेन च ।। 14.6 ।।
प्रजां पुष्टिं तथा स्वर्गमारोग्यञ्च धनं तथा ।
नॄणां प्राप्य सदा प्रौतिं प्रयच्छति पितामहाः ।। 14.7 ।।
इति शङ्खीये धर्म्मशास्त्रे चतुर्द्दशोऽध्यायः ।। 14 ।।
पञ्चदशोऽध्यायः ।
जनने मरणे चैव सपिण्डानां द्विजोत्तमाः ।
त्र्यहाच्छुद्धिमवाप्नोति योऽग्निवेशसमन्वितः ।। 15.1 ।।
तपिण्डता तु पुरूषे सप्तमे विनिवर्त्तते ।
जनने मरणे विप्रो दशाहेन विशुध्यति ।। 15.2 ।।
क्षत्रियो द्वादशाहेन वैश्यः पक्षेण शुध्यति ।
मासेन तु तथा शूद्रः शुद्धिमाप्नोति नान्तरा ।। 15.3 ।।
रात्रिभिर्म्मासतुल्याभिर्गर्भस्रावे विशुद्धति ।
अजातदन्तवाले तु सद्यः शौचं बिधीयते ।। 15.4 ।।
अहोरात्रात्तथा शुद्धिर्व्वाले त्वकृतचृड़के ।
तथैवानुपनौते तु त्र्यहाच्छुध्यन्ति मानवाः ।। 15.5 ।।
मृतानां कन्यकानान्तु तथैव शूद्रजन्मनः ।
अनूढ़भार्य्यः शूद्रस्तु षोड़शाद्वत्सरात् परम् ।। 15.6 ।।
मृत्युं समवगच्छेत्तु मासं तस्यापि वान्धवाः ।
शुद्धिं समवगच्छन्ति नात्र कार्य्या विचारणा ।। 15.7 ।।
पितृवेश्मनि कन्या या रजः पश्यत्यसंस्कृता ।
तस्यां मृतायां नाशौचं कदाचिदपि शाम्यति ।। 15.8 ।।
होनवर्णाद् यदा नारी प्रमादात् प्रसवं व्रजेत् ।
प्रसवे मरणे तज्जमशौचं नोपशाम्यति ।। 15.9 ।।
समानं खल्वशौचन्तु प्रथमे तु समापयेत् ।
असमानं द्वितौयेन धर्म्मराजवचो यथा ।। 15.10 ।।
देशान्तरगतः श्रुत्वा सत्त्वानां मरणोद्भवी ।
यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ।। 15.11 ।।
अतीते दशरात्रे तु तावदेव शुचिर्भवेत् ।
तथा संवत्सरेऽतीते स्नान एव विशुध्यति ।। 15.12 ।।
अनौरसेषु पुत्रेषु भार्य्यास्वन्यगतासु च ।
परपूर्व्वासु च स्त्रौषु च्यहाच्छुद्धिरिहेष्यते ।। 15.13 ।।
मातामहे व्यतीते तु आचार्य्ये च तथा मृते ।
गृहे मृतासु दत्तासु कन्यासु च त्र्यहं तथा ।। 15.14 ।।
विनष्ट राजनि तथा जाते दौहित्रके गृहे ।
आचार्य्यपत्नीपुत्रेषु दिवसेन च मातुले ।। 15.15 ।।
मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्वान्धवेषु च ।
सब्रह्मचारिणि तथा अनचाने तथा मृते ।। 15.16 ।।
एकरात्रं त्रिरात्रं वा षड़्रात्रं मासमेव च ।
शूद्राः सपिण्डवर्णानामशौचं क्रमतः स्मृतम् ।। 15.17 ।।
सपिण्डे क्षत्रिये शुद्धिः षड़्रात्रं ब्राह्मणस्य च ।
वर्णानां परिशिष्टानां द्वादशेऽह्नि विनिर्द्दिशेत् ।। 15.18 ।।
सपिण्डे ब्राह्मणा वर्णाः सर्व्व एवाविशेषतः ।
दशरात्रेण शुध्येयुरित्याह भगवान् यमः ।। 15.19 ।।
भृग्वग्निपतनाम्भोभिर्मृतानामात्मघातिनाम् ।
पतितानामशौञ्च शस्त्रविद्युद्धताश्चये ।। 15.20 ।।
यतो व्रती ब्रह्मचारी सूपकारश्च दीक्षितः ।
नाशौचभाजः कथिता राजाज्ञाकारिणश्च ये ।। 15.21 ।।
यस्तु भुङ्क्ते पराशौचे वर्णी सोऽप्यशुचिर्भवेत् ।
अमुष्य शुचौ शुद्धिश्च तस्याप्युक्ता मनीषिभिः ।। 15.22 ।।
पराशौचे नरो भुक्त्वा कृमियोनौ प्रजायते ।
भुक्त्वान्नं म्रियते यस्य तस्य जातौ प्रजातये ।। 15.23 ।।
दानं प्रतिग्रहो होमः स्वाध्यायः पितृकर्म्म च ।
प्रेतपिण्डक्रियावर्ज्जमशौचं विनिवर्त्तते ।। 15.24 ।।
इति शङ्खीये धर्म्मशास्त्रे पञ्चदशोऽध्यायः ।। 15 ।।
षड़शोऽध्यायः ।
मृन्मयं भाजनं सव्व पुनः पाकेन शुध्यति ।
मलैर्भूत्रैः पुरोषैर्व्वाष्ठीवनैः पूयशोणितैः ।। 16.1 ।।
संस्पृष्टं नैव शुध्येत पुनः पाकेन मृन्मयम् ।
एतैरेव यदि स्पृष्टं ताम्रसौवर्णराजतम् ।। 16.2 ।।
शुध्यत्यावर्त्तितं पश्चादन्यथा केवलाम्भसा ।
अम्लोदकेन ताम्रस्य सोसस्य त्रपुषस्तथा ।। 16.3 ।।
क्षारेण शुद्धिः कांसस्य लौहस्यापि विनिर्द्दिशेत् ।
मुक्तामणिप्रवालानां शिद्धिः प्रक्षालनेन तु ।। 16.4 ।।
अब्जानाञ्चैव भाण्डानां सर्व्वस्याश्ममयस्य च ।
शाकमूलफलानाञ्च विदलानां तथैव च ।। 16.5 ।।
मार्ज्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्म्मणि ।
उष्णाम्भसा तथा शुद्धिः सकेशानां विनिर्द्दिशेत् ।। 16.6 ।।
शय्यासनापणानान्तु सूर्य्यस्य किरणैस्तथा ।
शुद्धिस्तु प्रोक्षणाद्यज्ञे करेकेन्धनयोस्तथा ।। 16.7 ।।
मार्ज्जनाद्वेश्मनां शुद्धिः क्षितेः शोधस्तु तत्क्षणात् ।
सम्मार्ज्जनेन तोयेन वाससां शुद्धिरिष्यते ।। 16.8 ।।
बहूनां प्रोक्षणाच्छुद्विर्धान्यादीनां विनिर्द्दिशेत् ।
प्रोक्षणात् संहतानाञ्च काष्ठानाञ्चैव तत्क्षणात् ।। 16.9 ।।
सिद्धार्थकानां कम्पेन शृङ्गदन्तमयस्य च ।
गोवालाः फलपात्राणामस्थां शृङ्गवतां तथा ।। 16.10 ।।
निर्यासानां गुड़ानाञ्च लवणानां तथैव च ।
कुसुम्भकुसुमानाञ्च ऊर्णकार्पासयोस्तथा ।। 16.11 ।।
प्रोक्षणात् कथिता शुद्धिरित्याह भगवान् यमः ।
भूमिष्ठमुदकं शुद्धं तथा शुचि शिलागतम् ।। 16.12 ।।
वर्णगन्धरसैर्दुष्टैर्व्वर्ज्जितानां तथा भवेत् ।
शुद्धं नदौगतं तोय सर्व्वदैव सुखाकरम् ।। 16.13 ।।
शुद्धं प्रसारितं पण्यं शुद्धाश्चाश्वादयो मुखे ।
मुखवर्ज्जन्तु गौः शुद्धा मार्ज्जारश्चाश्रमे शुचिः ।। 16.14 ।।
शय्या भार्य्या शिशुर्वस्त्रमुपवीतं कमण्डलुः ।
आत्मनः कथितं शुद्धं न तच्छद्धं परस्य च ।। 16.15 ।।
नारीणाञ्चैव वत्सानां शकुनानां शुनां मुखम् ।
रात्रौ प्रसरणे वृक्षे मृगयायां सदा शुचिः ।। 16.16 ।।
शुद्धा भर्त्तुश्चतुर्थेऽह्नि स्नाता नारी रजस्वला ।
दैवे कर्म्मणि पित्र्ये च पञ्चमेऽहनि शुध्यति ।। 16.17 ।।
रथ्याकर्द्दमतोयेन ष्ठीवनाद्येन वाप्यथ ।
नाभेरुद्धं नरः स्पृष्टः सद्यः स्नानेन शुध्यति ।। 16.18 ।।
कृत्वा मूत्रपुरौषञ्च लेपगन्धापहं तथा ।
उद्धुतेनाभ्यसा स्नानं मृदा चैव समाचरेत् ।। 16.19 ।।
मेहने मृत्तिकाः सप्त लिङ्गे द्वे च प्रकीर्त्तिते ।
एकस्मिन् विंशतिर्हस्ते द्बयोर्द्देयाश्चतुर्द्दश ।। 16.20 ।।
तिस्रस्तु मृत्तिका देयाः कृत्वा तु नखशोधनम् ।
तिस्रस्तु पादयोर्द्देयाः शौचकामस्य सर्व्वदा ।। 16.21 ।।
शौचमेतद्गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।
द्बिगुणञ्च वनस्थानां यतोनां द्विगुणं तथा ।। 16.22 ।।
मृत्तिका च विनिर्द्दिष्टा त्रिपर्व्व पूर्य्यते यथा ।। 16.23 ।।
इति शङ्खीये धर्म्मशास्त्रे षोड़शोऽध्यायः ।। 16 ।।
सप्तदशोऽध्यायः ।
नित्यं त्रिषवणस्नायी कृत्वा पर्णकुटी वने ।
अधः शायी जटाधारी पर्णमूलफलाशनः ।। 17.1 ।।
ग्रामं विशेत भिक्षार्थं स्वकर्म्म परिकीर्त्तयन् ।
एवं कालं समास्थाय वर्षे च द्वादशे गते ।। 17.2 ।।
रूक्मस्तेयी सुरापायी ब्रह्महा गुरूतल्पगः ।
व्रतेनैकेन शुध्यन्ति महापातकिनश्च ये ।। 17.3 ।।
यागस्थं क्षत्रियं हत्वा वैश्यं हत्वा तु याजकम् ।
एतदेव व्रतं कुर्य्यादाश्रमं विनिदूषकः ।। 17.4 ।।
कूटसाक्ष्यं तथैवोक्त्वा निक्षेपञ्च प्रहृत्य च ।
एतदेव व्रतं कुर्य्याच्छक्त्या च शरणागतम् ।। 17.5 ।।
आहिताग्निः स्त्रियं हत्वा मित्रं हत्वा तथैव च ।
हत्वा गर्भमविज्ञातमेतदेव व्रतं चरेत् ।। 17.6 ।।
व्रतस्थञ्च द्विजं हत्वा पार्थिवञ्चाकृताश्रमम् ।
एतदेव व्रतं कुर्य्याद्द्विगुणञ्च विशुद्धये ।। 17.7 ।।
क्षत्रियस्य तु पादोनं तर्दद्धं वैश्यघातने ।
अर्द्धमेव सदा कुर्य्यात् स्त्रीवधे पुरुषस्तथा ।। 17.8 ।।
पादन्तु सूद्रहत्यायामुद्यक्यागमने तथा ।
गोवधे च तथा कुर्य्यात् परदारगतस्तथा ।। 17.9 ।।
पशून् हत्वा तथा ग्राम्यान् मासं कुर्य्याद्विचक्षणः ।
आरण्यानां वधे चैव तदर्द्धन्तु विधीयते ।। 17.10 ।।
हत्वा द्विजं तथा सर्पं जलेशयविलेशयौ ।
सप्तरात्रं तथा कुर्य्याद्व्रतन्तु ब्राह्मणस्तथा ।। 17.11 ।।
अनथ्यान्तु शतं हत्वा सास्थां दशशतं तथा ।
ब्रह्महत्याव्रतं कुर्य्यात् पूर्णं संवत्सरं तथा ।। 17.12 ।।
यस्य यस्य च वर्णस्य वृत्तिच्छेदं समाचरेत् ।
तस्य तस्य वधप्रोक्तं प्रायश्चित्तं समाचरेत् ।। 17.13 ।।
अपहृत्य तु वर्णानां भुवमेव प्रमादतः ।
प्रायश्चित्तमथ प्रोक्तं ब्राह्मणानुमतं चरेत् ।। 17.14 ।।
गोऽजाश्वस्यापहरणे सीमानां रजतस्य च ।
जलापहरणेचैव कुर्य्यात् संवत्सरं व्रतम् ।। 17.15 ।।
तिलानां धान्यवस्त्राणां शस्त्राणामामिषस्य च ।
संवत्सरार्द्धं कुर्व्वीत व्रतमेतत् समाहितः ।। 17.16 ।।
तृणकाष्ठेच तक्राणां रसानामपहारकः ।
मासमेकं व्रतं कुर्य्याद्दन्तानां सर्पिषां तथा ।। 17.17 ।।
लावणानां गुड़ानाञ्च मूलानां कुसुमस्य च ।
मासार्द्धस्तु व्रतं कुर्य्यादेतदेव समाहितः ।। 17.18 ।।
लौहानां वैदलानाञ्च सूत्राणां चर्म्मणां तथा ।
एकरात्रं व्रतं कुर्य्यात्तद्वदेव समाहितः ।। 17.19 ।।
भुक्त्वा पलाण्डुं लशुनं मद्यञ्च कवकानि च ।
नारं मलं तथा मांसं विड़्वराहं खरं तथा ।। 17.20 ।।
गौधेरकुञ्जरोष्ट्रञ्च सर्व्वं पञ्चनखं तथा ।
क्रव्यादं कुक्कुटं ग्राम्यं कुर्य्यात् संवत्सरं व्रतम् ।। 17.21 ।।
भक्ष्याः पञ्चनखस्त्वेते गोधाकच्छपशल्वकाः ।
सङ्गश्च शशकश्चैव तान् हत्वा तु चरेद्व्रतम् ।। 17.22 ।।
हंसं मद्गुरकं काकं काकोलं खञ्जरीटकम् ।
मत्स्यादांश्र तथा मत्स्यात् वलाकाशुकसारिकाः ।। 17.23 ।।
चक्रवाकं प्लवं कोकं मण्डकं भुजगं तथा ।
मासमेतद्व्रतं कुर्य्यान्नात्र कार्य्या विचारणा ।। 17.24 ।।
राजीवान् सिंहतुण्डांश्च शकुलांश्च तथैव च ।
पाठौनरोहितौ भक्ष्यौ मत्स्येषु परिकीर्त्तितौ ।। 17.25 ।।
जलेचरांश्च जलजान् मुखपादान् सुविष्किरान् ।
रक्तपादान् जालपादान् सप्ताहं व्रतमाचरेत् ।। 17.26 ।।
तित्तिरिञ्च मयूरञ्च लावकञ्चः कपिञ्जरम् ।
बार्द्धीणसं वर्त्तकञ्च भक्ष्यानाह यमः सदा ।। 17.27 ।।
भुक्ता चैवोभयदतं तथैकशफदंष्ट्रिणः ।
तथा भुक्त्वा तु मासं वै मासार्द्धं व्रतमाचरेत् ।। 17.28 ।।
स्वयं मृतं वृथामांसं माहिषं वाजमेव च ।
गोश्च क्षीरं विवत्साया महिष्याश्च तथा पयः ।। 17.29 ।।
सन्धिन्यमेध्यं भक्षित्वा पक्षन्तु व्रतमाचतेत् ।
क्षौराणि यान्यभक्ष्याणि तद्विकाराशने बुधः ।। 17.30 ।।
सप्तरात्रं व्रतं कुर्य्याद् यदेतत् परिकीर्त्तितम् ।
लोहितान् वृक्षनिर्य्यासान् व्रणानां प्रभवांस्तथा ।। 17.31 ।।
केवलानि तथान्नानि तथा पर्य्युषितञ्च यत् ।
गुड़पक्वं तथा भुक्त्वा त्रिरात्रन्तु व्रती भवेत् ।। 17.32 ।।
दधिभक्तञ्च शुक्तेषु यच्चान्यद्दारूसम्भवम् ।
गुड़युक्तं भक्षयित्वा तक्रं नद्न्यमिति श्रुतिः ।। 17.33 ।।
यवगोधूमजं सत्त्वं विकाराः पयसाञ्चये ।
राजबाहञ्च कुल्यञ्च भैक्ष्यं पर्य्युषितं भवेत् ।। 17.34 ।।
सजीवपक्वमांसञ्च सर्व्वं यत्नेन वर्ज्जयेत् ।
संवत्सरं व्रतं कुर्य्यात् प्राश्यैतान् ज्ञानतस्तथा ।। 17.35 ।।
शूद्रान्नं ब्राह्मणो भुक्त्वा तथा रङ्गावतारिणः ।
बद्धस्य चैव चौरस्यावीरायाश्च तथा स्त्रियः ।। 17.36 ।।
कर्म्मकारस्य वेणस्य कोरस्य पतितस्य च ।
रूक्भकारस्य तक्ष्णश्च तथा बार्द्धषिकस्य च ।। 17.37 ।।
कदर्य्यस्य नृशंसस्य वेश्यायाः कितवस्य च ।
गणान्नं भूमिपालान्नमन्नञ्चैवास्त्रजोविनः ।। 17.38 ।।
सौनकान्न सूतिकान्नं भुक्त्वा मासं व्रतं चरेत् ।
शूद्रस्य सततं भूक्त्वायण्मासान् व्रतमाचरेत् ।। 17.39 ।।
वैश्यस्य च तथा स्त्रीणां मासमेकं व्रतं चरेत् ।
क्षत्रियस्य तथा भुक्त्वा द्वौ मासौ च व्रतं चरेत् ।। 17.40 ।।
ब्राह्मणस्य तथा मुक्त्वा मासमेकं समाचरेत् ।
अपः सुराभाजनस्थाः पीत्वा पक्षं व्रती भवेत् ।। 17.41 ।।
शूद्राच्छिष्टाशने मासं पक्षमेकं तथा विशः ।
क्षत्रियस्य तु सप्ताहं ब्राह्मणस्य तथा दिनम् ।। 17.42 ।।
अथाश्रद्धाशने विद्वान् मासमेकं व्रतौ भवेत् ।
परिवित्तिः परिवेत्ता यथा च परिविद्यते ।। 17.43 ।।
व्रतं मंवत्सरं कुर्य्याद्दातृयाजकपञ्चमः ।
शुनोच्छिष्टं तथा भुक्त्वा मासमेकं व्रतौ भवेत् ।। 17.44 ।।
दूषितं केशकोटैश्च मूषिकानकुलेन च ।
मक्षिकामशकेनापि त्रिरात्रन्तु व्रतौ भवेत् ।। 17.45 ।।
वृथाकृशरमंयावपायसापूपशष्कृलौः ।
भुक्त्वा त्रिरात्रं कुर्व्वीत व्रतमेतत् समाहितः ।। 17.46 ।।
नील्या चैव क्षतो विप्रः शुना दष्टस्तथैव च ।
त्रिरात्रन्तु व्रतं कुर्य्यात् पंश्चलीदशनक्षतः ।। 17.47 ।।
पादप्रातापनं बह्नौ क्षिप्त्वा बह्नौ तथाप्यधः ।
कुशैः प्रमृज्य पादौ च दिनमेकं व्रतं चरेत् ।। 17.48 ।।
क्षत्रियस्तुरणे हत्वा पृष्ठं प्राणपरायणम् ।
संवलसरव्रतं कुर्य्याच्छित्वा पिप्पलपादपम् ।। 17.49 ।।
दिवा च मैथुनं कृत्वा स्नात्वा दुष्टजले तथा ।
नग्नां परिस्त्रियं दृष्ट्वा दिनमेकं व्रती भवेत् ।। 17.50 ।।
क्षिप्त्वाग्नावशुचि द्रव्यं तद्वदम्भसि मानवः ।
मासमेकं व्रतं कुर्य्यादपक्रुध्य तथा गुरूम् ।। 17.51 ।।
तथा विशेषजं पौत्वा पानीयं ब्राह्मणस्तथा ।
त्रिरात्रन्तु व्रतं कुर्य्याद्बामहस्तेन वा पुनः ।। 17.52 ।।
एकपङ्क्त्यपविष्टषु विषमं यः प्रयच्छति ।
स च तावदसौ पक्षं प्रकुर्य्यात् ब्राह्मणो व्रतम् ।। 17.53 ।।
धारयित्वा तुलाञ्चैव विषमं वनिजस्तथा ।
सुरालवणपात्रेषु भुक्ता क्षीरं व्रतं चरेत् ।। 17.54 ।।
विक्रोय पाणिना सद्यस्तिलानि च तथाचरेत् ।। 17.55 ।।
हुङ्कारं ब्राह्मणस्योक्त्वा हुङ्कारञ्च गरीयसः ।
दिनमेकं व्रतं कुर्य्यात् प्रयतः सुसमाहितः ।। 17.56 ।।
प्रेतस्य प्रेतकार्य्याणि कृत्वा वै धनहारकः ।
वर्णानां यद्व्रतं प्रोक्तं तद्व्रतं प्रयतश्चरेत् ।। 17.57 ।।
कृत्वा पापं न गूहेत गुह्यमानं हि बर्द्धते ।
कृत्वा पापं बुधः कुर्य्यात् पर्षदानुमतं व्रतम् ।। 17.58 ।।
स्थित्वा च श्वापदाकौर्णे बहुव्याधमृगे वने ।
न ब्राह्मणो व्रतं कुर्य्यात् प्राणबाधभयात् सदा ।। 17.59 ।।
सतो हि जीवतो जीवं सर्व्वपापमपोहति ।
व्रतैः कृच्छ्रेस्तथा दानैरित्याह भगवान् यमः ।। 17.60 ।।
शरौरं धर्म्मसर्व्वस्वं रक्षणीयं प्रयत्नतः ।
सऱीराच्च्यवते धर्म्मः पर्व्वतात् सलिलं यथा ।। 17.61 ।।
आलोक्य सर्व्वशास्त्राणि समेत्य ब्राह्मणैः सह ।
प्रायश्चित्तं द्विजो दद्यात् स्वेच्छया न कदाचन ।। 17.62 ।।
इति शङ्खीये धर्म्मशास्त्रे सप्तदशोऽध्यायः ।। 17 ।।
अष्टादशोऽध्यायः ।
त्र्यहं त्रिषवणस्नाने प्रकुर्य्याढघमर्षणम् ।
निमज्ज्य नक्तं सरिति न भुञ्जोत दिनत्रयम् ।। 18.1 ।।
वौरासनं सदा तिष्ठेद्गाञ्च दद्यात् पयस्विनीम् ।
अघमर्षणमित्येतत् कृतं सर्व्वाघनोशनम् ।। 18.2 ।।
त्रहं सायं त्रहं प्रातस्त्यहमद्यादयाचितम् ।
परं त्रहञ्च नाश्रीयात् प्राजापत्यं चरन् व्रतम् ।। 18.3 ।।
त्र्यहमुष्णं पिवेदापस्त्यहमुष्णं घृतं पिवेत् ।
त्र्यहमुष्णं पयः पौत्वा वायुभक्षी दिनत्रयम् ।। 18.4 ।।
तप्तकृच्छ्रं विजानीयादेतदुक्तं सदा व्रतम् ।
द्वादशेनोपवासेन पराकः परिकीर्त्तितः ।। 18.5 ।।
बिधिनोदकसिद्धानि समश्रीयात् प्रयत्नतः ।
शक्तून् हि सोदकान् मासं कृच्छ्रं वारूणमुच्यते ।। 18.6 ।।
विल्वैरामलकैर्वापि कपित्थैरथवा शुभैः ।
मासेन लोकेऽतिकृच्छ्रः कथ्यते द्विजसत्तमैः ।। 18.7 ।।
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् ।
एकरात्रोपवासन्तु कृच्छ्रं सान्तपन् स्मृतम् ।। 18.8 ।।
व्रतैस्तु त्रहमध्यस्तैर्म्मद्वासान्तपनं स्मृतम् ।
पादद्वयं तथा त्यक्ता शक्तूनां परिवामनात् ।
उपवासान्तराभ्यासात् तुलापुरूष उच्यते ।। 18.9 ।।
गोपुरौषाशनो भूत्वा मासं नित्य समाहितः ।
ब्रतन्तु वार्द्धिकं कुर्य्यात् सर्व्वपापापनुत्तये ।। 18.10 ।।
ग्रासं चन्द्रकलावृद्ध्या प्राश्रोयाद्वर्द्धयन् सदा ।
ह्नासयंस्तु कलाहानौ व्रतं चान्द्रायणं स्मृतम् ।। 18.11 ।।
मन्त्रं विद्बान् जपेद्भक्त्या जुहुयाच्छैव शक्तितः ।
अयं विधिस्तु विज्ञेयः सुधीभिर्विमलात्मभिः ।
पापात्मनस्तु पापेभ्यो नात्र कार्य्या विचारणा ।। 18.12 ।।
शङ्खप्रोक्तमिदं शास्त्रं योऽधीते प्रयतः सुधौः ।
सर्वपापविनिर्म्मुक्तः स्वर्गलोके महीयते ।। 18.13 ।।
इति शङ्खीये धर्म्मशास्त्रेऽष्टादशोऽध्यायः ।। 18 ।।
**************-------------------