शतपथब्राह्मणम्/काण्डम् १०/अध्यायः १/ब्राह्मण २

← ब्राह्मण १ शतपथब्राह्मणम्/काण्डम् १०/अध्यायः १/ब्राह्मण २
[[लेखकः :|]]
ब्राह्मण ३ →

१०.१.२

प्रजापतिरिमांल्लोकानैप्सत् स एतं वयोविधमात्मानमपश्यदग्निं तं व्यधत्त तेनेमं लोकमाप्नोत्स द्वितीयं वयोविधमात्मानमपश्यन्महाव्रतं तद्व्यधत्त तेनान्तरिक्षमाप्नोत्स तृतीयं वयोविधमात्मानमपश्यन्महदुक्थं तद्व्यधत्त तेन दिवमाप्नोत् - १०.१.२.१

अयं वाव लोक एषोऽग्निश्चितः अन्तरिक्षं महाव्रतं द्यौर्महदुक्थं तस्मादेतानि सर्वाणि सहोपेयादग्निं महाव्रतं महदुक्थं सह हीमे लोका असृज्यन्त तद्यदग्निः प्रथमश्चीयतेऽयं ह्येषां लोकानां प्रथमोऽसृज्यतेत्यधिदेवतम् - १०.१.२.२

अथाध्यात्मम् मन एवाग्निः प्राणो महाव्रतं वाङ्महदुक्थं तस्मादेतानि सर्वाणि सहोपेयात्सह हि मनः प्राणो वाक्तद्यदग्निः प्रथमश्चीयते मनो हि प्रथमं प्राणानाम् - १०.१.२.३

आत्मैवाग्निः प्राणो महाव्रतं वाङ्महदुक्थं तस्मादेतानि सर्वाणि सहोपेयात्सह ह्यात्मा प्राणो वाक्तद्यदग्निः प्रथमश्चीयत आत्मा हि प्रथमः सम्भवतः सम्भवति - १०.१.२.४

शिर एवाग्निः प्राणो महाव्रतमात्मा महदुक्थं तस्मादेतानि सर्वाणि सहोपेयात्सह हि शिरः प्राण आत्मा तद्यदग्निः प्रथमश्चीयते शिरो हि प्रथमं जायमानस्य जायते तस्माद्यत्रैतानि सर्वाणि सह क्रियन्ते महदेवोक्थमातमां ख्यायत आत्मा हि महदुक्थम् - १०.१.२.५

तदाहुः यदेतानि सर्वाणि सह दुरुपापानि कैतेषामुपाप्तिरिति ज्योतिष्टोम एवाग्निष्टोमे ज्योतिष्टोमेनैवाग्निष्टोमेन यजेत - १०.१.२.६

तस्य वा एतस्य ज्योतिष्टोमस्याग्निष्टोमस्य त्रिवृद्बहिष्पवमानं तद्व्रतस्य शिरः पञ्चदशसप्तदशा उत्तरौ पवमानौ तौ पक्षौ पञ्चदशं होतुराज्यं सप्तदशं पृष्ठमेकविंशं यज्ञायज्ञियं तत्पुच्छम् - १०.१.२.७

तयोर्वा एतयोः पञ्चदशसप्तदशयोर्द्वात्रिंशत्स्तोत्रियास्ततो याः पञ्चविंशतिः स पञ्चविंश आत्माऽथ याः सप्तातियन्ति ताः परिमादः पशवो हैताः पशवः परिमाद एतावद्वै महाव्रतं तदेतदत्रैव महाव्रतमाप्नोति - १०.१.२.८

अथ होता सप्त छन्दांसि शंसति चतुरुत्तराण्येकर्चानि विराडष्टमानि तेषां तिस्रश्चाशीतयोऽक्षराणि पञ्चचत्वारिंशच्च ततो या अशीतयः सैवाशीतीनामाप्तिरशीतिभिर्हि महदुक्थमाख्यायतेऽथ यानि पञ्चचत्वारिंशत्ततो यानि पञ्चविंशतिः स पञ्चविंश आत्मा यत्र वा आत्मा तदेव शिरस्तत्पक्षपुच्छान्यथ यानि
विंशतिस्तदावपनमेतावद्वै महदुक्थं तदेतदत्रैव महदुक्थमाप्नोति तानि वा एतानि सर्वाणि ज्योतिष्टोम एवाग्निष्टोम आप्यन्ते तस्मादु ज्योतिष्टोमेनैवाग्निष्टोमेन यजेत - १०.१.२.९