शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ३/यजुस्तद्विधायक ब्राह्मणम्
यजुस्तद्विधायक ब्राह्मणम्
१०.३.५
अयं वाव यजुर्योऽयं पवते एष हि यन्नेवेदं सर्वं जनयत्येतं यन्तमिदमनु प्रजायते तस्माद्वायुरेव यजुः - १०.३.५.१
अयमेवाकाशो जूः यदिदमन्तरिक्षमेतं ह्याकाशमनु जवते तदेतद्यजुर्वायुश्चान्तरिक्षं च यच्च जूश्च तस्माद्यजुरेष एव यदेष ह्येति तदेतद्यजुर्ऋक्सामयोः प्रतिष्ठितमृक्सामे वहतस्तस्मात्समानैरेवाध्वयुर्ग्रहैः कर्म करोत्यन्यान्यन्यानि स्तुतशस्त्राणि भवन्ति यथा पूर्वाभ्यां स्यन्त्त्वापराभ्यां धावयेत्तादृक्तत् - १०.३.५.२
अग्निरेव पुरः अग्निं हि पुरस्कृत्येमाः प्रजा उपासत आदित्य एव चरणं यदा ह्येवैष उदेत्यथेदं सर्वं चरति तदेतद्यजुः सपुरश्चरणमधिदेवतं - १०.३.५.३
अथाध्यात्मम् प्राण एव यजुः प्राणो हि यन्नेवेदं सर्वं जनयति प्राणं यन्तमिदमनु प्रजायते तस्मात्प्राण एव यजुः - १०.३.५.४
अयमेवाकाशो जूः योऽयमन्तरात्मन्नाकाश एतं ह्याकाशमनु जवते तदेतद्यजुः प्राणश्चाकाशश्च यच्च जूश्च तस्माद्यजुः प्राण एव यत्प्राणो ह्येति - १०.३.५.५
अन्नमेव यजुः अन्नेन हि जायतेऽन्नेन जवते तदेतद्यजुरन्ने प्रतिष्ठितमन्नं वहति तस्मात्समान एव प्राणेऽन्यदन्यदन्नं धीयते - १०.३.५.६
मन एव पुरः मनो हि प्रथमं प्राणानां चक्षुरेव चरणं चक्षुषा ह्ययमात्मा चरति तदेतद्यजुः सपुरश्चरणमधिदेवतं चाध्यात्मं च प्रतिष्ठितं स यो हैतदेवं यजुः सपुरश्चरणमधिदेवतं चाध्यात्मं च प्रतिष्ठितं वेद - १०.३.५.७
अरिष्टो हैवानार्तः। स्वस्ति यज्ञस्योदृचमश्नुते स्वानां श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद - १०.३.५.८
य उ हैवंविदं स्वेषु प्रतिप्रतिर्बुभूषति न हैवालं भार्येभ्यो भवत्यथ य एवैतमनुभवति यो वै तमनु भार्यान्बुभूर्षति स हैवालं भार्येभ्यो भवति - १०.३.५.९
तदेतज्ज्येष्ठं ब्रह्म न ह्येतस्मात्किं चन ज्यायोऽस्ति ज्येष्ठो ह वै श्रेष्ठः स्वानां भवति य एवं वेद - १०.३.५.१०
तदेतद्ब्रह्मापूर्वमपरवत् स यो हैतदेवं ब्रह्मापूर्वमपरवद्वेद न हास्मात्कश्चन श्रेयान्त्समानेषु भवति श्रेयांसः श्रेयांसो हैवास्मादपरपुरुषा जायन्ते तस्माद्योऽस्माज्ज्यायान्त्स्याद्दिशोऽस्मात्पूर्वा इत्युपासीत तथो हैनं न हिनस्ति - १०.३.५.११
तस्य वा एतस्य यजुषः रस एवोपनिषत्तस्माद्यावन्मात्रेण यजुषाध्वर्युर्ग्रहं गृह्णाति स उभे स्तुतशस्त्रे अनुविभवत्युभे स्तुतशस्त्रे अनुव्यश्नुते तस्माद्यावन्मात्र इवान्नस्य रसः सर्वमन्नमवति सर्वमन्नमनुव्येति - १०.३.५.१२
तृप्तिरेवास्य गतिः तस्माद्यदान्नस्य तृप्यत्यथ स गत इव मन्यत आनन्द एवास्य विज्ञानमात्माऽऽनन्दात्मानो हैव सर्वे देवाः सा हैषैव देवानामद्धा विद्या स ह स न मनुष्यो य एवंविद्देवानां हैव स एकः - १०.३.५.१३
एतद्ध स्म वै तद्विद्वान्प्रियव्रतो रौहिणायन आह वायुं वान्तमानन्दस्त आत्मेतो वा वाहीतो वेति स ह स्म तथैव वाति तस्माद्यां देवेष्वाशिषमिच्छेदेतेनैवोपतिष्ठेतानन्दो वा आत्माऽसौ मे कामः स मे समृध्यतामिति सं हैवास्मै स काम ऋध्यते यत्कामो भवत्येतां ह वै तृप्तिमेतां गतिमेतमानन्दमेतमात्मानमभिसम्भवति य एवं वेद[१] - १०.३.५.१४
तदेतद्यजुरुपांश्वनिरुक्तम्। प्राणो वै यजुरुपांश्वायतनो वै प्राणस्तद्य एनं निर्ब्रुवन्तं ब्रूयादनिरुक्तां देवतां निरवोचत्प्राण एनं हास्यतीति तथा हैव स्यात् - १०.३.५.१५
तस्य ह यो निरुक्तमाविर्भावं वेद आविर्भवति कीर्त्या यशसोपांशु यजुषाध्वर्युर्ग्रहं गृह्णाति गृहीतः सन्न आविर्भवत्युपांशु यजुषाग्निं चिनोति चितः संचित आविर्भवत्युपांशु यजुषा हविर्निर्वपति शृतं निष्ठितमाविर्भवत्येवं यत्किं चोपांशु करोति कृतं निष्ठितमाविर्भवति तस्य ह य एतमेवं निरुक्तमाविर्भावं वेदाविर्भवति कीर्त्या यशसा ब्रह्मवर्चसेन क्षिप्र उ हैवाविदं गच्छति स ह यजुरेव भवति यजुषैनमाचक्षते - १०.३.५.१६