शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ६/ब्राह्मण १

१०.६.१ वैश्वानराग्न्युपासनं ब्राह्मणम्

अथ हैतेऽरुणे। औपवेशौ समाजग्मुः सत्ययज्ञः पौलुषिर्महाशालो जाबालो बुडिल आश्वतराश्विरिन्द्रद्युम्नो भाल्लवेयो जनः शार्कराक्ष्यस्ते ह वैश्वानरे समासत तेषां ह वैश्वानरे न समियाय - १०.६.१.[१]

ते होचुः। अश्वपतिर्वा अयं कैकेयः सम्प्रति वैश्वानरं वेद तं गच्छामेति ते हाश्वपतिं कैकेयमाजग्मुस्तेभ्यो ह पृथगावसथान्पृथगपचितीः पृथक्साहस्रान्त्सोमान्प्रोवाच ते ह प्रातरसंविदाना एव समित्पाणयः प्रतिचक्रमिर उप त्वायामेति - १०.६.१.[२]

स होवाच। यन्नु भगवन्तोऽनूचाना अनूचानपुत्राः किमिदमिति ते होचुर्वैश्वानरं ह भगवान्त्सम्प्रति वेद तं नो ब्रूहीति स होवाच सम्प्रति खलु न्वा अहं वैश्वानरं वेदाभ्याधत्त समिध उपेता स्थेति - १०.६.१.[३]

स होवाचारुणमौपवेशिं। गौतम कं त्वं वैश्वानरं वेत्थेति पृथिवीमेव राजन्निति होवाचोमिति होवाचैष वै वैश्वानर एतं हि वै त्वं प्रतिष्ठां वैश्वानरं वेत्थ तस्मात्त्वं प्रतिष्ठितः प्रजया पशुभिरसि यो वा एतम्प्रतिष्ठां वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति पादौ त्वा एतौ वैश्वानरस्य पादौ तेऽम्लास्यतां यदि ह नागमिष्य इति पादौ तेऽविदितावभविष्यतां(ते विदितावभविष्यतां) यदि ह नागमिष्य इति वा - १०.६.१.[४]

अथ होवाच सत्ययज्ञं पौलुषिम्। प्राचीनयोग्य कं त्वं वैश्वानरं वेत्थेत्यप एव राजन्निति होवाचोमिति होवाचैष वै रयिर्वैश्वानर एतं हि वै त्वं रयिं वैश्वानरं वेत्थ तस्मात्त्वं रयिमान्पुष्टिमानसि यो वा एतं रयिं वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति वस्तिस्त्वा एष वैश्वानरस्य वस्तिस्त्वाऽहास्यद्यदि ह नागमिष्य इति वस्तिस्तेऽविदितोऽभविष्यद्यदॆ(वस्तिस्ते विदितोऽभविष्यद्यदि) ह नागमिष्यऽ इति वा - १०.६.१.[५]

अथ होवाच महाशालं जाबालम्। औपमन्यव कं त्वं वैश्वानरं वेत्थेत्याकाशमेव राजन्निति होवाचोमिति होवाचैष वै बहुलो वैश्वानर एतं हि वै त्वं बहुलं वैश्वानरं वेत्थ तस्मात्त्वं बहुः प्रजया पशुभिरसि यो वा एतं बहुलं वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेत्यात्मा त्वा एष वैश्वानरस्यात्मा त्वाऽहास्यद्यदि ह नागमिष्य इत्यात्मा तेऽविदितोऽभविष्यद्यदि(ते विदितोऽभविष्यद्यदि) ह नागमिष्य इति वा - १०.६.१.[६]

अथ होवाच बुडिलमाश्वतराश्विम्। वैयाघ्रपद्य कं त्वं वैश्वानरं वेत्थेति वायुमेव राजन्निति होवाचोमिति होवाचैष वै पृथग्वर्त्मा वैश्वानर एतं हि वै त्वं पृथग्वर्त्मानं वैश्वानरं वेत्थ तस्मात्त्वां पृथग्रथश्रेणयोऽनुयान्ति यो वा एतं पृथग्वर्त्मानं वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति प्राणस्त्वा एष वैश्वानरस्य प्राणस्त्वाऽहास्यद्यदि ह नागमिष्य इति प्राणस्ते विदितो ऽभविष्यद्यदि ह नागमिष्य इति वा - १०.६.१.[७]

अथ होवाचेन्द्रद्युम्नं भाल्लवेयम्। वैयाघ्रपद्य कं त्वं वैश्वानरं वेत्थेत्यादित्यमेव राजन्निति होवाचोमिति होवाचैष वै सुततेजा वैश्वानर एतं हि वै त्वं सुततेजसं वैश्वानरं वेत्थ तस्मात्तवैष सुतोऽद्यमानः पच्यमानोऽक्षीयमाणो गृहेषु तिष्ठति यो वा एतं सुततेजसं वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति चक्षुस्त्वा एतद्वैश्वानरस्य चक्षुस्त्वाऽहास्यद्यदि ह नागमिष्य इति चक्षुस्तेऽविदितमभविष्यद्यदि (चक्षुस्ते विदितमभविष्यद्यदि) ह नागमिष्य इति वा - १०.६.१.[८]

अथ होवाच जनं शार्कराक्ष्यम्। सायवस कं त्वं वैश्वानरं वेत्थेति दिवमेव राजन्निति होवाचोमिति होवाचैष वा अतिष्ठा वैश्वानर एतं हि वै त्वमतिष्ठां वैश्वानरं वेत्थ तस्मात्त्वं समानानतितिष्ठसि यो वा एतमतिष्ठां वैश्वानरं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति मूर्द्धा त्वा एष वैश्वानरस्य मूर्द्धा त्वाऽहास्यद्यदि ह नागमिष्य इति मूर्द्धा तेऽविदितोऽभविष्यद्यदि (ते विदितोऽभविष्यद्यदि) ह नागमिष्य इति वा - १०.६.१.[९]

तान्होवाच एते वै यूयं पृथग्वैश्वानरान्विद्वांसः पृथगन्नमघस्त प्रादेशमात्रमिव ह वै देवाः सुविदिता अभिसम्पन्नास्तथा तु व एनान्वक्ष्यामि यथा प्रादेशमात्रमेवाभिसम्पादयिष्यामीति - १०.६.१.[१०]

स होवाच। मूर्द्धानमुपदिशन्नेष वा अतिष्ठा वैश्वानर इति चक्षुषीऽ उपदिशन्नुवाचैष वै सुततेजा वैश्वानर इति नासिके उपदिशन्नुवाचैष वै पृथग्वर्त्मा वैश्वानर इति मुख्यमाकाशमुपदिशन्नुवाचैष वै बहुलो वैश्वानर इति मुख्या अप उपदिशन्नुवाचैष वै रयिर्वैश्वानरो इति च्छुबुकमुपदिशन्नुवाचैष वै प्रतिष्ठा वैश्वानर इति स एषोऽग्निर्वैश्वानरो यत्पुरुषः स यो हैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेदाप पुनर्मृत्युं जयति सर्वमायुरेति न हास्य ब्रुवाणं चन वैश्वानरो हिनस्ति - १०.६.१.[११]