शतपथब्राह्मणम्/काण्डम् १०/अध्यायः ६/ब्राह्मण २

१०.६.२ पुरुषस्याग्न्यर्कोक्थविधोपासनं ब्राह्मणम्

द्वयं वा इदमत्ता चैवाद्यं च। तद्यदोभयं समागच्छत्यत्तैवाख्यायते नाद्यम् - १०.६.२.१

स वै यः सोऽत्ताग्निरेव सः। तस्मिन्यत्किं चाभ्यादधत्याहितय एवास्य ता आहितयो ह वै ता आहुतय इत्याचक्षते परोऽक्षं परोऽक्षकामा हि देवाः - १०.६.२.२

आदित्यो वा अत्ता। तस्य चन्द्रमा एवाहितयश्चन्द्रमसं ह्यादित्य आदधतीत्यधिदेवतम् - १०.६.२.३

अथाध्यात्मम्। प्राणो वा अत्ता तस्यान्नमेवाहितयोऽन्नं हि प्राण आदधतीति न्वग्नेः - १०.६.२.४

अथार्कस्य। अग्निर्वा अर्कस्तस्याहुतय एव कमाहुतयो ह्यग्नये कम् - १०.६.२.५

आदित्यो वा अर्कः। तस्य चन्द्रमा एव कं चन्द्रमा ह्यादित्याय कमित्यधिदेवतम् - १०.६.२.६

अथाध्यात्मम्। प्राणो वा अर्कस्तस्यान्नमेव कमन्नं हि प्राणाय कमिति न्वेवार्कस्य - १०.६.२.७

अथोक्थस्य अग्निर्वा उक्तस्याहुतय एव थमाहुतिभिर्ह्यग्निरुत्तिष्ठति - १०.६.२.८

आदित्यो वा उक् तस्य चन्द्रमा एव थं चन्द्रमसा ह्यादित्य उत्तिष्ठतीत्यधिदेवतम् - १०.६.२.९

अथाध्यात्मम्। प्राणो वा उक्तस्यान्नमेव थमन्नेन हि प्राण उत्तिष्ठतीति न्वेवोक्थस्य स एषोऽग्निविधोऽर्कविध उक्थविधो यत्पुरुषः स यो हैतमेवमग्निविधमर्कविधमुक्थविधं पुरुषमुपास्ते विदुषो हैवास्यैवं भ्रातृव्यो म्लायति - १०.६.२.१०

प्राणेन वा अग्निर्दीप्यते अग्निना वायुर्वायुनादित्य आदित्येन चन्द्रमाश्चन्द्रमसा नक्षत्राणि नक्षत्रैर्विद्युदेतावती वै दीप्तिरस्मिंश्च लोकेऽमुष्मिंश्च सर्वां हैतां दीप्तिं दीप्यतेऽस्मिंश्च लोकेऽमुष्मिंश्च य एवं वेद - १०.६.२.११