शतपथब्राह्मणम्/काण्डम् ११/अध्यायः १/ब्राह्मणं ३

११.१.३

पौर्णमासेनेष्ट्वा। इन्द्राय विमृधेऽनुनिर्वपति तेन यथेष्ट्यैवं यजत आमावास्येनेष्ट्वादित्यै चरुमनुनिर्वपति तेन यथेष्ट्यैवं यजते - ११.१.३.१

स यत्पौर्णमासेनेष्ट्वा इन्द्राय विमृधेऽनुनिर्वपतीन्द्रो वै यज्ञस्य देवताथैतदग्नीषोमीयं पौर्णमासं हविर्भवति तत्र नेन्द्राय त्वेति किं चन क्रियत एतेनो हास्यैतत्सेन्द्रं हविर्भवत्येतेन सेन्द्रो यज्ञोऽथ यद्विमृधे त्वेति सर्वा उ हि मृधो नाष्ट्राः पौर्णमासेन हन्ति - ११.१.३.२

अथ यदामावास्येनेष्ट्वा। अदित्यै चरुमनुनिर्वपत्येष वै सोमो राजा देवानामन्नं यच्चन्द्रमाः स यत्रैष एतां रात्रिं न पुरस्तान्न पश्चाद्ददृशे तेनैतदनद्धेव हविर्भवति तेनाप्रतिष्ठितमियं वै पृथिव्यदितिः सेयमद्धा सेयं प्रतिष्ठितैतेनो हास्यैतदद्धेव हविर्भवत्येतेन प्रतिष्ठितमेतन्नु तद्यस्मादनुनिर्वपत्यथ यस्मान्नानु निर्वपेत् - ११.१.३.३

स यत्पौर्णमासेनेष्ट्वा इन्द्राय विमृधेऽनुनिर्वपति सेन्द्रो मे यज्ञोऽसदिति सर्वो वै यज्ञ इन्द्रस्यैव स यत्सर्वो यज्ञ इन्द्रस्यैवैतेनो हास्येतत्सेन्द्रं हविर्भवत्येतेन सेन्द्रो यज्ञः - ११.१.३.४

अथ यदामावास्येनेष्ट्वा। अदित्यै चरुमनुनिर्वपत्यामावास्यं वा अनुनिर्वाप्यं पौर्णमासेन वा इन्द्रो वृत्रमहंस्तस्मा एतद्वृत्रं जघ्नुषे देवा एतद्धविरनुनिरवपन्यदामावास्यं किमनुनिर्वाप्येऽनु निर्वपेदिति तस्मान्न्नानु निर्वपेत् - ११.१.३.५

स यत्पौर्णमासेनेष्ट्वा। अथान्यद्धविरनुनिर्वपत्यामावास्येनेष्ट्वाऽथान्यद्धविरनुनिर्वपति द्विषन्तं ह स भ्रातृव्यं प्रत्युच्छ्रयतेऽथ यः पौर्णमासीं यजत आमावास्येनामावास्यामसपत्ना हैवास्यानुपबाधा श्रीर्भवति - ११.१.३.६

पौर्णमासेन वै देवाः। पौर्णमासीं यजमाना आमावास्येनामावास्यां क्षिप्र एव पाप्मानमपाघ्नत क्षिप्रे प्राजायन्त स यो हैवं विद्वान्पौर्णमासेनैव पौर्णमासीं यजत आमावास्येनामावास्यां क्षिप्र एव पाप्मानमपहते क्षिप्रे प्रजायते स यद्यनु निर्वपेद्दद्याद्दक्षिणां नादक्षिणं हविः स्यादिति ह्याहुर्दर्शपूर्णमासयोर्ह्येवैषा दक्षिणा यदन्वाहार्य इति न्वनुनिर्वाप्यस्याथाभ्युदितस्य - ११.१.३.७