११.१.५ दर्शयागे पश्चाच्चंद्रदर्शने त्रिहविष्का अभ्युदितेष्टिः (प्रायश्चित्तेष्टिः)

अद्यामावास्येति मन्यमान उपवसति। अथैष पश्चाद्ददृशे स हैष दिव्यः श्वा स यजमानस्य पशूनभ्यवेक्षते तदपशव्यं स्यादप्रायश्चित्तिकृत एतस्मादुहैतद्भीषाऽवचन्द्रमसादिति - ११.१.५.[१]

छायामुपसर्पन्ति। एतेनो हैतदुपतपदाचक्षते श्वलुचितमित्येतमु हैवैतदाचक्षते - ११.१.५.[२]

शशश्चान्द्रमस इति। चन्द्रमा वै सोमो देवानामन्नं तं पौर्णमास्यामभिषुण्वन्ति सोऽपरपक्षेऽप ओषधीः प्रविशति पशवो वा अप ओषधीरदन्ति तदेनमेतां रात्रीं पशुभ्यः संनयति - ११.१.५.[३]

सोऽद्यामावास्येति मन्यमान उपवसति। अथैष पश्चाद्ददृशे तद्यजमानो यज्ञपथादेति तदाहुः कथं कुर्यादित्वा यज्ञपथाद्यजेता३ न यजेता३ इति यजेत हैव न ह्यन्यदपक्रमणं भवति श्वः श्व एवैष ज्यायानुदेति सआमावास्यविधेनैवेष्ट्वाऽथेष्टिमनुनिर्वपति तदहर्वैव श्वो वा - ११.१.५.[४]

तस्यै त्रीणि हवींषि भवन्ति अग्नये पथिकृतेऽष्टाकपालं पुरोडाशमिन्द्राय वृत्रघ्न एकादशकपालमग्नये वैश्वानराय द्वादशकपालं पुरोडाशम् - ११.१.५.[५]

स यदग्नये पथिकृते निर्वपति अग्निर्वै पथः कर्ता स यस्मादेवादो यजमानो यज्ञपथादेति तमेनमग्निः पन्थानमापादयति - ११.१.५.[६]

अथ यदिन्द्राय वृत्रघ्ने। पाप्मा वै वृत्रो यो भूतेर्वारयित्वा तिष्ठति कल्याणात्कर्मणः साधोस्तमेतदिन्द्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हन्ति तस्मादिन्द्राय वृत्रघ्ने - ११.१.५.[७]

अथ यदग्नये वैश्वानराय द्वादशकपालं पुरोडाशं निर्वपति यत्र वा इन्द्रो वृत्रमहंस्तमग्निना वैश्वानरेण समदहत्तदस्य सर्वं पाप्मानं समदहत्तथो एवैष एतदिन्द्रेणैव वृत्रघ्ना पाप्मानं वृत्रं हत्वा तमग्निना वैश्वानरेण संदहति तदस्य सर्वं पाप्मानं संदहति स यो हैवंविद्वानेतयेष्ट्या यजते न हास्याल्पश्चन पाप्मा परिशिष्यते - ११.१.५.[८]

तस्यै सप्तदश सामिधेन्यो भवन्ति उपांशु देवता यजति याः कामयते ता याज्यानुवाक्याः करोत्येवमाज्यभागावेवं संयाज्ये - ११.१.५.[९]

तिसृधन्वं दक्षिणां ददाति धन्वना वै श्वानं बाधन्ते तदेतमेवैतद्बाधते यत्तिसृधन्वं दक्षिणां ददाति - ११.१.५.[१०]

दण्डं दक्षिणां ददाति। दण्डेन वै श्वानं बाधन्ते तदेतमेवैतद्बाधते यद्दण्डं दक्षिणां ददात्येषा न्वादिष्टा दक्षिणा दद्यात्त्वेवास्यामप्यन्यद्या इतरा दक्षिणास्तासां यत्सम्पद्येत सा हैषा पशव्येष्टिस्तयाऽप्यनभ्युद्दृष्टो यजेतैव - ११.१.५.[११]