शतपथब्राह्मणम्/काण्डम् ११/अध्यायः १/ब्राह्मणं ७

११.१.७

तद्वा अदो व्रतोपायन उद्यते। यदि नाश्नाति पितृदेवत्यो भवति यद्यु अश्नाति देवानत्यश्नातीति तदारण्यमश्नीयादिति तत्र स्थापयन्ति - ११.१.७.१

स यदि ग्राम्या ओषधीरश्नाति। पुरोडाशस्य मेधमश्नाति यद्यारण्या ओषधीरश्नाति बर्हिषो मेधमश्नाति यदि वानस्पत्यमश्नातीध्मस्य मेधमश्नाति यदि पयः पिबति सांनाय्यस्य चाज्यस्य च मेधमश्नाति यद्यपः पिबति प्रणीतानां मेधमश्नाति यदि नाश्नाति पितृदेवत्यो भवति - ११.१.७.२

तदाहुः। किमयनमिति स्वयं हैवैते रात्री अग्निहोत्रं जुहुयात्स यद्धुत्वा प्राश्नाति तेनापितृदेवत्यो भवत्याहुतिर्वा एषा स यदेवैतामात्मन्नाहुतिं जुहोति तेनो एतेषां मेधानां नाश्नाति - ११.१.७.३

एते ह वै रात्री। सर्वा रात्रयः समवयन्ति या आपूर्यमाणपक्षस्य रात्रयस्ताः सर्वाः पौर्णमासीं समवयन्ति या अपक्षीयमाणपक्षस्य रात्रयस्ताः सर्वा अमावास्यां समवयन्ति स यो हैवं विद्वान्त्स्वयमुपवसथे जुहोति सर्वदा हैवास्य स्वयं हुतं भवति - ११.१.७.४