शतपथब्राह्मणम्/काण्डम् ११/अध्यायः १/ब्राह्मणं ८

११.१.८

देवाश्च वा असुराश्च। उभये प्राजापत्याः पस्पृधिरे ततोऽसुरा अतिमानेनैव कस्मिन्नु
वयं जुहुयामेति स्वेष्वेवास्येषु जुह्वतश्चेरुस्तेऽतिमानेनैव पराबभूवुस्तस्मान्नातिमन्येत पराभवस्य हैतन्मुखं यदतिमानः - ११.१.८.१

अथ देवाः अन्योऽन्यस्मिन्नेव जुह्वतश्चेरुस्तेभ्यः प्रजापतिरात्मानं प्रददौ यज्ञो हैषामास यज्ञो हि देवानामन्नं - ११.१.८.२

स देवेभ्य आत्मानं प्रदाय। अथैतमात्मनः प्रतिमामसृजत यद्यज्ञं तस्मादाहुः प्रजापतिर्यज्ञ इत्यात्मनो ह्येतं प्रतिमामसृजत - ११.१.८.३

स एतेन यज्ञेन। देवेभ्य आत्मानं निरक्रीणीत स यद्व्रतमुपैति यथैव तत्प्रजापतिर्देवेभ्य आत्मानं प्रायच्छदेवमेवैष एतद्देवेभ्य आत्मानं प्रयच्छति तस्मादु संयत एवैतां रात्रिं चिचरिषेद्यथा हविषा चरेदेवं हविर्ह्येष देवानां भवति - ११.१.८.४

अथ यद्यज्ञं तनुते। यज्ञेनैवैतद्देवेभ्य आत्मानं निष्क्रीणीते यथैव तत्प्रजापतिर्निरक्रीणीतैवमथ यद्धविर्निर्वपति हविषैवैतद्यज्ञं निष्क्रीणाति हविरनुवाक्ययाऽनुवाक्यामवदानेनावदानं याज्यया याज्यां वषट्कारेण वषट्कारमाहुत्या तस्याहुतिरेवानिष्क्रीता भवति - ११.१.८.५

स यथाग्रप्रशीर्णो वृक्षः। एवमस्यैष यज्ञो भवत्याहुतिमेवान्वाहार्येण निष्क्रीणाति तद्यदेतद्धीनं यज्ञस्यान्वाहरति तस्मादन्वाहार्यो नामैवमु हास्यैष सर्व एव यज्ञो निष्क्रीतो भवत्येष ह वै यजमानस्यामुष्मिंलोक आत्मा भवति यद्यज्ञ स ह सर्वतनूरेव यजमानोऽमुष्मिंलोके सम्भवति य एवं विद्वान्निष्क्रीत्या यजते - ११.१.८.६