शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ६/ब्राह्मणं १

११.६.१

भृगुर्ह वै वारुणिः। वरुणं पितरं विद्ययाऽतिमेने तद्ध वरुणो विदांचकाराति वै मा विद्यया मन्यत इति -११.६.१.१

स होवाच प्राङ्पुत्रक व्रजतात्तत्र यत्पश्येस्तद्दृष्ट्वा दक्षिणा व्रजतात्तत्र यत्पश्येस्तद्दृष्ट्वा प्रत्यग्व्रजतात्तत्र यत्पश्येस्तद्दृष्ट्वोदग्व्रजतात्तत्र यत्पश्येस्तद्दृष्ट्वैतयोः पूर्वयोरुत्तरमन्ववान्तरदेशं व्रजतात्तत्र यत्पश्येस्तन्म आचक्षीथा इति - ११.६.१.२

स ह तत एव प्राङ्प्रवव्राज एदु पुरुषैः पुरुषान्पर्वाण्येषां पर्वशः संव्रश्चं पर्वशो विभजमानानिदं तवेदं ममेति स होवाच भीष्मं बत भोः पुरुषान्वा एतत्पुरुषाः पर्वाण्येषां पर्वशः संव्रश्चं पर्वशो व्यभक्षतेति ते होचुरित्थं वा इमेऽस्मानमुष्मिंलोकेऽसचन्त तान्वयमिदमिह प्रतिसचामहा इति सहोवाचास्तीह प्रायश्चित्ती३ इत्यस्तीति काऽति पिता ते वेदेति - ११.६.१.३

स ह तत एव दक्षिणा प्रवव्राज एदु पुरुषैः पुरुषान्पर्वाण्येषां पर्वशः संकर्तं पर्वशो विभजमानानिदं तवेदं ममेति स होवाच भीष्मं बत भोः पुरुषान्वा एतत्पुरुषाः पर्वाण्येषां पर्वशः संकर्तं पर्वशो व्यभक्षतेति ते होचुरित्थं वा इमेऽस्मानमुष्मिंलोकेऽसचन्त तान्वयमिदमिह प्रतिसचामहा इति स होवाचास्तीह प्रायश्चित्ती३ इत्यस्तीति काऽति पितैव ते वेदेति - ११.६.१.४

स ह तत एव प्रत्यङ्प्रवव्राज एदु पुरुषैः पुरुषांस्तूष्णीमासीनांस्तूष्णीमासीनैरद्यमानान्त्स होवाच भीष्मं बत भोः पुरुषान्वा एतत्पुरुषास्तूष्णीमासीनांस्तूष्णीमासीना अदन्तीति ते होचुरित्थं वा इमेऽस्मानमुष्मिंलोकेऽसचन्त तान्वयमिदमिह प्रतिसचामहा इति स होवाचास्तीहप्रायश्चित्ती३ इत्यस्तीति काऽति पितैव ते वेदेति - ११.६.१.५

स ह तत एवोदङ्प्रवव्राज एदु पुरुषैः पुरुषानाक्रन्दयत आक्रन्दयद्भिरद्यमानान्त्स होवाच भीष्मं बत भोः पुरुषान्वा एतत्पुरुषा आक्रन्दयत आक्रन्दयन्तोऽदन्तीति ते होचुरित्थं वा इमेऽस्मानमुष्मिंलोकेऽसचन्त तान्वयमिदमिह प्रतिसचामहा इति स होवाचास्तीहप्रायश्चित्ती३ इत्यस्तीति काऽति पितैव ते वेदेति - ११.६.१.६

स ह तत एवैतयोः पूर्वयोः उत्तरमन्ववान्तरदेशं प्रवव्राजेदु स्त्रियौ कल्याणीं चातिकल्याणीं च ते अन्तरेण पुरुषः कृष्णः पिङ्गाक्षो दण्डपाणिस्तस्थौ तं हैनं दृष्ट्वा भीर्विवेद स हेत्य संविवेश तं ह पितोवाचाधीष्व स्वाध्यायं कस्मान्नु स्वाध्यायं नाधीष इति स होवाच किमध्येष्ये न किं चनास्तीति तद्ध वरुणो विदांचकाराद्र्यग्वा इति - ११.६.१.७

स होवाच। यान्वै तत्प्राच्यां दिश्यद्राक्षीः पुरुषैः पुरुषान्पर्वाण्येषां पर्वशः संव्रश्चं पर्वशो विभजमानानिदं तवेदं ममेति वनस्पतयो वै ते अभूवन्त्स यद्वनस्पतीनां समिधमादधाति तेन वनस्पतीनवरुन्द्धे तेन वनस्पतीनां लोकं जयति - ११.६.१.८

अथ यानेततद्दक्षिणायां दिश्यद्राक्षीः। पुरुषैः पुरुषान्पर्वाण्येषां पर्वशः संकर्तं पर्वशो विभजमानानिदं तवेदं ममेति पशवो वै ते अभूवन्त्स यत्पयसा जुहोति तेन पशूनवरुन्धे तेन पशूनां लोकं जयति - ११.६.१.९

अथ यानेतत्प्रतीच्यां दिश्यद्राक्षीः। पुरुषैः पुरुषांस्तूष्णीमासीनांस्तूष्णीमासीनैरद्यमानानोषधयो वै ता अभूवन्त्स यत्तृणेनावज्योतयति तेनौषधीरवरुन्द्धे तेनौषधीनां लोकं जयति - ११.६.१.१०

अथ यानेतदुदीच्यां दिश्यद्राक्षीः। पुरुषैः पुरुषानाक्रन्दयत आक्रन्दयद्भिरद्यमानानापो वै ता अभूवन्त्स यदपः प्रत्यानयति तेनापोऽवरुन्द्धे तेनापां लोकं जयति - ११.६.१.११

अथ ये एते स्त्रियावद्राक्षीः। कल्याणीं चातिकल्याणीं च सा या कल्याणी सा श्रद्धा स यत्पूर्वामाहुतिं जुहोति तेन श्रद्धामवरुन्द्धे तेन श्रद्धां जयत्यथ याऽतिकल्याणी साऽश्रद्धा स यदुत्तरामाहुतिं जुहोति तेनाश्रद्धामवरुन्द्धे तेनाश्रद्धां जयति - ११.६.१.१२

अथ य एते। सोऽन्तरेण पुरुषः कृष्णः पिङ्गाक्षो दण्डपाणिरस्थात्क्रोधो वै सोऽभूत्स यत्स्रुच्यप आनीय निनयति तेन क्रोधमवरुन्द्धे तेन क्रोधं जयति स य एवं विद्वानग्निहोत्रं जुहोति तेन सर्वं जयति सर्वमवरुन्द्धे - ११.६.१.१३