शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ६/ब्राह्मणं २
११.६.२
जनको ह वै वैदेहो। ब्राह्मणैर्धावयद्भिः समाजगाम श्वेतकेतुनाऽऽरुणेयेन सोमशुष्मेण सात्ययज्ञिना याज्ञवल्क्येन तान्होवाच कथङ्कथमग्निहोत्रञ्जुहुथेति - ११.६.२.१
स होवाच श्वेतकेतुरारुणेयः। घर्मावेव सम्राडहमजस्रौ यशसा विष्यन्दमानावन्योऽन्यस्मिञ्जुहोमीति कथं तदित्यादित्यो वै घर्मस्तं सायमग्नौ जुहोम्यग्निर्वै घर्मस्तं प्रातरादित्ये जुहोमीति किं स भवति य एवं जुहोत्यजस्र एव श्रिया यशसा भवत्येतयोश्च देवतयोः सायुज्यं सलोकतां जयतीति - ११.६.२.२
अथ होवाच सोमशुष्मः सात्ययज्ञिः। तेज एव सम्राडहं तेजसि जुहोमीति कथं तदित्यादित्यो वै तेजस्तं सायमग्नौ जुहोम्यग्निर्वै तेजस्तं प्रातरादित्ये जुहोमीति किं स भवति य एवं जुहोतीति तेजस्वी यशस्व्यन्नादो भवत्येतयोश्चैव देवतयोः सायुज्यं सलोकतां जयतीति - ११.६.२.३
अथ होवाच याज्ञवल्क्यः। यदहमग्निमुद्धराम्यग्निहोत्रमेव तदुद्यच्छाम्यादित्यं वा अस्तं यन्तं सर्वे देवा अनुयन्ति ते म एतमग्निमुद्धृतं दृष्ट्वोपावर्तन्तेऽथाहं पात्राणि निर्णिज्योपवाप्याग्निहोत्रीं दोहयित्वा पश्यन्पश्यतस्तर्पयामीति त्वं नेदिष्ठं याज्ञवल्क्याग्निहोत्रस्यामीमांसिष्ठा धेनुशतं ददामीति होवाच न त्वेवैनयोस्त्वमुत्क्रान्तिं न गतिं न प्रतिष्ठां न तृप्तिं न पुनरावृत्तिं न लोकं प्रत्युत्थायिनमित्युक्त्वा रथमास्थाय प्रधावयांचकार - ११.६.२.४
ते होचुः अति वै नोऽयं राजन्यबन्धुरवादीद्धन्तैनं ब्रह्मोद्यमाह्वयामहा इति स होवाच याज्ञवल्क्यो ब्राह्मणा वै वयं स्मो राजन्यबन्धुरसौ यद्यमुं वयं जयेम कमजैष्मेति ब्रूयामाथ यद्यसावस्माञ्जयेद्ब्राह्मणान्राजन्यबन्धुरजैषीदिति नो ब्रूयुर्मेदमादृढ्वमिति तद्धास्य जज्ञुरथ ह याज्ञवल्क्यो रथमास्थायानुप्रधावयांचकार तं हान्वाजगाम स होवाचाग्निहोत्रं याज्ञवल्क्य वेदितू३ इत्यग्निहोत्रं सम्राडिति - ११.६.२.५
ते वा एते आहुती हुते उत्क्रामतः। ते अन्तरिक्षमाविशतस्ते अन्तरिक्षमेवाहवनीयं कुर्वाते वायुं समिधं मरीचीरेव शुक्रामाहुतिं ते अन्तरिक्षं तर्पयतस्ते तत उत्क्रामतः - ११.६.२.६
ते दिवमाविशतः। ते दिवमेवाहवनीयं कुर्वाते आदित्यं समिधं चन्द्रमसमेव शुक्रामाहुतिं ते दिवं तर्पयतस्ते तत आवर्तेते - ११.६.२.७
ते इमामाविशतः। ते इमामेवाहवनीयं कुर्वाते अग्निं समिधमोषधीरेव शुक्रामाहुतिं ते इमां तर्पयतस्ते तत उत्क्रामतः - ११.६.२.८
ते पुरुषमाविशतः। तस्य मुखमेवाहवनीयं कुर्वाते जिह्वां समिधमन्नमेव शुक्रामाहुतिं ते पुरुषं तर्पयतः स य एवं विद्वानश्नात्यग्निहोत्रमेवास्य हुतं भवति ते तत उत्क्रामतः - ११.६.२.९
ते स्त्रियमाविशतः। तस्या उपस्थमेवाहवनीयं कुर्वाते धारकां समिधं धारका ह वै नामैषैतया ह वै प्रजापतिः प्रजा धारयांचकार रेत एव शुक्रामाहुतिं ते स्त्रियं तर्पयतः स य एवं विद्वान्मिथुनमुपैत्यग्निहोत्रमेवास्य हुतम्भवति यस्ततः पुत्रो जायते स लोकः प्रत्युत्थाय्येतदग्निहोत्रं याज्ञवल्क्य नातः परमस्तीति होवाच तस्मै ह याज्ञवल्क्यो वरं ददौ स होवाच कामप्रश्न एव मे त्वयि याज्ञवल्क्यासदिति ततो ब्रह्मा जनक आस - ११.६.२.१०