शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ७/ब्राह्मणं १

११.७.१

पशुबन्धेन यजते। पशवो वै पशुबन्धः स यत्पशुबन्धेन यजते पशुमानसानीति तेन गृहेषु यजेत गृहेषु पशून्बध्ना इति तेन सुयवसे यजेत सुयवसे पशून्बध्ना इति जीर्यन्ति ह वै जुह्वतो यजमानस्याग्नयोऽग्नीन्जीर्यतोऽनु यजमानो यजमानमनु गृहाश्च पशवश्च - ११.७.१.१

स यत्पशुबन्धेन यजते। अग्नीनेवैतत्पुनर्णवान्कुरुतेऽग्नीनां पुनर्णवतामनु यजमानो यजमानमनु गृहाश्च पशवश्चायुष्यो ह वा अस्यैष आत्मनिष्क्रयणो भवति मांसीयन्ति ह वै जुह्वतो यजमानस्याग्नयस्ते यजमानमेव ध्यायन्ति यजमानं संकल्पयन्ति पचन्ति वा अन्येष्वग्निषु वृथा मांसमथैतेषां नातोऽन्या मांसाशा विद्यते यस्यो चैते भवन्ति - ११.७.१.२

स यत्पशुबन्धेन यजते। आत्मानमेवैतन्निष्क्रीणीते वीरेण वीरं वीरो हि पशुर्वीरो यजमान एतदु ह वै परममन्नाद्यं यन्मांसं स परमस्यैवान्नाद्यस्यात्ता भवति तं वै संवत्सरो नानीजनमतीयादायुर्वै संवत्सर आयुरेवैतदमृतमात्मन्धत्ते - ११.७.१.३