शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ७/ब्राह्मणं २

११.७.२ पशुबन्धस्येष्टिसवविधत्वेन द्वैविध्याभिधायकं ब्राह्मणम्

हविर्यज्ञविधो ह वा अन्यः पशुबन्धः। सवविधोऽन्यः स हैष हविर्यज्ञविधो यस्मिन्व्रतमुपनयति यस्मिन्नपः प्रणयति यस्मिन्पूर्णपात्रं निनयति यस्मिन्विष्णुक्रमान्क्रमयत्यथ हैष सवविधो यस्मिन्नेतानि न क्रियन्ते - ११.७.२.१

तदाहुः। इष्टिः पशुबन्धा३ महायज्ञा३ इति महायज्ञ इति ह ब्रूयादिष्टिं वै तर्हि पशुबन्धमकर्व्येनमकृक्षथा इत्येनं ब्रूयात् - ११.७.२.२

तस्य प्रयाजा एव प्रातःसवनम् अनुयाजास्तृतीयसवनं पुरोडाश एव माध्यन्दिनं सवनम् - ११.७.२.३

तद्धैके। वपायां हुतायां दक्षिणा नयन्ति तदु तथा न कुर्याद्यो हैनं तत्र ब्रूयाद्बहिर्द्धा न्वा अयं प्राणेभ्यो दक्षिणा अनैषीन्न प्राणानददक्षदन्धो वा स्रामो वा बधिरो वा पक्षहतो वा भविष्यतीतीश्वरो ह तथैव स्यात् - ११.७.२.४

इत्थमेव कुर्यात्। पुरोडाशेडायामेवोपहूतायां दक्षिणा नयेदैन्द्रो वा अयम्मध्यतः प्राण इममेवैतदैन्द्रं मध्यतः प्राणं दक्षिणाभिर्दक्षयत्यैन्द्रं वै माध्यन्दिनं सवनं माध्यन्दिने वै सवने दक्षिणा नीयन्ते तस्मात्पुरोडाशेडायामेवोपहूतायां दक्षिणा नयेत् - ११.७.२.५

तदाहुः। अध्वर्यो यद्दीक्षितस्य नानवभृथोऽवकल्पते क्वैनमदिदीक्ष इत्यावभृथादनूद्दृंहेयुरध्वर्युश्च प्रतिप्रस्थाता च होता च मैत्रावरुणश्च ब्रह्मा चाग्नीध्रश्चैतैर्वा एष षड्ढोता तमनुद्रुत्य षड्ढोतारं जुहोत्येकामाहुतिं कृत्वा पञ्च वाऽऽज्या द्यौष्पृष्ठमन्तरिक्षमात्माऽङ्गैर्यज्ञम्पृथिवीं शरीरैः वाचस्पतेऽच्छिद्रया वाचाऽच्छिद्रया जुह्वा दिवि देवावृधं होत्रामैरयत्स्वाहेति सैव दीक्षा - ११.७.२.६

तदाहुः। अध्वर्यो यद्दीक्षितस्य नानवभृथोऽवकल्पते क्वैनमवभृथमवनेष्यसीति स यद्धृदयशूलेन चरन्ति स हैवैतस्यावभृथः - ११.७.२.७

मधुको ह स्माह पैङ्ग्यः। विसोमेन वा एके पशुबन्धेन यजन्ते ससोमेनैके। दिवि वै सोम आसीत्तं गायत्री वयो भूत्वाऽऽहरत्तस्य यत्पर्णमच्छिद्यत तत्पर्णस्य पर्णत्वमिति न्वा एतद्ब्राह्मणमुद्यते विसोमेन वा एके पशुबन्धेन यजन्ते ससोमेनैके स हैष विसोमेन पशुबन्धेन यजते योऽन्यं पालाशाद्यूपं कुरुतेऽथ हैष ससोमेन पशुबन्धेन यजते यः पालाशं यूपं कुरुते तस्मात्पालाशमेव यूपं कुर्वीत - ११.७.२.८