शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ७/ब्राह्मणं ३

११.७.३

स य एष बहुसारः। स हापशव्यस्तस्मात्तादृशं पशुकामो यूपं न कुर्वीताथ य एष फल्गुप्रासहः स ह पशव्यस्तस्मात्तादृशं पशुकामो यूपं कुर्वीत - ११.७.३.१

अथ यस्यैतद्वक्रस्य सतः। शूल इवाग्रं भवति स ह कपोती नाम स यो ह तादृशं यूपं कुरुते पुरा हायुषोऽमुं लोकमेति तस्मात्तादृशमायुष्कामो यूपं न कुर्वीत - ११.७.३.२

अथ य एष आनतः। उपरिष्टादपनतो मध्ये सोऽशनायै रूपं स यो ह तादृशं यूपं कुरुतेऽशनायुका हास्य भार्या भवन्ति तस्मात्तादृशमन्नाद्यकामो यूपं न कुर्वीताथ य एष आनत उपरिष्टादुपनतो मध्ये सोऽन्नाद्यस्य रूपं तस्मात्तादृशमन्नाद्यकामो यूपं कुर्वीत - ११.७.३.३