शतपथब्राह्मणम्/काण्डम् ११/अध्यायः ८
ब्राह्मणं १
१ अग्निहोत्रे महउपस्थानम - तत्र प्रथममग्निहोत्रे कर्मणि मह इत्युपस्थानं तद्दार्ढ्याय कर्तव्यनिमित्तं विधातुमाख्यायिकाया अभिधानं, तस्यां च विशेषतोमहःशब्दार्थमभिधाय तस्य लोकप्रसिद्धया प्रमाणीकरणम्, उक्तार्थज्ञानस्य प्रशंसनम् , मह इत्युपस्थानस्य फलसहितं विधानं चेति.
ब्राह्मणं २
२ अग्नेश्चातुर्विध्याभिधायकं ब्राह्मणम् -- तत्र प्रथममाहवनीयात्प्राक्प्रहृते उत्तरवेदिकेऽग्नौ पशुयागः कर्तव्य इति विधातुमग्नेराहितोद्धृतप्रहृतविहृतात्मना चातुर्विध्यप्रदर्शनम्, उक्ताहितादिचतुष्टयस्य भूराद्यात्मनाऽग्न्याद्यात्मना च प्रशंसनम्, आहितादीनामभिप्रेतस्यार्थस्य श्रुतिकृतविवरणप्रदर्शनम्, उपयड्ढोमार्थं वर्णितस्याग्नेस्तत्प्रयोजननिरूपणं चेत्यादि.
ब्राह्मणं ३
३ पशुदेवताविकल्पाभिधायकं ब्राह्मणम् - तत्र प्रथमस्य पशोः प्रजापतिः सूर्य इन्द्राग्नी चेति त्रयो देवा विकल्पिता इति दर्शयितुं क्रमेण तस्य तस्य पक्षस्य सोपपत्तिकमभिधानं, पशुत्वस्य प्राणात्मकतायास्तथा तत्परिज्ञातुः पशुनाऽऽर्तिहेतुतायाः समर्थनं, विहितस्य पशोरक्तप्राणरूपतोपपादनाय तस्यैव अग्न्यादिषड्देवतामयत्वस्योपपादनाय चाख्यायिकायाः प्रतिपादनं, तस्यां च विशेषतः प्रसङ्गादाप्रीशब्दनिर्वचनं, यथाऽश्वमेधेनेष्टभावनापुरःसरं पशुनेष्टवत: फलं भवति तथैवानेन पशुबन्धेनेष्टवतस्तदेव फलं भवतीति प्रतिपादनं, ततस्तस्मिन्निष्प्राणत्वेनोच्छूने आदित्यलक्षणे पशौ प्राच्यादिदिक्कर्तृकस्यानुप्राणनस्य विधानं, प्रसङ्गात्किञ्चित्पुरुषार्थस्यानुप्राणनप्रयोगस्य विधानं, तत आदित्यस्याग्नेः सकाशात्प्राणादाने--वायोः सकाशाद्रूपादाने पुरुषस्य सकाशाञ्चित्तादाने--पशुभ्यः सकाशाच्चक्षुष आदाने-चन्द्रमसः सकाशात्प्रभाया आदाने च क्रमेण कारणमभिधाय प्रतिपर्यायं उक्तार्थं वेदितुः फलकथनम् , उक्तविधमादानं निमित्तीकृत्यादित्यशब्दो निष्पन्न इति प्रदर्शनं चेत्यादि
ब्राह्मणं ४
४ पशुप्रायश्चित्तीयाः स्पृतिहोमाः--तत्र स्पृत्याख्यान्होमान्पशुप्रायश्चित्ततया विधातुमाख्यायिकाया अभिधानं, तस्यां च प्रवर्ग्यदोहनार्थायां गवि शार्दूलेन हतायां का प्रायश्चित्तिरिति सह सत्रिण उपेत्य केशिगृहपतेः प्रश्नस्योद्भावनं, खण्डिक एवैतत्प्रायश्चित्तं जानातीति तेषामुत्तरप्रदानम्, उक्तप्रायश्चित्तं ज्ञातुं केशिराजस्य खण्डिकं प्रति गत्वा प्रायश्चित्तं यदि ब्रवीषि तर्हि यज्ञं समाप्स्यामीति प्रार्थनाकरणम् , एतस्मै राज्ञे प्रायश्चित्तमुपदेष्टव्यं न वेति सन्दिहानस्य खण्डिकस्य स्वैर्विचारकैः सह मंत्रकरणप्रदर्शनं,-तत्र तैराप्तैर्हे भगवन्नस्मै विद्यां मा वोच इति प्रत्याख्यातेऽपि बलवत्तरकारणपुरःसरं वक्ष्यामीत्येवं खण्डिकस्य निश्चयकरणप्रदर्शनं, ततः खण्डिकः स्पृतिहोमाख्यं सप्रकारकं प्रायश्चित्तमुवाचेत्यभिधानं, विहिते प्रायश्चित्ते स्पृतिसंज्ञकानां पञ्चानां मन्त्राणां विनियोजनं, स्पृतीर्हुत्वाऽन्यामाजतेति वचनप्रदर्शनं चेत्यादि.