शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ४/ब्राह्मण १


१२.४.१

दीर्घसत्रं वा एत उपयंति। येऽग्निहोत्रं जुह्वति। एतद्वै जरामर्यं सत्रम्। यदग्निहोत्रम्। जरया वा ह्येवास्मान्मुच्यंते मृत्युना वा॥१२.४.१.१॥

तदाहुः – यदेतस्य दीर्घसत्रिणोऽग्निहोत्रं जुह्वतोऽन्तरेणाग्नी। युक्तं वा विवायात्। सं वा चरेयुः। किं तत्र कर्म। का प्रायश्चित्तिरिति। कुर्वीत हैव निष्कृतिम्। अपीष्ट्या यजेत। तदु तन्नाद्रियेत। इमान्वा एष लोकाननु वितनुते। योऽग्नी आधत्ते॥१२.४.१.२॥

तस्यायमेव लोको गार्हपत्यः। अन्तरिक्षलोकोऽन्वाहार्यपचनः। असौ लोक आहवनीयः। कामं न्वा एषु लोकेषु वयांसि युक्तं चा युक्तं च संचरन्ति। स यदि हास्याप्यंतरेण ग्रामोऽग्नीन् वियायात्। नैव मे काचनार्तिरस्ति। न रिष्टिः। इति हवै विद्यात्॥१२.४.१.३॥

त्रयो ह त्वाव पशवोऽमेध्याः – दुर्वराहः, ऐडकः, श्वा। तेषां यद्यधिश्रितेऽग्निहोत्रेऽन्तरेण कश्चित्संचरेत्, किं तत्र कर्म, का प्रायश्चित्तिरिति। तद्धैके – गार्हपत्याद्भस्मोपहत्याहवनीयान्निवपन्तो यन्ति। इदं विष्णुर्विचक्रमे इत्येतयर्चा। यज्ञो वै विष्णुः। तद्यज्ञेनैव यज्ञमनुसन्तन्मः। भस्मनाऽस्य पदमपि वपाम इति वदन्तः। तदु तथा न कुर्यात्। यो हैनं तत्र ब्रूयात्। आसां न्वा अयं यजमानस्यावाप्सीत्। क्षिप्रे परमा सा नावप्स्यते। ज्येष्ठगृह्यं रोत्स्यतीति। ईश्वरो ह तथैव स्यात्॥१२.४.१.४॥

इत्थमेव कुर्यात्। उदस्थालीं वैवोदकमण्डलुं वाऽऽदाय। गार्हपत्यादग्र आहवनीयान्निनयन्नियात्। इदं विष्णुर्विचक्रमे इत्येतयैवर्चा। यज्ञो वै विष्णुः। तद्यज्ञेनैव यज्ञमनुसंतनोति। यद्वै यज्ञस्य रिष्टम्। यदशान्तम्। आपो वै तस्य सर्वस्य शान्तिः। अद्भिरेवैनत्तच्छांत्या शमयति। एतदेव तत्र च कर्म॥१२.४.१.५॥

तदाहुः – यस्याग्निहोत्रं दोह्यमानं स्कन्देत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। स्कन्नप्रायश्चित्तेनाभिमृश्य। अद्भिरुपनिनीय परिशिष्टेन जुहुयात्। यद्यु नीची स्थाली स्यात्। यदि वा भिद्येत। स्कन्नप्रायश्चित्तेनैवाभिमृश्य अद्भिरुपनिनीय। यदन्यद्विंदेत् – तेन जुहुयात्॥१२.४.१.६॥

अथ यत्र स्कन्नं स्यात्। तदभिमृशेत् अस्कन्नधित प्राजनि इति। यदा वै स्कन्दति। अथ धीयते। यदा धीयते। अथ प्रजायते। योनिर्वा इयम्। रेतः पयः। तदस्यां योनौ रेतो दधाति। अनुष्ठ्या हास्य रेतः सिक्तं प्रजायते। य एवमेतद्वेद। अमुतो वै दिवो वर्षति। इहौषधयो वनस्पतयः प्रजायन्ते। पुरुषाद्रेतः स्कन्दति। पशुभ्यस्तत इदं सर्वं प्रजायते। तद्विद्यात्। भूयसी मे प्रजातिरभूत्। बहुः प्रजया पशुभिर्भविष्यामि। श्रेयान् भविष्यामीति॥१२.४.१.७॥

अथ यत्रावभिन्नं स्यात्। तदुदस्थालीं वै वा उदकमण्डलुं वा निनयेत्। यद्वै यज्ञस्य रिष्टम्। यदशान्तम्। आपो वै तस्य सर्वस्य शान्तिः। अद्भिरेवैनत्तच्छांत्या शमयति। भूर्भुवः स्वः इत्येताभिर्व्याहृतिभिः। एता वै व्याहृतयः सर्वप्रायश्चित्तीः। तदनेन सर्वेण प्रायश्चित्तिं कुरुते। तानि कपालानि संचित्य। यत्र भस्मोदधृतं स्यात्। तन्निवपेत्। एतदेव तत्र कर्म॥१२.४.१.८॥

तदाहुः – यस्याग्निहोत्री दोह्यमानोपविशेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। तां हैके यजुषोत्थापयन्ति। उदस्थाद्देव्यदितिः इति। इयं वा अदितिः। इमामेवास्मा एतदुत्थापयाम इति वदन्तः। आयुर्यज्ञपतावधात् इति। आयुरेवास्मिंस्तद्दध्म इति वदन्तः। इन्द्राय कृण्वती भागम् इति। इन्द्रियमेवास्मिंस्तद्दध्म इति वदन्तः। मित्राय वरुणाय च इति। प्राणोदानौ वै मित्रावरुणौ। प्राणोदानावेवास्मिंस्तद्दध्म इति वदन्तः। तां तस्यामाहुत्यां ब्राह्मणाय दद्यात्, यमनभ्यागमिष्यन्मन्येत। आर्तिं वा एषा पाप्मानं यजमानस्य प्रतिदृश्योपाविक्षत्। आर्तिमेवास्मिंस्तत्पाप्मानं प्रतिमुंचाम इति वदन्तः॥१२.४.१.९॥

तदु होवाच याज्ञवल्क्यः। अश्रद्दधानेभ्यो हैभ्यो गौरपक्रामति। आर्त्यो वा आहुतिं विध्यन्ति। इत्थमेव कुर्यात्। दण्डेनैवैनां विपिष्योत्थापयेदिति। तद्यथैवादः धावयतोऽश्वो वाऽश्वतरो वा गदायेत। बलीवर्दो वा युक्तः। तेन दण्डप्रजितेन तोत्त्रप्रजितेन यमध्वानं समीप्सति तं समश्नुते। एवमेवैतया दण्डप्रजितया तोत्त्रप्रजितया यं स्वर्गं लोकं समीप्सति तं समश्नुते॥१२.४.१.१०॥

अथ होवाचारुणिः। द्यौर्वा एतस्याग्निहोत्रस्याग्निहोत्री। अयमेव वत्सः। योऽयं पवते। इयमेवाग्निहोत्रस्थाली। न वा एवं विदुषोऽग्निहोत्री नश्यति। क्व ह्यसौ नश्येत्। नैवं विदुषोऽग्निहोत्री। वत्सो नश्यति। क्व ह्येष नश्येत्। नैवं विदुषोऽग्निहोत्रस्थाली भिद्यते। क्व हीयं भिद्येत। श्रियो वै पर्जन्यो वर्षति। तद्विद्यात्। श्रेमाणं मे महिमानमधारयमाणोपाविक्षत्। श्रेयान् भविष्यामीति। तामात्मन्येव कुर्वीत। आत्मन्येव तच्छ्रियं धत्ते। इति ह स्माहारुणिः। एतदेव तत्र कर्म॥१२.४.१.११॥

तदाहुः यस्याग्निहोत्री दोह्यमाना वाश्येत। किं तत्र कर्म। का प्रायश्चित्तिरिति। स्तंबमाच्छिद्य ग्रासयेत्। एतदेव तत्र कर्म॥१२.४.१.१२॥