शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ४/ब्राह्मण २


१२.४.२.

तदाहुः – यस्याग्निहोत्री लोहितं दुहीत। किं तत्र कर्म। का प्रायश्चित्तिरिति। व्युत्क्रामतेत्युक्त्वा मेक्षणं कृत्वा। अन्वाहार्यपचनं परिश्रयितवै ब्रूयात्। तस्मिन्नेतच्छ्रपयित्वा। तस्मिंस्तूष्णीं जुहुयात्। अनिरुक्तो वै प्रजापतिः। प्राजापत्यमग्निहोत्रम्। सर्वं वा अनिरुक्तम्। तदनेन सर्वेण प्रायश्चित्तिं कुरुते। तां तस्यामाहुत्यां ब्राह्मणाय दद्यात् यमनभ्यागमिष्यन्मन्येत। आर्तिं वा एषा पाप्मानं यजमानस्य प्रतिदृश्य दुहे। या लोहितं दुहे। आर्तिमेवास्मिंस्तत्पाप्मानं प्रतिमुञ्चति। अथ यदन्यद्विंदेत। तेन जुहुयात्। अनार्तेनैव तदार्तं यज्ञस्य निषकरोति। एतदेव तत्र कर्म॥१२.४.२.१॥

तदाहुः – यस्याग्निहोत्रं दोह्यमानममेध्यमापद्येत। किं तत्र कर्म। का प्रायश्चित्तिरिति। तद्धैके होतव्यं मन्यन्ते। प्रयतमेतत्। नैतस्या होमोऽवकल्पते। न वै देवाः कस्माच्चन बीभत्सन्ते। बीभत्संता ३ इ तु देवाः। इत्थमेव कुर्यात्। गार्हपत्यादुष्णं भस्म निरुह्य। तस्मिन्नेनदुष्णे भस्मंस्तूष्णीं निनयेत्। अद्भिरुपनिनयति। अद्भिरेनदाप्नोति। अथ यदन्यद्विंदेत्। तेन जुहुयात्। एतदेव तत्र कर्म॥१२.४.२.२॥

तदाहुः – यस्याग्निहोत्रं दोहितममेध्यमापद्येत। किं तत्र कर्म। का प्रायश्चित्तिरिति। य एवैतदेऽङ्गारा निरूढा। येष्वधिश्रयिष्यन् भवति। तान्प्रत्युह्य तस्मिन्नेनदुष्णे भस्मंस्तूष्णीं नियेत्। अद्भिरुपनिनयति। अद्भिरेनदाप्नोति। अथ यदन्यद्विंदेत्। तेन जुहुयात्। एतदेव तत्र कर्म॥१२.४.२.३॥

तदाहुः – यस्याग्निहोत्रमधिश्रितममेध्यमापद्येत। किं तत्र कर्म। का प्रायश्चित्तिरिति। य एवैतेऽङ्गारा निरूढा। येष्वधिश्रितं भवति। तेष्वेनत्तूष्णीं जुहुयात्। तद्धुतमहुतम्। यदहैनत्तेषु जुहोति। तेन हुतम्। यद्वेनांस्तेनैवाआनुगमयति। तेनाहुतम्। अद्भिरुपनिनयति। अद्भिरेनदाप्नोति। अथ यदन्यद्विन्देत्। तेन जुहुयात्। एतदेव तत्र कर्म॥१२.४.२.४॥

तदाहुः - यदधिश्रितेऽग्निहोत्रे यजमानो म्रियेत। किं तत्र कर्म। का प्रायश्चित्तिरिति। तदेवैनदभिपर्याधाय विष्यंदयेत्। अथो खल्वाहुः – एतावती सर्वस्य हविर्यस्य प्रायश्चित्तिरिति। एतदेव तत्र कर्म॥१२.४.२.५॥

तदाहुः – यस्याग्निहोत्रं स्रुच्युन्नीतं स्कन्देत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। स्कन्नप्रायश्चित्तेनाभिमृश्य अद्भिरुनिनीय परिशिष्टेन जुहुयात्। यद्यु नीची स्रुक् स्यात्। यदि वा भिद्येत। स्कन्नप्रायश्चित्तेनैवाभिमृश्य अद्भिरुनिनीय यत्स्थाल्यां परिशिष्टं स्यात्। तेन जुहुयात्॥१२.४.२.६॥

तद्धैके प्रतिपरेत्य यत् स्थाल्यां परिशिष्टं भवति तेन जुह्वति। तदु तथा न कुर्यात्। स्वर्ग्यं वा एतत्। यदग्निहोत्रम्। यो हैनं तत्र ब्रूयात्। प्रति न्वा अयं स्वर्गाल्लोकादवारुक्षत्। नास्येदं स्वर्ग्यमिव भविष्यतीति। ईश्वरो ह तथैव स्यात्॥१२.४.२.७॥

इत्थमेव कुर्यात्। तदेवोपविशेत्। यत् स्थाल्यां परिशिष्टं स्यात्। तस्मा उन्नीयाहरेयुः। तद्धैक उपवल्हन्ते। हुतोच्छिष्टं वा एतत्। यातयाम वा एतत्। नैतस्य होतव्यमिति। तदु तन्नाद्रियेत। यदा वा एतदयातयाम। अथैनद्धविरातंचनं कुर्वते. तस्माद्यत्स्थाल्यां परिशिष्टं स्यात्। तदस्मा उन्नीयाहरेयुः। यद्यु तत्र न स्यात्। यदन्यत् विंदेत्। तदग्नावधिश्रित्यावज्योत्यापः प्रत्यानीयोद्वास्य। तददो हैवोन्नेष्यामीत्युक्तं भभवति। अथात्र यथोन्नीतमेवास्मा उन्नीयाहरेयुः। तेन कामं जुहुयात्। एतदेव तत्र कर्म॥१२.४.२.८॥

तदाहुः – यस्याग्निहोत्रं स्रुच्युन्नीतममेध्यमापद्येत। किं तत्र कर्म। का प्रायश्चित्तिरिति। तद्धैके होतव्यं मन्यंते. प्रयतमेतत्। नैतस्या होमोऽवकल्पते। न वै देवाः कस्माच्चन बीभत्संत इति। तद्धैक उत्सिच्य च्छर्दयन्ति। तदु तथा न कुर्यात्। यो हैनं तत्र ब्रूयात्। परासिचत न्वा अयमग्निहोत्रम्। क्षिप्रेऽयं यजमानः परासेक्ष्यत इति। ईस्वरो ह तथैव स्यात्। इत्थमेव कुर्यात् आहवनीये समिधमभ्याधाय आहवनीयादेवोष्णं भस्म निरुह्य तस्मिन्नेनदुष्णे भस्मंस्तूष्णीं निनयेत्। अद्भिरुनिनयति। अद्भिरेनदाप्नोति। अथ यदन्यत् विंदेत्, तेन जुहुयात्। एतदेव तत्र कर्म॥१२.४.२.९॥

तदाहुः – यस्याग्निहोत्रं स्रुच्युन्नीतमुपरिष्टादववर्षेत्। किं तत्र कर्म। का प्रायश्चित्तिरिति। तद्विद्यात्। उपरिष्टान्मा शुक्रमागन्नुप मां देवाः प्राभूवन् श्रेयान् भविष्यामि इति। तेन कामं जुहुयात्। एतदेव तत्र कर्म॥१२.४.२.१०॥