शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ५/ब्राह्मण १



१२.५.१

तदाहुः – यदेव दीर्घसत्त्र्यग्निहोत्रं जुह्वत् प्रवसन् म्रियेत। जहुयुरस्मा ३ इ। ना ३ इति। तद्धैके होतव्यं मन्यन्ते। आगन्तोरिति। तदु तथा न कुर्यात्। अतस्थानो वा एष तस्मै। यदेनं शवदह्याया इव जुहुयुः। यज्ञाय वा एष आहुतिभ्यस्तस्थानः। स हैनममृष्यमाणस्तृप्रं सचते॥१२.५.१.१॥

अथ हैक आहुः। एवमेवान्वाहिता अहूयमाननाः शयीरन्निति। तदु तथा न कुर्यात्। अतस्थानो वा एष तस्मै। यदेनं शवदह्याया इवेन्धीरन्। यज्ञाय वा एष आहुतिभ्यस्तस्थानः। स हैनममृष्यमाणस्तृप्रं सचते॥१२.५.१.२॥

अथ हैके। अरण्योरग्नी समारोह्य निदधति तम्। आहृते निर्मन्थन्ति। तदु तथा न कुर्यात्। अतस्थानो वा एष तस्मै। यदेनं शवदह्याया इव निर्मन्येयुः। यज्ञाय वा एष आहुतिभ्यस्तस्थानः। सहैनममृष्यमाणस्तृप्रं सचते॥१२.५.१.३॥

इत्थमेव कुर्यात्। निवान्यवत्सामेष्टवै ब्रूयात्। तस्यै पयसा जुहुयात्। आर्तं वा एतत्पयः। यन्निवान्यवत्सायाः। आर्तमेतदग्निहोत्रम्। यन्मृतस्य तत्। आर्तेनैव तदार्त्तं निष्कृत्य श्रेयान् भवति॥१२.५.१.४॥

तदपि उपमाऽस्ति। यत् द्वौ रथौ मृदितौ समागच्छेताम्। स्यादेवान्यतरः स्यदयिति॥१२.५.१.५॥

तस्य वा एतस्याग्निहोत्रस्योपचारः। प्राचीनावीती दोहयति। यज्ञोपवीती वै देवेभ्यो दोहयति। अथैवं पितृणाम्॥१२.५.१.६॥

नांगारेष्वधिश्रयति। यद्धांगारेष्वधिश्रयेत्। देवत्रा कुर्यात्। गार्हपत्यादुष्णं भस्म दक्षिणा निरुह्य। तस्मिन्नेनदधिश्रयति। पितृदेवत्यमेवैनत् तत्करोति॥१२.५.१.७॥

नावज्योतयति। नापः प्रत्यानयति। यद्धावज्योतयेत्, यदपः प्रत्यानयेत्। देवत्रा कुर्यात्। न त्रिः प्रतिष्ठापं हरति। यत् त्रिः प्रतिष्ठापं हरेत्। देवत्रा कुर्यात्। सकृदेव निकर्षन् हरति। पितृदेवत्यमेवैनत् तत्करोति॥१२.५.१.८॥

नोन्नेष्यामीत्याह। न चतुरुन्नयति। यद्धोन्नेष्यामीति ब्रूयात्। यच्चतुरुन्नयेत्। देवत्रा कुर्यात्। सकृदेव तूष्णीं न्यक् पर्यस्यति। पितृदेवत्यमेवैनत् तत्करोति॥१२.५.१.९॥

नोपरिष्टात् समिधमभ्यस्य हरति। यद्धोपरिष्टात् समिधमभ्यस्य हरेत्। देवत्रा कुर्यात्। अधस्तादुपास्य हरति। पितृदेवत्यमेवैनत् तत्करोति॥१२.५.१.१०॥

नोत्तरेण गार्हपत्यमेति। यद्धोत्तरेण गार्हपत्यमियात्। देवत्रा कुर्यात्। दक्षिणेन गार्हपत्यमेति। पितृदेवत्यमेवैनत् तत्करोति॥१२.५.१.११॥

अथ यान्यमून्युदीचीनाग्राणि तृणाणि भवन्ति दक्षिणाग्राणि तानि करोति। पितृदेवत्यमेवैनत् तत्करोति। नोदिंगयति। नोपमृष्टेन प्राश्नाति। नोदुक्षति। पितृदेवत्यमेवैनत् तत्करोति॥१२.५.१.१२॥

तदाहुः – यदेष दीर्घसत्र्यग्निहोत्रं जुह्वत् प्रवसन् म्रियेत। कथमेनमग्निभिःकुर्युरिति। तं हैकेऽदग्ध्वाऽऽ हरन्ति। तमाहृतमग्निभिः संघ्रापयन्ति। तदु तथा न कुर्यात्। यथाऽन्यस्यां योनौ रेतः सिक्तम्। तदन्यस्यां प्रजिजनयिषेत्। तादृक्तत्। अस्थीन्येतान्याहृत्य। कृष्णाजिने न्युप्य। पुरुषविधिं विधाय। ऊर्णाभिः प्रच्छाद्य। आज्येनाभिघार्य। तमग्निभिः समुपोषेत्। तदेनं स्वाद्योनेः प्रजनयतीति॥१२.५.१.१३॥

तं हैके – ग्रामाग्निना दहन्ति। तदु तथा न कुर्यात्। एष वै विश्वात् क्रव्यादग्निः। स हैनमीश्वरः सपुत्रं सपशुं समत्तोः॥१२.५.१.१४॥

अथ हैके – प्रदव्येन दहन्ति। तदु तथा न कुर्यात्। एष वा अशान्तोऽग्निः। स हैनमीश्वरः सपुत्रं सपशुं प्रदग्धोः॥१२.५.१.१५॥

अथ हैके – उल्मुक्येन दहन्ति। तदु तथा न कुर्यात्। एष वै रुद्रियोऽग्निः। स हैनमीश्वरः सपुत्रं सपशुमभिमन्तोः॥१२.५.१.१६॥

अथ हैके – अन्तरेणाग्नींश्चितिं चित्वा तमग्निभिः समुपोषन्ति। एतद्वै यजमानस्यायतनम्। यदन्तरेणाग्नीनिति। तदु तथा न कुर्यात्। यो हैनं तत्र ब्रूयात्। मध्ये न्वा अयं ग्रामस्याशसनमजीजनत। क्षिप्रेऽस्याशसनं जनिष्यते। प्रियतमं रोत्स्यतीति। ईश्वरो ह तथैव स्यात्॥१२.५.१.१७॥

इति द्वितीयप्रपाठके सप्तमं ब्राह्मणम्॥