१२.५.२.

अथ ह स्माह नाको मौद्गल्यः॥ मरिष्यंतं चेद्यजमानं मन्येत। यत्रैवास्मा आशसनं जोषितं स्यात्। तदरण्योरग्नी समारोह्य निर्मथ्य जुह्वद्वसेत्। स यदाऽस्माल्लोकाद्यजमानः प्रेयात्॥१२.५.२.१॥

अथैनमन्तरेणाग्नींश्चितिं चित्वा। तमग्निभिः समुपोषेदिति। तदु तथा न कुर्यात् अतस्थानो वा एष तस्मै। यदेनं शवदह्याया इव जुहुयुः। यज्ञाय वा एषः। आहुतिभ्यस्तस्थान स हैनममृष्यमाणस्तृप्रं सचते॥१२.५.२.२॥

इत्थमेव कुर्यात्। तिस्र एव स्थालीरेष्टवै ब्रूयात्। तासु गोमयानि च शुंबलानि चावधाय। नाना त्रिष्वग्निषु प्रवृंज्यात्। ते ये ततः सन्तापादग्नयो जायेरन्। तैरेनं दहेयुः। तथो ह तैरेव दग्धो भवति। नो प्रत्यक्षमिव॥१२.५.२.३॥

तस्मादपि एतत् ऋषिणाऽभ्यनूक्तम् – यो अग्निरग्रेरध्यजायत शोकात्पृथिव्या उत वा दिवस्परि। येन प्रजा विश्वकर्मा जजान तमग्ने हेडः परि ते वृणक्तु इति। यथा ऋक् तथा ब्राह्मणम्॥१२.५.२.४॥

अथैनं विपुरीषं कृत्वा। अस्यां पुरीषं प्रतिष्ठापयति। पुरीषं वा इयम्। तत्पुरीष एवैतत्पुरीषं दधाति। या ह वा अस्यैषा वृकला सपुरीषा। तस्यै ह विदग्धायै सृगालः संभवति। नेत् सृगालः संभवदिति। तदु तथा न कुर्यात्। क्षोधुका हास्य प्रजा भवति। तमंतरतः प्रक्षाल्य, आज्येनान्वनक्ति। मेध्यमेवैनं तत्करोति॥१२.५.२.५॥

अथास्य सप्तसु प्राणायतनेषु सप्त हिरण्यशकलान् प्रास्यति। ज्योतिर्वा अमृतं हिरण्यम्। ज्योतिरेवास्मिंस्तदमृतं दधाति॥१२.५.२.६॥

यज्ञपात्राः
ध्रुवा
स्रुवा
अग्निहोत्रहवणी

अथैनमंतरेणाग्नीन् चितिं चित्वा। कृष्णाजिनमुत्तरलोम प्राचीनग्रीवं प्रस्तीर्य। तस्मिन्नेनमुत्तानं निपाद्य। जुहूं घृतेन पूर्णां दक्षिणे पाणावादधाति। सव्य उपभृतम्। उरसि ध्रुवाम्। मुखेऽग्निहोत्रहवणीम्। नासिकयोः स्रुवौ। कर्णयोः प्राशित्रहरणे। शीर्षंश्चमसं प्रणीताप्रणयनम्। पार्श्वयोः शूर्पे। उदरे पात्रीं समवत्तधानीं पृषदाज्यवतीम्। शिश्नस्यांते शम्याम्। आंडयोरंते वृषास्वौ। अन्वगुलूखलं च मुसलं च। अंतरेणोरू अन्यानि यज्ञपात्राणि। दक्षिणे पाणौ स्फ्यम्॥१२.५.२.७॥

स एष यज्ञायुधी यजमानः यथा बिभ्यदामोषमतीयात्। एवमेव योऽस्य स्वर्गे लोको जितो भवति। तमभ्यत्येति। तमेते संताप्या अग्नयो यथा पुत्राः पितरं प्रोषुषमागतं शिवमुपस्पृशंति। एवं शिवं हैवैनमुपस्पृशंति। प्र हैवैनं कल्पयंति॥१२.५.२.८॥

तं यदि गार्हपत्यः पूर्वः प्राप्नुयात्। तद्विद्यात्। प्रतिष्ठ एनमग्निः पूर्वः प्रापत्। प्रतिष्ठास्यति। प्रत्येव तेऽस्मिन् लोके स्थास्यंति। येऽस्मात्प्रत्यंच इति॥१२.५.२.९॥

अथ यद्याहवनीयः। तद्विद्यात्। मुख्य एनमग्निः पूर्वः प्रापत्। मुखतो लोकानजैषीत्। मुखमेव तेऽस्मिन् लोके भविष्यंति। येऽस्मात्प्रत्यंच इति॥१२.५.२.१०॥

अथ यद्यन्वाहार्यपचनः। तद्विद्यात्। अन्नाद एनमग्निः पूर्वः प्रापत्। अन्नमत्स्यति। अन्नमेव तेऽस्मिन् लोकेऽत्स्यन्ति। येऽस्मात्प्रत्यंच इति॥१२.५.२.११॥

अथ यदि सर्वे सकृत्। तद्विद्यात्। कल्याणं लोकमजैषीदिति। एतान्यस्मिन् विज्ञानानि॥१२.५.२.१२॥

तां वा एतां यजमानात्माहुतिमंततो जुहोति। स योऽस्य स्वर्गे लोको जितो भवति। तत आहुतिमयोऽमृतः संभवति॥१२.५.२.१३॥

अथ यान्यश्ममयानि च मृन्मयानि च भवन्ति। तानि ब्राह्मणाय दद्यात्। शवोद्वहमु ह तं मन्यन्ते। यस्तानि प्रतिगृह्णाति। अप एवैनान्यभ्यवहरेयुः। आपो वा अस्य सर्वस्य प्रतिष्ठा। तदेनमप्स्वेव प्रतिष्ठापयति॥१२.५.२.१४॥

अथैतामाहुतिं जुहोति। पुत्रो वा भ्राता वा यो वाऽन्यो ब्राह्मणः स्यात् – अस्मात्त्वमधि जातोऽसि त्वदयं जायतां पुनः। असौ स्वर्गाय लोकाय स्वाहा इति। अनपेक्षमेत्य अप उपस्पृशंति॥१२.५.२.१५॥

इति द्वितीयप्रपाठकेऽष्टमं ब्राह्मणम्॥