शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ६

ब्राह्मण १ ज्यौतिष्टोमिकानि प्रायश्चित्तानि

१-ज्यौतिष्टोमिकानि प्रायश्चित्तानि -- तत्र प्रथमम् अधिदैवतया सोमसाधनकयज्ञस्य प्रजापत्यात्मकत्वाभिधानं, तस्य यज्ञस्य वक्ष्यमाणाः परमेष्ठ्यादयो देवता आहुतयश्च प्रायश्चित्तीयानि शरीराणीत्यभिधानं, यदि सोमयज्ञस्य किञ्चिदङ्गं विनश्येत्तदा तस्य पुनः सन्धानार्थं तस्मिन्नङ्गे यां देवतां परमेष्ठ्यादिकामभिमन्येत तस्यै देवताया आज्याहुतिं जुहुयादिति सामान्यतयाऽभिधानं, तचाङ्गं यदि दीक्षायामुपसत्सु वा प्रायणीयादूर्ध्वं सुत्यायाः प्राक्च विनष्टं भवेत्तदाऽऽहवनीये जुहुयाद्यदि तु सुत्यायां विनष्टं भवेत्तदाऽऽग्नीध्ेा जुहुयादित्यभिधानम्, एतस्मिन्सोमयागेऽभिध्यानादितत्तन्निमित्तेषु परमेष्ठ्यादिसलिलान्तानां व्याहृतिसंज्ञकानां प्रायश्चित्तार्थानां चतुस्त्रिंशतामाज्यद्रव्यकाणां कालाहुतीनां मध्ये तां तामाहुतिं यथाकालं जुहुयादिति विशेषतया सार्थवादमभिधानं, ता एताः प्रायश्चित्तरूपाः कालाहुतीर्ब्रह्मैव जुहुयात्तदभावे यः कश्चनान्य ऋत्विक् स्यात्स जुहुयादिति सकारणमभिधानम्, एतासां परमेष्ठ्यादिव्याहृतीनामुत्पत्तिः एताश्च व्याहृतीः पूर्वं वसिष्ठा एव विदुरतस्तद्वेदिता वासिष्ठ एव ब्रह्मा कर्तव्योऽथवा यः कश्चनैता व्याहृतीरधीते जानाति वा स ब्रह्मा कर्तव्यः - तथैताः सौमिक्यः प्रायश्चित्तयश्चोदकात्संवत्सरसत्रादिष्वतिदिष्टा भवन्ति - इत्याद्यर्थजातस्य सेतिहासं सार्थवादं सोपपत्तिकमभिधानं चेति.