शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ७/ब्राह्मण १

१२.७.१

अथ सौत्रामणी यागः।

विश्वरूपं वै त्वाष्ट्रमिन्द्रोऽहन्। तं त्वष्टा हतपुत्रोऽभ्यचरत्। सोऽभिचरणीयमपेन्द्रं सोममाहरत्। तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोममपिबत्। स विष्वङ्व्यार्च्छत्। तस्येन्द्रियं वीर्यमङ्गादङ्गादस्रवत्॥१२.७.१.१॥

तस्याक्षिभ्यामेव तेजोऽस्रवत्, सोऽजः पशुरभवद्धूम्रः। अथ यत्पक्ष्मभ्यस्ते गोधूमाः। यदश्रुभ्यस्तत्कुवलम्॥१२.७.१.२॥

नासिकाभ्यामेवास्य वीर्यमस्रवत्, सोऽविः पशुरभवन्मेषः। अथ यत् श्लेष्मणस्ता उपवाकाः। यत् स्नीहा तद्बदरम्॥१२.७.१.३॥

मुखादेवास्य बलमस्रवत्, स गौः पशुरभवदृषभः। अथ ये फेनास्ते यवाः। यत् स्नेहः तत्कर्कन्धु॥१२.७.१.४॥

श्रोत्रादेवास्य यशोऽस्रवत्, तदेकशफमभवत्, अश्वोऽश्वतरो गर्द्दभः॥१२.७.१.५॥

स्तनाभ्यामेवास्य शुक्रमस्रवत्, तत्पयोऽभवत्, पशूनां ज्योतिः। उरस एवास्य हृदयात्त्विषिरस्रवत्, स श्येनोऽपाष्ठिहाऽभवत्, वयसां राजा॥१२.७.१.६॥

नाभ्या एवास्य शूषोऽस्रवत्, तत्सीसमभवत्, नायः, न हिरण्यम्। रेतस एवास्य रूपमस्रवत्, तत् सुवर्णं हिरण्यमभवत्। शिश्नादेवास्य रसोऽस्रवत्, सा परिस्रुदभवत्। स्फिगीभ्यामेवास्य भामोऽस्रवत्, सा सुराऽभवत्, अन्नस्य रसः॥१२.७.१.७॥

मूत्रादेवास्यौजोऽस्रवत्, स वृकोऽभवत्, आरण्यानां पशूनां जूतिः। ऊवध्यादेवास्य मन्युरस्रवत्, स व्याघ्रोऽभवत्, आरण्यानां पशूनां राजा। लोहितादेवास्य सहोऽस्रवत्, स सिंहोऽभवत्, आरण्यानां पशूनामीशः॥१२.७.१.८॥

लोमभ्य एवास्य चित्तमस्रवत्, ते श्यामाका अभवन्। त्वच एवास्यापचितिरस्रवत्, सो ऽश्वत्थो वनस्पतिरभवत्। मांसेभ्य एवास्योर्गस्रवत्, स उदुंबरोऽभवत्। अस्थिभ्य एवास्य स्वधाऽस्रवत्, स न्यग्रोधोऽभवत्। मज्जभ्य एवास्य भक्षः सोमपीथोऽस्रवत्, ते व्रीहयोऽभवन्। एवमस्येन्द्रियाणि वीर्याणि व्युदक्रामन्॥१२.७.१.९॥

अथ ह वै तर्हि नमुचिनैवासुरेण सह चचार। स ऐक्षत नमुचिः, अपुनर्वा अयमभूत्। हंत अस्येन्द्रियं वीर्यं सोमपीथमन्नाद्यं हराणीति। तस्यैतयैव सुरयेन्द्रियं वीर्यं सोमपीथमन्नाद्यमहरत्। स ह न्यर्णः शिश्ये। तं देवा उपसंजग्मिरे। श्रेष्ठो वै नोऽयमभूत्। तमिमं पाप्माऽविदत्। हन्त इमं भिषज्यामेति॥१२.७.१.१०॥

तेऽश्विनावब्रुवन्। युवं वै ब्रह्माणौ भिषजौ स्थः। युवमिमं भिषज्यतमिति। तावब्रूताम्। अस्तु नौ भाग इति। तेऽब्रुवन्। य एषोऽजः, स वां भाग इति। तथेति। तस्मादाश्विनो धूम्रो भवति॥१२.७.१.११॥

ते सरस्वतीमब्रुवन्। त्वं वै भैषज्यमसि। त्वमिमं भिषज्येति। साऽब्रवीत्। अस्तु मे भाग इति। तेऽब्रुवन्। य एषोऽविः, स ते भाग इति। तथेति। तस्मात्सारस्वतो मेषो भवति॥१२.७.१.१२॥

अथाब्रुवन्। एतावद्वा अस्मिन् एतर्हि। यावत् अयमृषभः। अस्यैवायमस्त्विति। तथेति। तस्मादैन्द्र ऋषभो भवति॥१२.७.१.१३॥

तावश्विनौ च सरस्वती च इंद्रियं वीर्यं नमुचेराहृत्य तदस्मिन्पुनरदधुः। तं पाप्मनोऽत्रायंत। सुत्रातं बतैनं पाप्मनोऽत्रास्महीति। तद्वाव सौत्रामण्यभवत्। तत्सौत्रामण्यै सौत्रामणीत्वम्। त्रायते मृत्योरात्मानम्। अप पाप्मानं हते। य एवमेतत्सौत्रामण्यै सौत्रामणीत्वं वेद। त्रयस्त्रिंशद्दक्षिणा भवंति। त्रयस्त्रिंशद्धि तं देवता अभिषज्यन्। तस्मादाहुः। भेषजं दक्षिणा इति॥१२.७.१.१४॥
इति तृतीयप्रपाठके द्वितीयं ब्राह्मणम्॥