शतपथब्राह्मणम्/काण्डम् १२/अध्यायः ७/ब्राह्मण ३

१२.७.३

इन्द्रस्येन्द्रियम् अन्नस्य रसम्, सोमस्य भक्षं सुरयाऽऽसुरो नमुचिरहरत्। सोऽश्विनौ च सरस्वतीं चोपाधावत्। शेपानोऽस्मि नमुचये। न त्वा दिवा न नक्तं हनानि। न दंडेन। न धन्वना। न पृथेन। न मुष्टिना। न शुष्केण। नार्द्रेण। अथ म इदमहार्षीत्। इदं म आजिहीर्षयेति॥१२.७.३.१॥

ते अब्रुवन्। अस्तु नोऽत्रापि। अथाहरामेति। सह न एतत् अथाहरतेत्यब्रवीदिति॥१२.७.३.२॥

तावश्विनौ च सरस्वती च अपां फेनं वज्रमसिञ्चन्। न शुष्को नार्द्र इति। तेनेंद्रो नमुचेरासुरस्य व्युष्टायां रात्रौ, अनुदित आदित्ये, न दिवा न नक्तमिति शिर उदवासयत्॥१२.७.३.३॥

तस्मादेतदृषिणाऽभ्यनूक्तम्। अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः। विश्वा यदजयः स्पृधः इति। पाप्मा वै नमुचिः। पाप्मानं वाव तद्द्विषंतं भ्रातृव्यं हत्वा, इन्द्रियं वीर्यमस्यावृंक्त। स यो भ्रातृव्यवान् स्यात्। स सौत्रामण्या यजेत। पाप्मानमेव तद्द्विषंतं भ्रातृव्यं हत्वा, इन्द्रियं वीर्यमस्य वृंक्ते। तस्य शीर्षंश्छिन्ने लोहितमिश्रः सोमोऽतिष्ठत्। तस्मादबीभत्संत। त एतदन्धसो विपानमश्यन्। सोमो राजाऽमृतं सुतः इति। तेनैनं स्वदयित्वाऽऽत्मन्नदधत॥१२.७.३.४॥

[]स्वाद्वीं त्वा स्वादुना इति सुरां सन्दधाति। स्वदयत्येवैनाम्। तीव्रां तीव्रेण इति। इन्द्रियमेवास्मिन् दधाति। अमृताममृतेन इति। आयुरेवास्मिन् दधाति। मधुमतीं मधुमता इति। रसमेवास्यां दधाति। सृजामि सं सोमेन इति। सोमरूपमेवैनां करोति॥१२.७.३.५॥

सोमोऽस्यश्विभ्यां पच्यस्व, सरस्वत्यै पच्यस्व, इन्द्राय सुत्राम्णे पच्यस्व इति। एता वा एतं देवता अग्रे यज्ञं समभरन्। ताभिरेवैनं संभरति। अथो एता एवैतद्देवता भागधेयेन समर्द्धयति। आसुनोति सुत्यायै। तिस्रो रात्रीर्वसति। तिस्रो हि रात्रीः सोमः क्रीतो वसति। सोमरूपमेवैनां करोति॥१२.७.३.६॥

द्वे वेदी भवतः। द्वौ वाव लोकावित्याहुः। देवलोकश्चैव पितृलोकश्चेति। उत्तराऽन्या भवति। दक्षिणाऽन्या। उत्तरो वै देवलोकः। दक्षिणः पितृलोकः। उत्तरयैव देवलोकमरुन्धे। दक्षिणया पितृलोकम्॥१२.७.३.७॥
पयश्च सुरा च भवतः। सोमो वै पयः। अन्नं सुरा। पयसैव सोमपीथमवरुन्धे। सुरयाऽन्नाद्यम्। क्षत्त्रं वै पयः। विट् सुरा। सुरां पूत्वा पयः पुनाति। विश एव तत् क्षत्त्रं जनयति। विशो हि क्षत्त्रं जायते॥१२.७.३.८॥

वायोः पूतः पवित्रेण प्रत्यङ्क्सोमो अतिद्रुतः इति। सोमातिपूतस्य पुनाति। यथारूपमेवैनं पुनाति। इन्द्रस्य युज्यः सखा इति। यदेवास्य तेनेन्द्रियं वीर्यमतिक्रान्तं भवति। तदस्मिन् पुनर्दधाति॥१२.७.३.९॥

वायोः पूतः पवित्रेण प्राङ्क्सोमो अतिद्रुतः इति सोमवामिनः पुनाति। यथारूपमेवैनं पुनाति। इन्द्रस्य युज्यः सखा इति। यदेवास्य तेनेन्द्रियं वीर्यमतिक्रान्तं भवति। तदस्मिन्पुनर्दधाति॥१२.७.३.१०॥

पुनाति ते परिस्रुतम् इति समृद्धिकामस्य पुनाति। समृद्ध्यै। सोमं सूर्यस्य दुहिता इति। श्रद्धा वै सूर्यस्य दुहिता। श्रद्धयैष सोमो भवति। श्रद्धयैवैनंसोमं करोति। वारेण शश्वता तना इति। वालेन ह्येषा पूयते॥१२.७.३.११॥

ब्रह्म क्षत्त्रं पवते इति पयः पुनाति। ब्रह्मण एव तत्क्षत्रं जनयति। ब्रह्मणो हि क्षत्त्रं जायते। तेज इन्द्रियम् इति तेज एवास्मिन्निन्द्रियं वीर्यं दधाति। सुरया सोमः इति। सुरया हि सोमः। सुत आसुतः इति। आसुताद्धि सूयते। मदाय इति। मदाय वाव सोमः। मदाय सुरा। उभावेव सोममदं च सुरामदं चावरुन्धे। शुक्रेण देव देवताः पिपृग्धि इति। शुक्रेण देव देवताः प्रीणीहीत्येवैतदाह। रसेनान्नं यजमानाय धेहि इति। रसमेवान्नं यजमाने दधाति। पूर्वे पयोग्रहा गृह्यन्ते। परे सुराग्रहाः। विशं तत्क्षत्त्रस्यानुवर्त्मानं करोति॥१२.७.३.१२॥

कुविदंग यवमन्तो यवं चित् इति पयोग्रहान् गृह्णाति। सोमांशवो वै यवाः। सोमः पयः। सोमेनैवैनं सोमं करोति। एकया गृह्णाति। एकधैव यजमाने श्रियं दधाति। श्रीर्हि पयः॥१२.७.३.१३॥

नाना हि वां देवहितं सदस्कृतम् इति सुराग्रहान् गृह्णाति। नाना हि सोमश्च सुरा च। देवहितमिति। देवहिते ह्येते। नाना सदस्कृतमिति। द्वे हि वेदी भवतः। मा संसृक्षाथां परमे व्योमन् इति। पाप्मनैवैनं व्यावर्तयति। सुरा त्वमसि शुष्मिणी इति। सुरामेव सुरां करोति। सोम एषः इति। सोममेव सोमं करोति। मा मा हिंसीः स्वां योनिमाविशन्ती इति। यथायोन्येवैनां व्यावर्तयति। आत्मनोऽहिंसायै। एकया गृह्णाति। एकधैव यजमाने यशो दधाति। यशो हि सुरा॥१२.७.३.१४॥

क्षत्त्रं वै पयोग्रहाः। विट् सुराग्रहाः। यदव्यतिषक्तान् गृह्णीयात्। विशं क्षत्त्रात् व्यवच्छिन्द्यात्। क्षत्त्रं विशः पापवस्यसं कुर्यात्। यज्ञस्य व्यृद्धिम्। व्यतिषक्तान् गृह्णाति। विशमेव क्षत्त्रेण सन्दधाति। क्षत्त्रं विशा। पापवस्यसस्य व्यावृत्त्यै। यज्ञस्य समृद्ध्यै॥१२.७.३.१५॥

प्राणा वै पयोग्रहाः। शरीरं सुराग्रहाः। यदव्यतिषक्तान् गृह्णीयात्। शरीरं प्राणेभ्यो व्यवच्छिन्द्यात्। प्राणान् शरीरात्। प्रमायुको यजमानः स्यात्। व्यतिषक्तान् गृह्णाति। शरीरमेव प्राणैः सन्दधाति। प्राणान् शरीरेण। अथो आयुरेवास्मिन् दधाति। तस्मात् सौत्रामण्येजानः सर्वमायुरेति। अथो य एवमेतद्वेद॥१२.७.३.१६॥

सोमो वै पयोग्रहाः। अन्नं सुराग्रहाः। यत्पयोग्रहाश्च सुराग्रहाश्च गृह्यन्ते। सोमपीथं चैवान्नाद्यं चावरुन्धे॥१२.७.३.१७॥

पशवो वै पयोग्रहाः। अन्नं सुराग्रहाः। यत्पयोग्रहाश्च सुराग्रहाश्च गृह्यन्ते। पशूंश्चैवान्नाद्यं चावरुन्धे॥१२.७.३.१८॥

ग्राम्या वै पशवः पयोग्रहाः। आरण्याः सुराग्रहाः। यत्पयोग्रहाश्च सुराग्रहाश्च गृह्यन्ते। ग्राम्यांश्चैव पशूनारण्याश्चावरुन्धे। ग्राम्येण चान्नेनारण्येन च पयोग्रहान् श्रीणाति। तस्मात् ग्राम्याणां पशूनां ग्राम्यं चैवान्नाद्यमारण्यं चावरुद्धम्॥१२.७.३.१९॥

तदाहुः – एतस्यै वा एतदघलायै देवतायै रूपम्। यदेते घोरा आरण्याः पशवः। यदेतेषां पशूनां लोमभिः पयोग्रहान् श्रीणीयात्। रुद्रस्यास्ये पशूनपिद्ध्यात्। अपशुर्यजमानः स्यात्। यन्न श्रीणीयात्। अनवरुद्धा अस्य पशवः स्युः। रुद्रो हि पशूनामीष्टे इति सुराग्रहानेवैतेषां पशूनां लोमभिः श्रीणाति। सुरायामेव तत् रौद्रं दधाति। तस्मात् सुरां पीत्वा रौद्रमनाः। अथो आरण्येष्वेव पशुषु रुद्रस्य हेतिं दधाति। ग्राम्याणां पशूनामहिंसायै। अवरुद्धा अस्य पशवो भवंति। न रुद्रस्यास्ये पशूनपिदधाति॥१२.७.३.२०॥

या व्याघ्रं विषूचिकोभौ वृकं च रक्षति। श्येनं पतत्रिणं सिंहं सेमं पात्वंहसः॥ यदापिपेष मातरं पुत्रः प्रमुदितो धयन्। एतत्तदग्रे अनृणो भवाम्यहतौ पितरौ मया इति॥१२.७.३.२१॥

अध्वर्युश्च प्रतिप्रस्थाता च जघनेन वेदिं प्रांचमावृत्तं यजमानं श्येनपत्राभ्यामूर्ध्वं चावांचं च पावयतः। प्राणोदानयोस्तत् रूपम्। प्राणोदानावेवावरुंधे। ऊर्ध्वश्च ह्ययमवाङ्च प्राण आत्मानमनु संचरति। संपृचः स्थ सं मा भद्रेण पृंक्त इति पयोग्रहान् संमृशति। श्रियैवैनं यशसा समर्द्धयति। विपृचः स्थ वि मा पाप्मना पृंक्त इति सुराग्रहान्। पाप्मनैवैनं व्यावर्तयति॥१२.७.३.२२॥


  1. वा.सं. १९.१