१२.९.३

दुष्टरीतुर्ह पौंसायनो दशपुरुषं राज्यादपरुद्ध आस। रेवोत्तरसम् उ ह पाटवं चाक्रं स्थपतिं सृंजया अपरुरुधुः॥१२.९.३.१॥

स होवाच दुष्टरीतुं पौंस्यायनम्। सौत्रामण्या त्वा याजयानि। यदिदं सृंजयेषु राष्ट्रम्। तत् त्वयि धास्यामीति। तथेति। तयैनमयाजयत्॥१२.९.३.२॥

तदु ह बल्हिकः प्रातिपीयः शुश्राव कौरव्यो राजा। यो ह वा अयं दुष्टरीतुः पौंसायनो दशपुरुषं राज्यादपरुद्धोऽभूत्। तमयं चाक्रः स्थपतिः सौत्रामण्या याजयिष्यति। यदिदं सृञ्जयेषु राष्ट्रम्। तद्धास्मिन् धास्यतीति॥१२.९.३.३॥

स होवाच। तन्न्वा अहं तं वेदिष्यामि। यदि स तस्मिन् राष्ट्रं धास्यति। बहिर्धा वैनं राष्ट्रात् धास्यतीति। स आजगाम। यस्यां वेलायां ग्रहा गृह्यन्ते॥१२.९.३.४॥

स होवाच। स्थपते चाक्र नाहवनीये सुरा होतव्येत्याहुः। नान्यत्राहवनीयात्। यद्याहवनीये सुरां होष्यसि। पापवस्यसं करिष्यसि। जामि यज्ञस्य। यद्यन्यत्राहवनीयात्। बहिर्धैनं राष्ट्रात् धास्यसि। नैनं राष्ट्रे धास्यसि। नास्मिन् राष्ट्रं धास्यसीति॥१२.९.३.५॥

स होवाच। नाहवनीये सुरां होष्यामि। नान्यत्राहवनीयात्। न पापवस्यसं करिष्यामि। न जामि यज्ञस्य। नैनं बहिर्द्धा राष्ट्रात् धास्यामि। राष्ट्र एनं धास्यामि। राष्ट्रमस्मिन् धास्यामीति॥१२.९.३.६॥

स होवाच। कथं हि करिष्यसी३ इति।स हैतदुवाच। असुरेषु वा एषोऽग्रे यज्ञ आसीत् सौत्रामणी। स देवानुपप्रैत्। सोऽप आगच्छत्। तमापः प्रत्यनंदन्। तस्मात् उ श्रेयांसमागतं प्रत्येव नंदंति। तं होचुः। एह्येव भगव इति॥१२.९.३.७॥

स होवाच। बिभेमि वै। प्रणयत मेति। कस्मात् भगवो बिभेषीति। असुरेभ्य इति। तथेति। तमापः प्राणयन्। तस्मात् यो वधत्रो भवति। स बिभ्यतं प्रणयति। यदापः प्राणयन्। तस्मादापः प्रणीताः। तत् प्रणीतानां प्रणीतात्वम्। प्रति ह तिष्ठति। य एवमेतत् प्रणीतानां प्रणीतात्वं वेद॥१२.९.३.८॥

तदिष्टाः प्रयाजा आसुः। अपर्यग्निकृतम्। अथासुरा अन्वाजग्मुः। ते देवाः पर्यग्निनैवासुरान् सपत्नान् भ्रातृव्यान् यज्ञादंतरायन्। तथो एवैष एतत् पर्यग्निनैव द्विषन्तं भ्रातृव्यं यज्ञादंतरेति॥१२.९.३.९॥

देवयोनिर्वा एषः। यदाहवनीयः। तस्यैतावमृतपक्षौ। यावेतावभितोऽग्नी। तत् यदाहवनीये यज्ञं तन्वते। देवयोनावेवैतद्देवेभ्यो यज्ञं तन्वते। उप हैनं पुनर्यज्ञो नमति। नास्मात् यज्ञो व्यवच्छिद्यते। य एवमेतद्वेद। यस्य वैवं विदुष एतत् कर्म क्रियते॥१२.९.३.१०॥

उत्तरेऽग्नौ पयोग्रहान् जुह्वति। उत्तरेऽग्नौ पशून् श्रपयंति। पशूनेव तन्मर्त्यान् सतोऽमृतयोनौ दधाति। मर्त्यान् सतोऽमृतयोनेः प्रजनयति। अप ह वै पशूनां पुनर्मृत्युं जयति। नास्मात् यज्ञो व्यवच्छिद्यते। य एवमेतद्वेद। यस्य वैवं विदुष एतत् कर्म क्रियते॥१२.९.३.११॥

दक्षिणेऽग्नौ सुराग्रहान् जुह्वति। दक्षिणेऽग्नौ पावयंति पवित्राभिस्त्रिषंयुक्ताभिः। पितॄनेव तन्मर्त्यान् सतोऽमृतयोनौ दधाति। मर्त्यान् सतोऽमृतयोनेः प्रजनयति।अप ह वै पितॄणां पुनर्मृत्युं जयति। नास्मात् यज्ञो व्यवच्छिद्यते। य एवमेतद्वेद। यस्य वैवं विदुष एतत् कर्म क्रियते॥१२.९.३.१२॥

तद्यदेतावग्नी आहवनीयात् विह्रियेते। तेनाहवनीयौ। अथ यदाहवनीयं पुनर्नाश्नुवाते। तेनानाहवनीयौ। तेनोभौ होमा उपाप्नोति। यश्चाहवनीये। यश्चानाहवनीये। यच्च हुतम्। यच्चाहुतम्। पुनर्हायमित्वोवाच। न तदस्ति यत् सृंजयानां राष्ट्रम्। दुष्टरीतोस्तत्। अद्य तथाऽयं चाक्रस्थपतिर्यज्ञेऽकरिति॥१२.९.३.१३॥

उत्तरेऽग्नौ पशुभिः पुरोडाशैः पयोग्रहैरिति चरन्ति। यदु चान्यत्। तेन देवानेव तद्देवलोके प्रीणाति। त एनं प्रीताः प्रीणन्ति। अथो देवलोकमेव जयति॥१२.९.३.१५॥

स वा एष आत्मैव। यत्सौत्रामणी। तस्मात् सा निरुक्ता। निरुक्तो ह्यात्मा।
लोको वयोधाः। तस्मात् सोऽनिरुक्तः। अनिरुक्तो हि लोकः। आत्मा वै यज्ञस्य यत्सौत्रामणी। बाहू ऐन्द्रश्च वयोधाश्च। तद्यदेतावभितः पशू भवतः। तस्मादिमावात्मानमभितो बाहू। यथा उ वै पशुः। एवं यूपः।तद्यदेतं सौत्रामणिकं यूपमेतौ यूपावभितो भवतः। तस्मादिमावात्मानमभितो बाहू॥१२.९.३.१६॥

इति चतुर्थप्रपाठके पञ्चमं ब्राह्मणम्॥