शतपथब्राह्मणम्/काण्डम् १३/अध्यायः १/ब्राह्मण १

१३.१.१

ब्रह्मौदनं पचति रेत एव तद्धत्ते यदाज्यमुच्छिष्यते तेन रशनामभ्यज्यादत्ते तेजो वा आज्यं प्राजापत्योऽश्वः प्रजापतिमेव तेजसा समर्धयत्यपूतो वा एषोऽमेध्यो यदश्वः - १३.१.१.१

दर्भमयी रशना भवति पवित्रं वै दर्भाः पुनात्येवैनं पूतमेवैनम्मेध्यमालभते -१३.१.१.२

अश्वस्य वा आलब्धस्य रेत उदक्रामत्तत्सुवर्णं हिरण्यमभवद्यत्सुवर्णं हिरण्यं ददात्यश्वमेव रेतसा समर्धयति - १३.१.१.३

प्रजापतिर्यज्ञमसृजत तस्य महिमापाक्रामत्स महर्त्विजः प्राविशत्तम्महर्त्विग्भिरन्वैच्छत्तं महर्त्विग्भिरन्वविन्दद्यन्महर्त्विजो ब्रह्मौदनम्प्राश्नन्ति महिमानमेव तद्यज्ञस्य यजमानोऽवरुन्द्धे ब्रह्मौदने सुवर्णं हिरण्यं ददाति रेतो वा ओदनो रेतो हिरण्यं रेतसैवास्मिंस्तद्रेतो दधाति शतमानम्भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते चतुष्टयीरपो वसतीवरीर्मध्यमायाह्ने गृह्णाति ता दिग्भ्यः समाहृता भवन्ति दिक्षु वा अन्नमन्नमापोऽन्नेनैवास्मा अन्नमवरुन्द्धे - १३.१.१.४