शतपथब्राह्मणम्/काण्डम् १३/अध्यायः १/ब्राह्मण ८

१३.१.८

प्रजापतिरश्वमेधमसृजत स सृष्टः प्रर्चमव्लीनात्प्र साम तं वैश्वदेवान्युदयच्छन्यद्वैश्वदेवानि जुहोत्यश्वमेधस्यैवोद्यत्यै - १३.१.८.१

काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहेति प्राजापत्यं मुख्यं करोति प्रजापतिमुखाभिरेवैनं देवताभिरुद्यच्छति - १३.१.८.२

स्वाहाऽऽधिमाधीताय स्वाहा मनः प्रजापतये स्वाहा चित्तं विज्ञातायेति यदेव पूर्वासां ब्राह्मणं तदत्र - १३.१.८.३

अदित्यै स्वाहा अदित्यै मह्यै स्वाहाऽदित्यै सुमृडीकायै स्वाहेतीयं वाऽअदितिरनयैवैनमुद्यच्छति - १३.१.८.४

सरस्वत्यै स्वाहा सरस्वत्यै पावकायै स्वाहा सरस्वत्यै बृहत्यै स्वाहेति वाग्वै सरस्वती वाचैवैनमुद्यच्छति - १३.१.८.५

पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधिषाय स्वाहेति पशवो वै पूषा पशुभिरेवैनमुद्यच्छति - १३.१.८.६

त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहेति त्वष्टा वै पशूनां मिथुनानां रूपकृद्रूपैरेवैनमुद्यच्छति - १३.१.८.७

विष्णवे स्वाहा विष्णवे निभूयपाय स्वाहा विष्णवे शिपिविष्टाय स्वाहेति यज्ञो वै विष्णुर्यज्ञेनैवैनमुद्यच्छति विश्वो देवस्य नेतुरिति पूर्णाहुतिमुत्तमां जुहोतीयं वै पूर्णाहुतिरस्यामेवान्ततः प्रतितिष्ठति - १३.१.८.८