शतपथब्राह्मणम्/काण्डम् १३/अध्यायः १/ब्राह्मण ९

१३.१.९

आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायतामिति ब्राह्मण एव ब्रह्मवर्चसं दधाति तस्मात्पुरा ब्राह्मणो ब्रह्मवर्चसी जज्ञे - १३.१.९.१

आ राष्ट्रे राजन्यः शूर इषव्योऽतिव्याधी महारथो जायतामिति राजन्य एव शौर्यम्
महिमानं दधाति तस्मात्पुरा राजन्यः शूर इषव्योऽतिव्याधी महारथो जज्ञे - १३.१.९.२

दोग्ध्री धेनुरिति धेन्वामेव पयो दधाति तस्मात्पुरा धेनुर्दोग्ध्री जज्ञे - १३.१.९.३

वोढानड्वानिति अनडुह्येव बलं दधाति तस्मात्पुरानड्वान्वोढा जज्ञे - १३.१.९.४

आशुः सप्तिरिति अश्व एव जवं दधाति तस्मात्पुराश्वः सर्ता जज्ञे - १३.१.९.५

पुरंधिर्योषेति योषित्येव रूपं दधाति तस्माद्रूपिणी युवतिः प्रिया भावुका - १३.१.९.६

जिष्णू रथेष्ठा इति राजन्य एव जैत्रं महिमानं दधाति तस्मात्पुरा राजन्यो जिष्णुर्जज्ञे - १३.१.९.७

सभेयो युवेति एष वै सभेयो युवा यः प्रथमवयसी तस्मात्प्रथमवयसी स्त्रीणां प्रियो भावुकः - १३.१.९.८

आस्य यजमानस्य वीरो जायतामिति यजमानस्यैव प्रजायां वीर्यं दधाति तस्मात्पुरेजानस्य वीरो जज्ञे - १३.१.९.९

निकामे नः पर्जन्यो वर्षत्विति निकामेनिकामे वै तत्र पर्जन्यो वर्षति यत्रैतेन यज्ञेन यजन्ते फलवत्यो न ओषधयः पच्यन्तामिति फलवत्यो वै तत्रौषधयः पच्यन्ते यत्रैतेन यज्ञेन यजन्ते योगक्षेमो नः कल्पतामिति योगक्षेमो वै तत्र कल्पते यत्रैतेन यज्ञेन यजन्ते तस्माद्यत्रैतेन यज्ञेन यजन्ते कॢप्तः प्रजानां योगक्षेमो भवति - १३.१.९.१०