शतपथब्राह्मणम्/काण्डम् १३/अध्यायः २/ब्राह्मण १०


१३.२.१०

यदसिपथान्कल्पयन्ति सेतुमेव तं संक्रमणं यजमानः कुरुते स्वर्गस्य लोकस्य समष्ट्यै - १३.२.१०.१

सूचीभिः कल्पयन्ति विशो वै सूच्यो राष्ट्रमश्वमेधो विशं चैवास्मिन्राष्ट्रं च समीची दधति हिरण्यमय्यो भवन्ति तस्योक्तं ब्राह्मणम् - १३.२.१०.२

त्रय्यः सूच्यो भवन्ति लोहमय्यो रजता हरिण्यो दिशो वै लोहमय्योऽवान्तरदिशो रजता ऊर्ध्वा हरिण्यस्ताभिरेवैनं कल्पयन्ति तिरश्चीभिश्चोर्ध्वाभिश्च बहुरूपा भवन्ति तस्माद्बहुरूपा दिशो नानारूपा भवन्ति तस्मान्नानारूपा दिशः - १३.२.१०.३