शतपथब्राह्मणम्/काण्डम् १३/अध्यायः २/ब्राह्मण ११


१३.२.११

प्रजापतिरकामयत महान्भूयान्त्स्यामिति स एतावश्वमेधे महिमानौ ग्रहावपश्यत्तावजुहोत्ततो वै स महान्भूयानभवत्स यः कामयेत महान्भूयान्त्स्यामिति स एतावश्वमेधे महिमानौ ग्रहौ जुहुयान्महान्हैव भूयान्भवति - १३.२.११.१

वपामभितो जुहोति यजमानो वा अश्वमेधो राजा महिमा राज्येनैवैनमुभयतः परिगृह्णाति पुरस्तात्स्वाहाकृतयो वा अन्ये देवा उपरिष्टात्स्वाहाकृतयोऽन्ये तानेवैतत्प्रीणाति स्वाहा देवेभ्यो देवेभ्यः स्वाहेति राज्ञा वपां परिजयति ये चैवास्मिंलोके देवा य उ चामुष्मिंस्तानेवैतत्प्रीणाति त एनमुभये देवाः प्रीताः स्वर्गं लोकमभिवहन्ति - १३.२.११.२