१३.२.३

देवा वा अश्वमेधे पवमानं स्वर्गं लोकं न प्राजानंस्तमश्वः प्राजानाद्यदश्वमेधेऽश्वेन पवमानाय सर्पन्ति स्वर्गस्य लोकस्य प्रज्ञात्यै पुच्छमन्वारभन्ते स्वर्गस्यैव लोकस्य समष्ट्यै न वै मनुष्यः स्वर्गंलोकमञ्जसा वेदाश्वो वै स्वर्गं लोकमञ्जसा वेद - १३.२.३.[१]

यदुद्गातोद्गायेत् यथा क्षेत्रज्ञोऽन्येन पथा नयेत्तादृक्तदथ यदुद्गातारमवरुध्याश्वमुद्गीथाय वृणीते यथा क्षेत्रज्ञोऽञ्जसा नयेदेवमेवैतद्यजमानमश्वः स्वर्गं लोकमञ्जसा नयति हिङ्करोति सामैव तद्धिङ्करोत्युद्गीथ एव स वडवा उपरुन्धन्ति संशिञ्जते यथोपगातार उपगायन्ति तादृक्तद्धिरण्यं दक्षिणा सुवर्णं शतमानं तस्योक्तं ब्राह्मणम् - १३.२.३.[२]