शतपथब्राह्मणम्/काण्डम् १३/अध्यायः २/ब्राह्मण ५

१३.२.५

प्रजापतिरश्वमेधमसृजत सोऽस्मात्सृष्टः पराङैत्स पङ्क्तिर्भूत्वा संवत्सरम्प्राविशत्तेऽर्धमासा अभवंस्तं पञ्चदशिभिरनुप्रायुङ्क्त तमाप्नोत्तमाप्त्वा पञ्चदशिभिरवारुन्द्धार्धमासानां वा एषा प्रतिमा यत्पञ्चदशिनो यत्पञ्चदशिन आलभतेऽर्धमासानेव तैर्यजमानोऽवरुन्द्धे - १३.२.५.१

तदाहुः अनवरुद्धो वा एतस्य संवत्सरो भवति योऽन्यत्र चातुर्मास्येभ्यःसंवत्सरं तनुत इत्येष वै साक्षात्संवत्सरो यच्चातुर्मास्यानि यच्चातुर्मास्यान्पशूनालभते साक्षादेव तत्संवत्सरमवरुन्द्धे वि वा एष प्रजया पशुभिर्ऋध्यतेऽप स्वर्गं लोकं राध्नोति योऽन्यत्रैकादशिनेभ्यः संवत्सरं तनुत इत्येष वै सम्प्रति स्वर्गो लोको यदेकादशिनी प्रजा वै पशव एकादशिनी यदैकादशिनान्पशूनालभते न स्वर्गं लोकमपराध्नोति न प्रजया पशुभिर्व्यृद्यते - १३.२.५.२

प्रजापतिर्विराजमसृजत सास्मात्सृष्टा पराच्येत्साश्वं मेध्यं प्राविशत्तां दशिभिरनुप्रायुङ्क्त तामाप्नोत्तामाप्त्वा दशिभिरवारुन्द्ध यद्दशिन आलभते विराजमेव तैर्यजमानोऽवरुन्द्धे शतमालभते शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते - १३.२.५.३

एकादश दशत आलभते एकादशाक्षरा वै त्रिष्टुबिन्द्रियमु वै वीर्यं त्रिष्टुबिन्द्रियस्यैव वीर्यस्यावरुद्ध्या एकादश दशत आलभते दश वै पशोः प्राणा आत्मैकादशः प्राणैरेव पशून्त्समर्धयति वैश्वदेवा भवन्ति वैश्वदेवो वा अश्वोऽश्वस्यैव सर्वत्वाय बहुरूपा भवन्ति तस्माद्बहुरूपाः पशवो नानारूपा भवन्ति तस्मान्नानारूपाः पशवः - १३.२.५.४