१३.२.८

देवा वा उदञ्चः स्वर्गं लोकं न प्राजानंस्तमश्वः प्राजानाद्यदश्वेनोदञ्चो यन्ति स्वर्गस्य लोकस्य प्रज्ञात्यै वासोऽधिवासं हिरण्यमित्यश्वायोपस्तृणन्ति यथा नान्यस्मै पशवे तस्मिन्नेनमधि संज्ञपयन्त्यन्यैरेवैनं तत्पशुभिर्व्याकुर्वन्ति - १३.२.८.[१]

घ्नन्ति वा एतत्पशुम् यदेनं संज्ञपयन्ति प्राणाय स्वाहापानाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमान आहुतीर्जुहोति प्राणानेवास्मिन्नेतद्दधाति तथो हास्यैतेन जीवतैव पशुनेष्टं भवति - १३.२.८.[२]

अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चनेति पत्नीरुदानयत्यह्वतैवैना एतदथो मेध्या एवैनाः करोति - १३.२.८.[३]

गणानां त्वा गणपतिं हवामह इति पत्न्यः परियन्त्यपह्नुवत एवास्मा एतदतो न्येवास्मै ह्नुवतेऽथो धुवत एवैनं त्रिः परियन्ति त्रयो वा इमे लोका एभिरेवैनं लोकैर्धुवते त्रिः पुनः परियन्ति षट्सम्पद्यन्ते षड्वा ऋतव ऋतुभिरेवैनं धुवते - १३.२.८.[४]

अप वा एतेभ्यः प्राणाः क्रामन्ति ये यज्ञे धुवनं तन्वते नव कृत्वः परियन्ति नव वै प्राणाः प्राणानेवात्मन्दधते नैभ्यः प्राणा अपक्रामन्त्याहमजानि गर्भधमा त्वमजासि गर्भधमिति प्रजा वै पशवो गर्भः प्रजामेव पशूनात्मन्धत्ते ता उभौ चतुरः पदः सम्प्रसारयावेति मिथुनस्यावरुद्ध्यै स्वर्गे लोके प्रोर्णुवाथामित्येष वै स्वर्गो लोको यत्र पशुं संज्ञपयन्ति तस्मादेवमाह वृषा वाजी रेतोधा रेतो दधात्विति मिथुनस्यैवावरुद्ध्यै - १३.२.८.[५]