शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ३/ब्राह्मण ६

१३.३.६

अश्वस्य वा आलब्धस्य मेध उदक्रामत्तदश्वस्तोमीयमभवद्यदश्वस्तोमीयं जुहोत्यश्वमेव मेधसा समर्धयति - १३.३.६.१

आज्येन जुहोति मेधो वा आज्यं मेधोऽश्वस्तोमीयं मेधसैवास्मिंस्तन्मेधो दधात्याज्येन जुहोत्येतद्वै देवानां प्रियं धाम यदाज्यं प्रियेणैवैनान्धाम्ना समर्धयति - १३.३.६.२

अश्वस्तोमीयं हुत्वा द्विपदा जुहोति अश्वो वा अश्वस्तोमीयं पुरुषो द्विपदा द्विपाद्वै पुरुषो द्विप्रतिष्ठस्तदेनं प्रतिष्ठया समर्धयति - १३.३.६.३

तदाहुः अश्वस्तोमीयं पूर्वं होतव्यां३ द्विपदा३ इति पशवो वा अश्वस्तोमीयम्पुरुषो द्विपदा यदश्वस्तोमीयं हुत्वा द्विपदा जुहोति तस्मात्पुरुष उपरिष्टात्पशूनधितिष्ठति - १३.३.६.४

षोडशाश्वस्तोमीया जुहोति षोडशकला वै पशवः सा पशूनां मात्रा पशूनेव मात्रया समर्धयति यत्कनीयसीर्वा भूयसीर्वा जुहुयात्पशून्मात्रया व्यर्धयेत्षोडश जुहोति षोडशकला वै पशवः सा पशूनां मात्रा पशूनेव मात्रया समर्धयति नान्यामुत्तमामाहुतिं जुहोति यदन्यामुत्तमामाहुतिं जुहुयात्प्रतिष्ठायै च्यवेत द्विपदा उत्तमा जुहोति प्रतिष्ठा वै द्विपदाः प्रत्येव तिष्ठति जुम्बकाय स्वाहेत्यवभृथ उत्तमामाहुतिं जुहोति वरुणो वै जुम्बकः साक्षादेव वरुणमवयजते शुक्लस्य खलतेर्विक्लिधस्य पिङ्गाक्षस्य मूर्धनि जुहोत्येतद्वै वरुणस्य रूपं रूपेणैव वरुणमवयजते - १३.३.६.५

द्वादश ब्रह्मौदनानुत्थाय निर्वपति द्वादशभिर्वेष्टिभिर्यजते तदाहुर्यज्ञस्य वा एतद्रूपं यदिष्टयो यदिष्टिभिर्यजेतोपनामुक एनं यज्ञः स्यात्पापीयांस्तु स्याद्यातयामानि वा एतदीजानस्य छन्दांसि भवन्ति तानि किमेतावदाशु प्रयुञ्जीत सर्वा वै संस्थिते यज्ञे वागाप्यते सात्राप्ता यातयाम्नी भवति क्रूरीकृतेव हि भवत्यरुष्कृता वाग्वै यज्ञस्तस्मान्न प्रयुञ्जीतेति - १३.३.६.६

द्वादशैव ब्रह्मौदनानुत्थाय निर्वपेत् प्रजापतिर्वा ओदनः प्रजापतिः संवत्सरः प्रजापतिर्यज्ञः संवत्सरमेव यज्ञमाप्नोत्युपनामुक एनं यज्ञो भवति न पापीयान्भवति - १३.३.६.७

</span