शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ४/ब्राह्मण २

१३.४.२

एतस्यां तायमानायाम् अश्वं निक्त्वोदानयन्ति यस्मिन्त्सर्वाणि रूपाणि भवन्ति यो वा जवसमृद्धः सहस्रार्हं पूर्व्यं यो दक्षिणायां धुर्यप्रतिधुरः - १३.४.२.१

तद्यत्सर्वरूपो भवति सर्वं वै रूपं सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्या अथ यज्जवसमृद्धो वीर्यं वै जवो वीर्यस्याप्त्यै वीर्यस्यावरुद्ध्या अथ यत्सहस्रार्हः सर्वं वै सहस्रं सर्वमश्वमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्या अथ यत्पूर्व्यः एष वा अपरिमितं वीर्यमभिवर्धते यत्पूर्व्योऽपरिमितस्यैव वीर्यस्यावरुद्ध्या अथ यद्दक्षिणायां धुर्यप्रतिधुरः। एष वा एष य एष तपति न वा एतं कश्चन प्रतिप्रतिरेतस्यैवावरुद्ध्यै - १३.४.२.२

तदु होवाच भाल्लवेयो द्विरूप एवैषोऽश्वः स्यात्कृष्णसारंगः प्रजापतेर्वाएषोऽक्ष्णः समभवद्द्विरूपं वा इदं चक्षुः शुक्लं चैव कृष्णं च तदेनं स्वेन रूपेण समर्धयतीति - १३.४.२.३

अथ होवाच सात्ययज्ञिः त्रिरूप एवैषोऽश्वः स्यात्तस्य कृष्णः पूर्वार्धः शुक्लोऽपरार्धः कृत्तिकाञ्जिः पुरस्तात्तद्यत्कृष्णः पूर्वार्धो भवति यदेवेदं कृष्णमक्ष्णस्तदस्य तदथ यच्छुक्लोऽपरार्धो यदेवेदं शुक्लमक्ष्णस्तदस्यतदथ यत्कृत्तिकाञ्जिः पुरस्तात्सा कनीनका स एव रूपसमृद्धोऽतो यतमोऽस्योपकल्पेत बहुरूपो वा द्विरूपो वा त्रिरूपो वा कृत्तिकाञ्जिस्तमालभेत जवेन त्वेव समृद्धः स्यात् - १३.४.२.४

तस्यैते पुरस्ताद्रक्षितार उपकॢप्ता भवन्ति राजपुत्राः कवचिनः शतं राजन्या निषङ्गिणः शतं सूतग्रामण्यां पुत्रा इषुपर्षिणः शतं क्षात्त्रसंग्रहीतॄणाम्पुत्रा दण्डिनः शतमश्वशतं निरष्टं निरमणं यस्मिन्नेनमपिसृज्य रक्षन्ति - १३.४.२.५

अथ सावित्रीमिष्टिं निर्वपति सवित्रे प्रसवित्रे द्वादशकपालं पुरोडाशं सविता वै प्रसविता सविता म इमं यज्ञं प्रसुवादिति - १३.४.२.६

तस्यै पञ्चदश सामिधेन्यो भवन्ति वार्त्रघ्नावाज्यभागौ य इमा विश्वा जातान्यादेवो यातु सविता सुरत्न इत्युपांशु हविषो याज्यानुवाक्ये विराजौ संयाज्ये हिरण्यं दक्षिणा सुवर्णं शतमानं तस्योक्तं ब्राह्मणम् - १३.४.२.७

तस्यै प्रयाजेषु तायमानेषु ब्राह्मणो वीणागाथी दक्षिणत उत्तरमन्द्रामुदाघ्नंस्तिस्रः स्वयंसम्भृता गाथा गायतीत्ययजतेत्यददादिति तस्योक्तं ब्राह्मणम् - १३.४.२.८

अथ द्वितीयां निर्वपति सवित्र आसवित्रे द्वादशकपालं पुरोडाशं सविता वा आसविता सविता म इमं यज्ञमासुवादिति - १३.४.२.९

तस्यै सप्तदश सामिधेन्यो भवन्ति सद्वन्तावाज्यभागौ सदेवावरुन्द्धे विश्वानि देव सवितः सघा नो देवः सविता सहावेत्युपांशु हविषो याज्यानुवाक्ये अनुष्टुभौ संयाज्ये रजतं हिरण्यं दक्षिणा नानारूपताया अथो उत्क्रमायानपक्रमाय शतमानं भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते - १३.४.२.१०

तस्यै प्रयाजेषु तायमानेषु ब्राह्मणो वीणागाथी दक्षिणत उत्तरमन्द्रामुदाघ्नंस्तिस्रः स्वयंसम्भृता गाथा गायतीत्ययजतेत्यददादिति तस्योक्तं ब्राह्मणम् - १३.४.२.११

अथ तृतीयां निर्वपति सवित्रे सत्यप्रसवाय द्वादशकपालं पुरोडाशमेष ह वै सत्यः प्रसवो यः सवितुः सत्येन मे प्रसवेनेमं यज्ञं प्रसुवादिति - १३.४.२.१२

तस्यै सप्तदशैव सामिधेन्यो भवन्ति रयिमन्तावाज्यभागौ वीर्यं वै रयिर्वीर्यस्याप्त्यै वीर्यस्यावरुद्ध्या आ विश्वदेवं सत्पतिं न प्रमिये सवितुर्दैव्यस्य तदित्युपांशु हविषो याज्यानुवाक्ये नित्ये संयाज्ये नेद्यज्ञपथादयानीति कॢप्त एव यज्ञेऽन्ततः प्रतितिष्ठति त्रिष्टुभौ भवत इन्द्रियं वै वीर्यं त्रिष्टुबिन्द्रियस्यैव वीर्यस्यावरुद्ध्यै हिरण्यं दक्षिणा सुवर्णं शतमानं तस्योक्तं ब्राह्मणम् - १३.४.२.१३

तस्यै प्रयाजेषु तायमानेषु ब्राह्मणो वीणागाथी दक्षिणत उत्तरमन्द्रामुदाघ्नंस्तिस्रः स्वयंसम्भृता गाथा गायतीत्ययजतेत्यददादिति तस्योक्तं ब्राह्मणम् - १३.४.२.१४

एतस्यां संस्थितायाम् उपोत्थायाध्वर्युश्च यजमानश्चाश्वस्य दक्षिणे कर्ण आजपतो
विभूर्मात्रा प्रभूः पित्रेति तस्योक्तं ब्राह्मणमथैनमुदञ्चं प्राञ्चम्प्रसृजत एषा होभयेषां देवमनुष्याणां दिग्यदुदीची प्राची स्वायामेवैनं तद्दिशि धत्तो न वै स्व आयतने प्रतिष्ठितो रिष्यत्यरिष्ट्यै - १३.४.२.१५

स आह देवा आशापालाः एतं देवेभ्योऽश्वं मेधाय प्रोक्षितं रक्षतेत्युक्ता मानुषा आशापाला अथैते दैवा आप्याः साध्या अन्वाध्या मरुतस्तमेत उभये देवमनुष्याः संविदाना अप्रत्यावर्तयन्तः संवत्सरं रक्षन्ति तद्यं न प्रत्यावर्तयन्त्येष वा एष तपति क उ ह्येतमर्हति प्रत्यावर्त्तयितुं यद्येनम्प्रत्यावर्तयेयुः परागेवेदं सर्वं स्यात्तस्मादप्रत्यावर्तयन्तो रक्षन्ति - १३.४.२.१६

स आहाशापालाः ये वा एतस्योदृचं गमिष्यन्ति राष्ट्रं ते भविष्यन्ति राजानो भविष्यन्त्यभिषेचनीया अथ य एतस्योदृचं न गमिष्यन्त्यराष्ट्रं ते भविष्यन्त्यराजानो भविष्यन्ति राजन्या विशोऽनभिषेचनीयास्तस्मान्मा प्रमदत स्नात्वाच्चैवैनमुदकान्निरुन्धीध्वं वडवाभ्यश्च ते यद्यद्ब्राह्मणजातमुपनिगच्छेत तत्तत्पृच्छेत ब्राह्मणाः कियद्यूयमश्वमेधस्य वित्थेति ते ये न विद्युर्जिनीयात तान्त्सर्वं वा अश्वमेधः सर्वस्यैष न वेद यो ब्राह्मणः सन्नश्वमेधस्य न वेद सोऽब्राह्मणो ज्येय एव स पानं करवाथ खादं निवपाथाथ यत्किं च जनपदे ऽकृतान्नं सर्वं वस्तत्सुतं तेषां रथकारकुल एव वो वसतिस्तद्ध्यश्वस्यायतनमिति - १३.४.२.१७