शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ६/ब्राह्मण २

१३.६.२.

अथ यस्मात्पुरुषमेधो नाम इमे वै लोकाः पूरयमेव पुरुषो योऽयं पवते सोऽस्यां पुरि शेते तस्मात्पुरुषस्तस्य यदेषु लोकेष्वन्नं तदस्यान्नम्मेधस्तद्यदस्यैतदन्नं मेधस्तस्मात्पुरुषमेधोऽथो यदस्मिन्मेध्यान्पुरुषानालभते तस्माद्वेव पुरुषमेधः - १३.६.२.[१]

तान्वै मध्यमेऽहन्नालभते अन्तरिक्षं वै मध्यममहरन्तरिक्षमु वै सर्वेषां भूतानामायतनमथो अन्नं वा एते पशव उदरम्मध्यममहरुदरे तदन्नं दधाति - १३.६.२.[२]

तान्वै दशदशालभते दशाक्षरा विराड्विराडु कृत्स्नमन्नं कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै - १३.६.२.[३]

एकादश दशत आलभते एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानो मध्यतः पाप्मानमपहते - १३.६.२.[४]

अष्टाचत्वारिंशतं मध्यमे यूप आलभते अष्टाचत्वारिंशदक्षरा जगती जागताः पशवो जगत्यैवास्मै पशूनवरुन्द्धे - १३.६.२.[५]

एकादशैकादशेतरेषु एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानोऽभितः पाप्मानमपहते - १३.६.२.[६]

अष्टा उत्तमानालभते अष्टाक्षरा गायत्री ब्रह्म गायत्री तद्ब्रह्मैवैतदस्य सर्वस्योत्तमं करोति तस्माद्ब्रह्मास्य सर्वस्योत्तममित्याहुः - १३.६.२.[७]

ते वै प्राजापत्या भवन्ति ब्रह्म वै प्रजापतिर्ब्राह्मो हि प्रजापतिस्तस्मात्प्राजापत्या भवन्ति - १३.६.२.[८]

स वै पशूनुपाकरिष्यन् एतास्तिस्रः सावित्रीराहुतीर्जुहोति देवसवितस्तत्सवितुर्वरेण्यं विश्वानि देव सवितरिति सवितारं प्रीणाति सोऽस्मै प्रीत एतान्पुरुषान्प्रसौति तेन प्रसूतानालभते - १३.६.२.[९]

ब्रह्मणे ब्राह्मणमालभते ब्रह्म वै ब्राह्मणो ब्रह्मैव तद्ब्रह्मणा समर्धयति क्षत्राय राजन्यं क्षत्रं वै राजन्यः क्षत्रमेव तत्क्षत्रेण समर्धयति मरुद्भ्यो वैश्यम् विशो वै मरुतो विशमेव तद्विशा समर्धयति तपसे शूद्रं तपो वै शूद्रस्तप एव तत्तपसा समर्धयत्येवमेता देवता यथारूपं पशुभिः समर्धयति ता एनं समृद्धाः समर्धयन्ति सर्वैः कामैः - १३.६.२.[१०]

आज्येन जुहोति तेजो वा आज्यं तेजसैवास्मिंस्तत्तेजो दधात्याज्येन जुहोत्येतद्वै
देवानां प्रियं धाम यदाज्यं प्रियेणैवैनान्धाम्ना समर्धयति त एनं समृद्धाः समर्धयन्ति सर्वैः कामैः - १३.६.२.[११]

नियुक्तान्पुरुषान् ब्रह्मा दक्षिणतः पुरुषेण नारायणेनाभिष्टौति सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपादित्येतेन षोडशर्चेन षोडशकलं वा इदं सर्वं सर्वं पुरुषमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्या इत्थमसीत्थमसीत्युपस्तौत्येवैनमेतन्महयत्येवाथो यथैष
तथैनमेतदाह तत्पर्यग्निकृताः पशवो बभूवुरसञ्ज्ञप्ताः - १३.६.२.[१२]

अथ हैनं वागभ्युवाद पुरुष मा सन्तिष्ठिपो यदि संस्थापयिष्यसि पुरुष एव पुरुषमत्स्यतीति तान्पर्यग्निकृतानेवोदसृजत्तद्देवत्या आहुतीरजुहोत्ताभिस्ता देवता अप्रीणात्ता एनं प्रीता अप्रीणन्त्सर्वैः कामैः - १३.६.२.[१३]

आज्येन जुहोति तेजो वा आज्यं तेजसैवास्मिंस्तत्तेजो दधाति - १३.६.२.[१४]

एकादशिनैः संस्थापयति एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यंत्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानो मध्यतः पाप्मानमपहते - १३.६.२.[१५]

उदयनीयायां संस्थितायाम् एकादश वशा अनूबन्ध्या आलभते मैत्रावरुणीर्वैश्वदेवीर्बार्हस्पत्या एतासां देवतानामाप्त्यै तद्यद्बार्हस्पत्या अन्त्या भवन्ति ब्रह्म वै बृहस्पतिस्तदु ब्रह्मण्येवान्ततः प्रतितिष्ठति - १३.६.२.[१६]

अथ यदेकादश भवन्ति एकादशाक्षरा त्रिष्टुब्वज्रस्त्रिष्टुब्वीर्यं त्रिष्टुब्वज्रेणैवैतद्वीर्येण यजमानो मध्यतः पाप्मानमपहते त्रैधातव्युदवसानीयाऽऽसावेव बन्धुः - १३.६.२.[१७]

अथातो दक्षिणानाम् मध्यं प्रति राष्ट्रस्य यदन्यद्भूमेश्च ब्राह्मणस्य च वित्तात्सत्पुरुषं प्राची दिग्घोर्तुदक्षिणा ब्रह्मणः प्रतीच्यध्वर्योरुदीच्युद्गातुस्तदेव होतृका अन्वाभक्ताः - १३.६.२.[१८]

अथ यदि ब्राह्मणो यजेत सर्ववेदसं दद्यात्सर्वं वै ब्राह्मणः सर्वं सर्ववेदसं सर्वं पुरुषमेधः सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै - १३.६.२.[१९]

अथात्मन्नग्नी समारोह्य उत्तरनारायणेनादित्यमुदस्थायानपेक्षमाणोऽरण्यमभिप्रेयात्तदेव मनुष्येभ्यस्तिरो भवति यद्यु ग्रामे विवत्सेदरण्योरग्नी समारोह्योत्तरनारायणेनैवादित्यमुपस्थाय गृहेषु प्रत्यवस्येदथ तान्यज्ञक्रतूनाहरेत यानभ्याप्नुयात्स वा एष न सर्वस्मा अनुवक्तव्यः सर्वं हि पुरुषमेधो नेत्सर्वस्माऽइव सर्वं ब्रवाणीति यो न्वेव ज्ञातस्तस्मै ब्रूयादथ योऽनूचानोऽथ योऽस्य प्रियः स्यान्नैत्त्वेव सर्वस्मा इव - १३.६.२.[२०]