शतपथब्राह्मणम्/काण्डम् १३/अध्यायः ७

ब्राह्मण १

१ सर्वमेधः-तत्र प्रथम सर्वकामनयाsनुष्ठेयस्य सर्वमेधस्य क्रतोरुत्पत्तेराख्यायिकया सोपपत्तिकमभिधानं, स एष सर्वमेधाख्यो यज्ञकतुर्दशरात्रो भवतीति प्रतिपाद्यैतस्य दशसंख्याया विराडात्मना प्रशंसनम्, अस्य सर्वमेधस्य सर्वयज्ञानां मध्ये परमत्वप्रतिपादनं, सर्वमेधे प्रथमदिवसोऽग्निष्टुन्नामैकाहोऽग्निष्टोमसंस्थो भवति-तत्र आग्नेया ग्रहाः-आग्नेय्यः पुरोरुचश्च भवन्ति-इत्यादि सोपपत्तिकं सार्थवादमभिधानं, द्वितीयदिवस इन्द्रस्तुदुक्थ्यो भवति-तत्र ऐन्द्रा ग्रहाः-ऐन्द्र्यः पुरोरुचश्च भवन्ति-इत्यादि सकारणं सार्थवादमभिधानं, तृतीय दिवसः सूर्यस्तुदुक्थ्यो भवति-तत्र सौर्या ग्रहाः सौर्यः पुरोरुचश्च भवन्ति-इत्यादि सकारणं सार्थवादमभिधानं, चतुर्थदिवसो वैश्वदेवस्तुदुक्थ्यो भवति-तत्र वैश्वदेवा ग्रहाः-वैश्वदेव्यः पुरोरुचश्च भवन्ति इत्यादि सकारणं सार्थवादमभिधानं, पञ्चमदिवस आश्वमेधिको मध्यमः पञ्चमो दिवसो भवति मेध्यमतश्वमालभते इति सप्रयोजनं प्रतिपादनं, षष्ठो दिवसः पौरुषमेधिको मध्यमो दिवसो भवति तत्र मेध्यान्पुरुषानालभते इति सप्रयोजनमभिधानं, सप्तमदिवसोऽप्तोर्यामात्मको भवतीति सप्रयोजनं तद्गतेतिकर्तव्यताविशेषसहितं सार्थवादं निरूपणम्, अष्टमदिवसस्त्रिणवस्तोमको भवतीति सार्थवादमभिधानं, नवमदिवसस्त्रयस्त्रिंशस्तोमको भवतीति सार्थवादमभिधानं, दशमदिवसो विश्वजित्सर्वपृष्ठोऽतिरात्रो भवतीति सकारणं सार्थवादमभिधानं, विजयमध्यात्प्राच्यादिक्रमेण चतुर्दिक्षु यदुत्पन्नं द्रव्यं तत्तेनैव क्रमेण होतृब्रह्माध्वर्यूद्गातृभ्यः प्रदेयं सभूमिपुरुषं ब्राह्मणस्ववर्जं यथा भवेत्तथेति दक्षिणादानविधानं, भौवनस्य विश्वकर्मणो राज्ञो दृष्टान्तेन सर्वमेधेन यष्टुः सर्वमेधं वेदितुश्चातिष्ठारूपं फलं भवतीति प्रतिपादनम् , एतं विश्वकर्माणं राजानं कश्यपो याजयाञ्चकार तस्मिन्सर्वमेधे यदा च विश्वकर्मा अस्मै कश्यपाय भूमिं दातुं प्रवृत्तस्तदा " न मां कश्चन मर्त्यः कदाऽपि दातुमर्हति, हे ! विश्वकर्मस्त्वं मन्दोऽसि, यदि बलान्मां दास्यति तर्हि सलिले मग्ना भविष्यामि ततश्च ते प्रतिज्ञा वृथा स्यात्" इत्याद्यार्थकं श्लोकं भूमिर्जगाविति निरूपणं चेत्यादि.