१३.८.३

अथ सर्वौषधं वपति यदेवादः सर्वौषधं तदेतद्बह्वीभिस्तद्वपत्येकयेदं दैवं चैव तत्पित्र्यं च व्याकरोत्यश्वत्थे वो निषदनं पर्णे वो वसतिष्कृतेति ज्योग्जीवातुमेवैभ्य एतदाशास्ते तथो हैषामेकैकोऽपरो जरसानुप्रैति - १३.८.३.[१]

अथैनन्निवपति(अथ ह एनं निवपति)। इयं वै पृथिवी प्रतिष्ठाऽस्यामेवैनमेतत्प्रतिष्ठायाम्प्रतिष्ठापयति पुरादित्यस्योदयात्तिरैव वै पितरस्तिरैव रात्रिस्तिर एव तत्करोति यथा कुर्वतोऽभ्युदियात्तदेनमुभयोरहोरात्रयोः प्रतिष्ठापयति - १३.८.३.[२]

सविता ते शरीराणि मातुरुपस्थ आवपत्विति सवितैवास्यैतच्छरीराण्यस्यै पृथिव्यै
मातुरुपस्थ आवपति तस्यै पृथिवि शम्भवेति यथैवास्मा इयं शंस्यादेवमेतदाह प्रजापतौ त्वा देवतायामुपोदके लोके निदधाम्यसाविति नाम गृह्णात्ययं वै लोक उपोदकस्तदेनं प्रजापतौ देवतायामुपोदके लोके निदधाति - १३.८.३.[३]

अथ कञ्चिदाह एतां दिशमनवानन्त्सृत्वा कुम्भं प्रक्षीयानपेक्षमाण एहीति तत्र जपति परं मृत्यो अनु परेहि पन्थां यस्ते अन्य इतरो देवयानात् चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरानिति ज्योग्जीवातुमेवैभ्य एतदाशास्ते तथो हैषामेकैकोऽपरो जरसानुप्रैति - १३.८.३.[४]

अथैनं यथाङ्गं कल्पयति शं वातः शं हि ते घृणिः शं ते भवन्त्विष्टकाः शं ते भवन्त्वग्नयः पार्थिवासो मा त्वाभिशूशुचन् कल्पन्तां ते दिशस्तुभ्यमापः शिवतमास्तुभ्यं भवन्तु सिन्धवः अन्तरिक्षं शिवं तुभ्यं कल्पन्तां ते दिशः सर्वा इत्येतदेवास्मै सर्वं कल्पयत्येतदस्मै शिवं करोति - १३.८.३.[५]

अथ त्रयोदश पादमात्र्य इष्टका अलक्षणाः कृता भवन्ति या एवामूरग्नाविष्टकास्ता
एता यजुषा ता उपदधाति तूष्णीमिमा दैवं चैव तत्पित्र्यं च व्याकरोति - १३.८.३.[६]

त्रयोदश भवन्ति त्रयोदश मासाः सम्वत्सर ऋतुष्वेवैनमेतत्सम्वत्सरे प्रतिष्ठायां प्रतिष्ठापयति - १३.८.३.[७]

पादमात्र्यो भवन्ति प्रतिष्ठा वै पादः प्रतिष्ठामेवास्मै करोत्यलक्षणा भवन्ति तिरैव वै पितरस्तिरैव तद्यदलक्षणं तिर एव तत्तिरः करोति - १३.८.३.[८]

तासामेकां मध्ये प्राचीमुपदधाति स आत्मा तिस्रः पुरस्तान्मूर्द्धसंहितास्तच्छिरस्तिस्रो दक्षिणतः स दक्षिणः पक्षस्तिस्र उत्तरतः स उत्तरः पक्षस्तिस्रः पश्चात्तत्पुच्छं सोऽस्यैष पक्षपुच्छवानात्मा यथैवाग्नेस्तथा - १३.८.३.[९]

अथ प्रदरात्पुरीषमाहर्तवा आह एतद्धास्याः पित्र्यमनतिरिक्तमथो अघमेव तद्बद्धृ करोत्यस्मिन्नु हैकेऽवान्तरदेशे कर्षूं खात्वा ततोऽभ्याहारं कुर्वन्ति परिकृषन्त्यु हैके दक्षिणतः पश्चादुत्तरतस्ततोऽभ्याहारं कुर्वन्ति स यथा कामयेत तथा कुर्यात् - १३.८.३.[१०]

तद्वै न महत्कुर्यात् नेन्महदघं करवाणीति यावानुद्बाहुः पुरुषस्तावत्क्षत्रियस्य कुर्यान्मुखदघ्नं ब्राह्मणस्योपस्थदघ्नं स्त्रिया ऊरुदघ्नं वैश्यस्याष्ठीवद्दघ्नं शूद्रस्यैवम्वीर्या ह्येत इति - १३.८.३.[११]

अधोजानु त्वेव कुर्यात् तथापरस्मा अवकाशं न करोति तस्य क्रियमाणस्य तेजनीमुत्तरतो धारयन्ति प्रजा ह सा प्रजामेव तदुत्तरतो धारयन्ति तां न न्यस्येद्धृत्वा वैनामूढ्वा वा गृहेषूच्छ्रयेत्प्रजामेव तद्गृहेषूच्छ्रयति - १३.८.३.[१२]

कृत्वा यवान्वपति अघं मे यवयानित्यवकाभिः प्रच्छादयति कं मेऽसदिति दर्भैः प्रच्छादयत्यरूक्षतायै - १३.८.३.[१३]