१३.८.४

अथैनच्छङ्कुभिः परिणिहन्ति पालाशं पुरस्ताद्ब्रह्म वै पलाशो ब्रह्मपुरोगवमेवैनं स्वर्गं लोकं गमयति शमीमयमुत्तरतः शम्मेऽसदिति वारणं पश्चादघं मे वारयाता इति वृत्रशङ्कुं दक्षिणतोऽघस्यैवानत्ययाय - १३.८.४.[१]

अथ दक्षिणतः परिवक्रे खनन्ति ते क्षीरेण चोदकेन च पूरयन्ति ते हैनममुष्मिंलोकेऽक्षिते कुल्ये उपधावतः सप्तोत्तरस्ता उदकेन पूरयन्ति न ह वै सप्त स्रवन्तीरघमत्येतुमर्हत्यघस्यैवानत्ययाय - १३.८.४.[२]

अश्मनस्त्रींस्त्रीन्प्रकिरन्ति ता अभ्युत्तरन्त्यश्मन्वती रीयते संरभध्वमुत्तिष्ठत प्रतरत सखायः अत्रा जहीमोऽशिवा येऽअसञ्छिवान्वयमुत्तरेमाभि वाजानिति यथैव यजुस्तथा बन्धुः - १३.८.४.[३]

अपामार्गैरपमृजते अघमेव तदपमृजतेऽपाघमप किल्विषमप कृत्यामपोरपः। अपामार्ग त्वमस्मदप दुःष्वप्न्यं सुवेति यथैव यजुस्तथा बन्धुः - १३.८.४.[४]

यत्रोदकं भवति तत्स्नान्ति सुमित्रिया न आप ओषधयः सन्त्वित्यञ्जलिनाप उपाचति वज्रो वा आपो वज्रेणैवैतन्मित्रधेयं कुरुते दुर्मित्रियास्तस्मै सन्तु योऽस्मान्द्वेष्टि यं च वयं द्विष्म इति यामस्य दिशं द्वेष्यः स्यात्तां दिशं परासिञ्चेत्तेनैव तं पराभावयति - १३.८.४.[५]

स यदि स्थावरा आपो भवन्ति स्थापयन्त्येषां पाप्मानमथ यदि वहन्ति वहन्त्येवैषां पाप्मानं स्नात्वाऽहतानि वासांसि परिधायानडुहः पुच्छमन्वारभ्यायन्त्याग्नेयो वा अनड्वानग्निमुखा एव तत्पितृलोकाज्जीवलोकमभ्यायन्त्यथो अग्निर्वै पथोऽतिवोढा स एनानतिवहति - १३.८.४.[६]

उद्वयं तमसस्परीति एतामृचं जपन्तो यन्ति तत्तमसः पितृलोकादादित्यं ज्योतिरभ्यायन्ति तेभ्य आगतेभ्य आञ्जनाभ्यञ्जने प्रयच्छन्त्येष ह मानुषोऽलङ्कारस्तेनैव तं मृत्युमन्तर्दधते - १३.८.४.[७]

अथ गृहेष्वग्निं समाधाय वारणान्परिधीन्परिधाय वारणेन स्रुवेणाग्नय आयुष्मत आहुतिं जुहोत्यग्निर्वा आयुष्मानायुष ईष्टे तमेवैभ्य आयुर्याचत्यग्न आयूंषि पवस इति पुरोऽनुवाक्याभाजनम् - १३.८.४.[८]

अथ जुहोति आयुष्मानग्ने हविषा वृधानो घृतप्रतीको घृतयोनिरेधि। घृतं पीत्वा मधु चारु गव्यं पितेव पुत्रमभिरक्षतादिमान्त्स्वाहेति यथैवैनानभिरक्षेद्यथाऽभिगोपायेदेवमेतदाह - १३.८.४.[९]

तस्य पुराणोऽनड्वान्दक्षिणा पुराणा यवाः पुराण्यासन्दी सोपबर्हणैषा ऽन्वादिष्टा दक्षिणा कामं यथाश्रद्धं भूयसीर्दद्यादिति न्वग्निचितः - १३.८.४.[१०]

अथानग्निचितः एतदेव भूमिजोषणमेतत्समानं कर्म यदन्यदग्निकर्मणः कुर्यादाहिताग्नेः शर्करा इत्यु हैक आहुर्या एवामूरग्न्याधेयशर्करास्ता एता इति न तथा कुर्यादित्येकऽईश्वरो हैता अनग्निचितं सन्तप्तोरिति स यथा कामयेत तथा कुर्यात् - १३.८.४.[११]

मर्यादाया एव लोष्टमाहृत्य अन्तरेण निदधातीमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतं शतं जीवन्तु शरदः पुरूचीरन्तर्मृत्युं दधतां पर्वतेनेति जीवेभ्यश्चैवैतां पितृभ्यश्च मर्यादां करोत्यसम्भेदाय तस्मादु हैतज्जीवाश्च पितरश्च न सन्दृश्यन्ते - १३.८.४.[१२]