शतपथब्राह्मणम्/काण्डम् १४/अध्यायः १/ब्राह्मण ३

घर्मसन्दीपनं ब्राह्मणम्

स यदैतदातिथ्येन प्रचरति। अथ प्रवर्ग्येण चरिष्यन्पुरोपसदोऽग्रेण गार्हपत्यं प्राचः कुशान्त्संस्तीर्य द्वन्द्वं पात्राण्युपसादयत्युपयमनीं महावीरं परीषासौ पिन्वने रौहिणकपाले रौहिणहवन्यौ स्रुचौ यदु चान्यद्भवति तद्दश दशाक्षरा वै विराड्विराड्वै यज्ञस्तद्विराजमेवैतद्यज्ञमभिसम्पादयत्यथ यद्द्वन्द्वम्द्वन्द्वं वै वीर्यं यदा वै द्वौ संरभेते अथ तौ वीर्यं कुरुतो द्वन्द्वं वै मिथुनम्प्रजननं मिथुनेनैवैनमेतत्प्रजननेन समर्धयति कृत्स्नं करोति - १४.१.३.[१]

अथाध्वर्युः प्रोक्षणीरादायोपोत्तिष्ठन्नाह ब्रह्मन्प्रचरिष्यामो होतरभिष्टुहीति ब्रह्मा वै यज्ञस्य दक्षिणत आस्तेऽभिगोप्ता तमेवैतदाहाप्रमत्त आस्स्व यज्ञस्य शिरः प्रतिधास्याम इति होतरभिष्टुहीति यज्ञो वै होता तमेवैतदाह यज्ञस्य शिरः प्रतिधेहीति प्रतिपद्यते होता - १४.१.३.[२]

ब्रह्म जज्ञानं प्रथमं पुरस्तादिति असौ वा आदित्यो ब्रह्माहरहः पुरस्ताज्जायत एष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह ब्रह्म जज्ञानम्प्रथमं पुरस्तादित्यथ प्रोक्षत्यसावेव बन्धुः - १४.१.३.[३]

स प्रोक्षति। यमाय त्वेत्येष वै यमो य एष तपत्येष हीदं सर्वं यमयत्येतेनेदं सर्वं यतमेष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह यमाय त्वेति - १४.१.३.[४]

मखाय त्वेति। एष वै मखो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह मखाय त्वेति - १४.१.३.[५]

सूर्यस्य त्वा तपस इति। एष वै सूर्यो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादाह सूर्यस्य त्वा तपस इति - १४.१.३.[६]

पूर्वया द्वारा स्थूणां निर्हृत्य। दक्षिणतो निमिन्वन्ति यथैनां होताऽभिष्टुवन्परापश्येद्यज्ञो वै होता स एवास्यामेतद्यज्ञं प्रतिदधाति तथैषा घर्मं पिन्वते - १४.१.३.[७]

अग्रेणाहवनीयम्। सम्राडासन्दीं पर्याहृत्य दक्षिणतः प्राचीमासादयत्युत्तरां राजासन्द्यै - १४.१.३.[८]

औदुम्बरी भवति। ऊर्ग्वै रस उदुम्बर ऊर्जैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति - १४.१.३.[९]

अंसदघ्ना भवति। अंसयोर्वा इदं शिरः प्रतिष्ठितं तदंसयोरेवैतच्छिरः प्रतिष्ठापयति - १४.१.३.[१०]

बाल्वजीभी रज्जुभिर्व्युता भवति यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत्तत एता ओषधयो जज्ञिरे तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति - १४.१.३.[११]

अथ यदुत्तरत आसादयति। यज्ञो वै सोमः शिरः प्रवर्ग्य उत्तरं वै शिरस्तस्मादुत्तरत आसादयत्यथो राजा वै सोमः सम्राट्प्रवर्ग्य उत्तरं वै राज्यात्साम्राज्यं तस्मादुत्तरत आसादयति - १४.१.३.[१२]

स यत्रैतां होतान्वाह। अञ्जन्ति यं प्रथयन्तो न विप्रा इति तदेतं प्रचरणीयम्महावीरमाज्येन समनक्ति देवस्त्वा सविता मध्वानक्त्विति सविता वै देवानाम्प्रसविता सर्वम्वा इदं मधु यदिदं किं च तदेनमनेन सर्वेण समनक्ति तदस्मै सविता प्रसविता प्रसौति तस्मादाह देवस्त्वा सविता मध्वानक्त्विति - १४.१.३.[१३]

अथोत्तरतः सिकता उपकीर्णा भवन्ति। तद्रजतं हिरण्यमधस्तादुपास्यति पृथिव्याः संस्पृशस्पाहीत्येतद्वै देवा अबिभयुर्यद्वै न इममधस्ताद्रक्षांसि नाष्ट्रा न हन्युरित्यग्नेर्वा एतद्रेतो यद्धिरण्यं नाष्ट्राणां रक्षसामपहत्या अथो पृथिव्यु ह वा एतस्माद्बिभयांचकार यद्वै मायं तप्तः शुशुचानो न हिंस्यादिति तदेवास्या एतदन्तर्दधाति रजतं भवति रजतैव हीयं पृथिवी - १४.१.३.[१४]

स यत्रैतां होतान्वाह संसीदस्व महां महाँ असीति तदुभयत आदीप्ता मौञ्जाः प्रलवा भवन्ति तानुपास्य तेषु प्रवृणक्ति यज्ञस्य शीर्षच्छिन्नस्य रसो व्यक्षरत्तत एता ओषधयो जज्ञिरे तेनैवैनमेतद्रसेन समर्धयति कृत्स्नं करोति - १४.१.३.[१५]

अथ यदुभयत आदीप्ता भवन्ति। सर्वाभ्य एवैतद्दिग्भ्यो रक्षांसि नाष्ट्रा अपहन्ति तस्मिन्प्रवृज्यमाने पत्नी शिरः प्रोर्णुते तप्तो वा एष शुशुचानो भवति नेन्मेऽयं तप्तः शुशुचानश्चक्षुः प्रमुष्णादिति - १४.१.३.[१६]

स प्रवृणक्ति। अर्चिरसि शोचिरसि तपोऽसीत्येष वै घर्मो य एष तपति सर्वं वा एतदेष तदेतमेवैतत्प्रीणाति तस्मादाहार्चिरसि शोचिरसि तपोऽसीति - १४.१.३.[१७]

अथास्यामाशिष आशास्त। इयं वै यज्ञोऽस्यामेवैतदाशिष आशास्ते ता अस्मा इयं सर्वाः समर्धयति - १४.१.३.[१८]

अनाधृष्टा पुरस्तादिति। अनाधृष्टा ह्येषा पुरस्ताद्रक्षोभिर्नाष्ट्राभिरग्नेराधिपत्य इत्यग्निमेवास्या अधिपतिं करोति नाष्ट्राणां रक्षसामपहत्या आयुर्मे दा इत्यायुरेवात्मन्धत्ते तथो सर्वमायुरेति - १४.१.३.[१९]

पुत्रवती दक्षिणत इति। नात्र तिरोहितमिवास्तीन्द्रस्याधिपत्य इतीन्द्रमेवास्या अधिपतिं करोति नाष्ट्राणां रक्षसामपहत्यै प्रजां मे दा इति प्रजामेव पशूनात्मन्धत्ते तथो ह पुत्री पशुमान्भवति - १४.१.३.[२०]

सुषदा पश्चादिति। नात्र तिरोहितमिवास्ति देवस्य सवितुराधिपत्य इति देवमेवास्यै
सवितारमधिपतिं करोति नाष्ट्राणां रक्षसामपहत्यै चक्षुर्मे दा इति चक्षुरेवात्मन्धत्ते तथो ह चक्षुष्मान्भवति - १४.१.३.[२१]

आश्रुतिरुत्तरत इति। आश्रावयन्नुत्तरत इत्येवैतदाह धातुराधिपत्य इति धातारमेवास्या अधिपतिं करोति नाष्ट्राणां रक्षसामपहत्यै रायस्पोषं मे दा इति रयिमेव पुष्टिमात्मन्धत्ते तथो ह रयिमान्पुष्टिमान्भवति - १४.१.३.[२२]

विधृतिरुपरिष्टादिति। विधारयन्नुपरिष्टादित्येवैतदाह बृहस्पतेराधिपत्य इति बृहस्पतिमेवास्या अधिपतिं करोति नाष्ट्राणां रक्षसामपहत्या ओजो मे दा इत्योज एवात्मन्धत्ते तथौजस्वी बलवान्भवति - १४.१.३.[२३]

अथ दक्षिणत उत्तानेन पाणिना निह्नुते विश्वाभ्यो मा नाष्ट्राभ्यस्पाहीति सर्वाभ्यो
मार्तिभ्यो गोपायेत्येवैतदाह यज्ञस्य शीर्षच्छिन्नस्य [रसो व्यक्षरत्स] पितॄनगच्छत्त्रया वै पितरस्तैरेवैनमेतत्समर्धयति कृत्स्नं करोति - १४.१.३.[२४]

अथेमामभिमृश्य जपति। मनोरश्वाऽसीत्यश्वा ह वा इयं भूत्वा मनुमुवाह सोऽस्याः पतिः प्रजापतिस्तेनैवैनमेतन्मिथुनेन प्रियेण धाम्ना समर्धयति कृत्स्नं करोति - १४.१.३.[२५]

अथ वैकङ्कतौ शकलौ परिश्रयति प्राञ्चौ। स्वाहा मरुद्भिः परिश्रीयस्वेत्यवरं स्वाहाकारं करोति परां देवतामेष वै स्वाहाकारो य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मादवरं स्वाहाकारं करोति परां देवताम् - १४.१.३.[२६]

मरुद्भिः परिश्रीयस्वेति। विशो वै मरुतो विशैवैतत्क्षत्रं परिबृंहति तदिदं क्षत्रमुभयतो विशा परिबृढं तूष्णीमुदञ्चौ तूष्णीं प्राञ्चौ तूष्णीमुदञ्चौ तूष्णीं प्राञ्चौ - १४.१.३.[२७]

त्रयोदश सम्पादयति। त्रयोदश वै मासाः सम्वत्सरस्य सम्वत्सर एष य एष तपत्येष उ प्रवर्ग्यस्तदेतमेवैतत्प्रीणाति तस्मात्त्रयोदश सम्पादयति - १४.१.३.[२८]

अथ सुवर्णं हिरण्यमुपरिष्टान्निदधाति दिवः संस्पृशस्पाहीत्येतद्वै देवा अबिभयुर्यद्वै न इममुपरिष्टाद्रक्षांसि नाष्ट्रा न हन्युरित्यग्नेर्वा एतद्रेतो यद्धिरण्यं नाष्ट्राणां रक्षसामपहत्या अथो द्यौर्ह वा एतस्माद्बिभयांचकार यद्वै मायं तप्तः शुशुचानो न हिंस्यादिति तदेवास्या एतदन्तर्दधाति हरितम्भवति हरिणीव हि द्यौः - १४.१.३.[२९]

अथ धवित्रैराधूनोति। मधु मध्विति त्रिः प्राणो वै मधु प्राणमेवास्मिन्नेतद्दधाति त्रीणि भवन्ति त्रयो वै प्राणाः प्राण उदानो व्यानस्तानेवास्मिन्नेतद्दधाति - १४.१.३.[३०]

अथापसलवि त्रिर्धून्वन्ति। यज्ञस्य शीर्षच्छिन्नस्य [रसो व्यक्षरत्स] पितॄनगच्छत्त्रया वै पितरस्तैरेवैनमेतत्समीरयति - १४.१.३.[३१]

अप वा एतेभ्यः प्राणाः क्रामन्ति ये यज्ञे धुवनं तन्वते पुनः प्रसलवि त्रिर्धून्वन्ति षट्सम्पद्यन्ते षड्वा इमे शीर्षन्प्राणास्तानेवास्मिन्नेतद्दधाति श्रपयन्ति रौहिणौ स यदार्चिर्जायते अथ हिरण्यमादत्ते - १४.१.३.[३२]

स यत्रैतां होतान्वाह। अप्नस्वतीमश्विना वाचमस्मे इति तदध्वर्युरुपोत्तिष्ठन्नाह रुचितो घर्म इति स यदि रुचितः स्याच्छ्रेयान्यजमानो भविष्यतीति विद्यादथ यद्यरुचितः पापीयान्भविष्यतीति विद्यादथ यदि नैव रुचितो नारुचितो नैव श्रेयान्न पापीयान्भविष्यतीति विद्याद्यथा त्वेव रुचितः स्यात्तथा धवितव्यम् - १४.१.३.[३३]

अथैतद्वै। आयुरेतज्ज्योतिः प्रविशति य एतमनु वा ब्रूते भक्षयति वा तस्य व्रतचर्या
या सृष्टौ - १४.१.३.[३४]