शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ४

ब्राह्मणम् १ उद्गीथब्राह्मणं वैराजब्राह्मणं वा

१ उद्गीथब्राह्मणं वैराजब्राह्मणं वा-- तत्र च प्रथमं मृत्य्वात्मभावसाधनभूतयोः कर्मज्ञानयोर्यत उद्भवस्तस्योद्भावकस्योपास्यस्य प्राणस्य स्वरूपनिर्णायिकाया आख्यायिकायाः कथनं, तस्यां च देवा असुराश्चेति द्विप्रकाराः प्राजापत्यास्तेऽन्योन्यमस्पर्द्धन्तेत्यभिधाय तत्रासुराणां बाहुल्यात्तैरभिभूयमाना अल्पा देवाः किं कृतवन्त इत्यभिधानं, विधित्सितस्य शुद्धादिगुणविशिष्टप्राणविज्ञानस्य स्वरूपनिर्द्धारणाय परीक्षाप्रकारनिरूपणं, तत्र क्रमेण वाक्प्राणचक्षुःश्रोत्रमनोदेवतानां परीक्षाया निरूपणम्, एवं वागादयो मृत्योरतिक्रमणेऽसमर्था इति निश्चित्याशरणाः सन्तो देवा मृत्य्वतिगमनाय मुख्यं प्राणमेव प्रार्थितवन्त इत्यभिधानं, वक्ष्यमाणैरयास्याङ्गिरसदूर्भिर्गुणैर्विशिष्टस्य विधानपूर्वकस्य प्राणकर्मकोपासनस्याख्यायिकां पुरस्कृत्य विविधफलस्य स्फुटीकरणं, प्राणस्य स्वतः शुद्धत्वेऽपि अशुद्धवागादिसम्बन्धादशुद्धत्वं स्यादिति शङ्कां वारयितुं पाप्महानिफलासाधारणगुणकस्य विशिष्टस्योपासनस्य निरूपणम् , अयास्यादिगुणविशिष्टप्राणविदः फलाभिधानम्, उक्तार्थस्यैव स्पष्टीकरणं, देवताभावफलाभिधानम्, एवं सामान्येनोक्तस्यातिवहनस्य प्रत्येकपरत्वेन निरूपणं, वागादीनामग्न्यादिदेवतात्वप्राप्तावपि-उपासकस्य किमायातमिति तन्निरूपणं, उपास्यस्य प्राणस्य कार्यकारणसंघातविधारकत्वस्य नामगुणान्तरस्य च सहेतुकं निरूपणम् , एवं प्राणस्यैव स्वातंत्र्येणान्नकृतोपकारभाजित्वं वागादीनां तु तद्द्वारकमिति कथं निश्चेतुं शक्यमित्याशंक्य यन्निश्चयादनेनैवेत्येवकारस्य सार्थकत्वं स्यादित्यतस्तन्निर्णयार्थाभिधानम् , एतद्गुणविज्ञानफलप्रदर्शनद्वारा फलसहितस्य गुणजातस्य निरूपणं, प्राणविद्यां स्तोतुं तद्विद्याविद्वेषिणो दोषाभिधानं, प्राणविदनुरक्तस्य लाभप्रदर्शनं च, पूर्वोक्तायास्यत्वेन प्रतिज्ञातस्याङ्गिरसत्वस्य विवरणं, बृहस्पत्यादिनामराशिधर्मकं प्राणोपासनं वक्तुं तस्य प्राणस्य क्रमादृग्यजुःसामात्मत्वस्य सोपपत्तिकं प्रतिपादनं, पुनस्तत्रास्यैव प्राणस्य प्रकारान्तरेण सामत्वस्योपासनार्थं निरूपणम्, एतद्गुणकप्राणोपासनफलस्य प्रतिपादनं च, इदं चोक्तं फलं मध्यप्रदीपन्यायेनोभयतः सम्बद्धमित्यवधायेमामेव फलश्रुतिमनुसृत्याख्यायिकयोद्गीथादिगुणान्तरस्याभिधानम् , एवमुद्गीथदेवता प्राण एवेति निर्द्धार्य तस्य सार्थवादं सोपपत्तिकं स्वसुवर्णप्रतिष्ठागुणविधानम् , एवं प्राणविज्ञानवतो मंत्रत्रयजपस्य सफलं विधानम् , उक्तमंत्रत्रयस्य श्रुतिकर्तृकं व्याख्यानम् , प्राणवदुद्गातुरपि स्वार्थं गानमस्तीत्यभिधानम्, अस्योद्गातुः सर्वफलसाधकत्वकथनम् , एवं समुच्चितादुपासनात्फलसिद्धावाशंकासम्भवाभावेऽपि केवलादुपासनात्तत्सिद्धिशंका स्यात्तस्या निराकरणकथनं चेत्यादि.


ब्राह्मणम् २ पुरुषविधब्राह्मणं वा आत्मब्राह्मणं वा सृष्टिब्राह्मणम्

२ पुरुषविधब्राह्मणं वा आत्मब्राह्मणं वा सृष्टिब्राह्मणम् -- तत्र चैवं ज्ञानकर्मभ्यां समुच्चिताभ्यां प्रजापतित्वव्याप्तिं व्याख्यायेदानीमस्य प्रजापतेः फलभूतस्य जगत्सर्जनस्थितिसंहारेषु स्वातन्त्र्यादिविभूत्युपवर्णनेन तं स्तोतुं ज्ञानकर्मणोर्वेदिकयोः फलोत्कर्षस्य वर्णनं, तत्र प्रथमं सहेतुकं प्रजापतेरुपासनार्थमहमिति यन्नाम तस्य निर्वचनं, ततः प्रजापतेः पुरुषनामनिर्वचनम्, एतद्गुणविज्ञानफलाभिधानं च, प्राजापत्यलक्षणं ज्ञानकर्मफलं संसारविषयं नैवात्यक्रामदित्यस्यार्थस्य प्रदर्शनद्वारा प्रजापतेर्भयाद्याविष्टत्वेन संसारान्तर्भूतत्वप्रतिपादनं, तत्रैवारत्याविष्टत्वे हेत्वन्तरं प्रतिपाद्य प्रजापतेस्तन्निरसनोद्योगप्रकारस्याभिधानं, लोकप्रसिद्धयोर्दम्पत्योरुक्ते निर्वचने लोकानुभवप्रदर्शनम् ,उक्तेऽर्थेऽभियुक्तयाज्ञवल्क्यसम्मतिमभिधाय हेत्वन्तराभिधानं, सृष्टिर्मिथुनद्वारिकेत्यभिधाय गवादिसृष्टेरमिधानं, वक्ष्यमाणाग्निसोमेन्द्रादिसृष्टिं सिद्धवन्मत्वा सर्वस्याः सृष्टेरुपसंहरणवर्णनं, स्रष्टुरेतद्गुणविदः फलाभिधानं च, एवमनुग्राह्यसृष्टिमुक्त्वाऽनुग्राहकसृष्टेरुपक्रमनिरूपणं, तत्राविद्वन्मतप्रत्याख्यानसहितं सोपसंहारमेकस्यैव प्रजापतेर्द्विधोपास्यत्वायाग्न्यन्नसर्गयोः सोपपत्तिकं निरूपणम्, एवमनुग्राहकदेवसृष्टिमभिधाय तां प्रशस्य चैतादृशः प्रजापतेरुपासकस्य फलनिरूपणम् , एतावतोक्तस्य जगतः व्याकृतस्य सबीजसंसारोद्धरणप्रयोजनाया बीजभूताया अव्याकृतावस्थायाः सदृष्टान्तं सोपपत्तिकं विवरणम् , एवं मूलकारणं तत्कार्यं चाभिधाय तत्र कार्यस्रष्टुः प्रविष्टत्वपृथक्त्वयोः सहेतुकं प्रतिपादनं, यः कृत्स्नदर्शी स ब्रह्मात्मतत्त्वदर्शीत्याकांक्षापूर्वकं ब्रह्मविद्यासूत्रस्यावतरणं, तत्र पुनस्तस्यात्मनः सहेतुकं कृत्स्नत्वं सहेतुकं पदनीयत्वं च प्रतिपाद्य तत्र पदनीये उपायनिरूपणं, प्रोक्तविज्ञानस्य गुणफलनिरूपणं च, कुतोऽन्यत्सर्वमनादृत्यात्मतत्त्वमेव विज्ञेयमित्याशंकायां लोकदृष्टिमवष्टभ्य समाधानकथनम् , एवमात्मनि मुख्या प्रीतिरनात्मनि त्वमुख्या प्रीतिरिति स्थिते यत्फलितं तस्य निरूपणं, यदर्था कृत्स्नाऽप्युपनिषत्तस्यैतस्य सूत्रस्य व्याचिख्यासया प्रयोजनाभिधित्सया चादावुपोद्घातत्वेन प्रश्नत्रयस्य प्रतिपादनम्, एतेषां प्रश्नानां क्रमेण सर्वदोषानागन्धितप्रतिवचननिरूपणं, तत्र प्रसङ्गाद्ब्रह्मविद्यायामग्निहोत्रादाविव मनुष्यत्वाद्यधिकारिविशेषणनियमो नास्तीत्यभिधानम्, अस्या ब्रह्मविद्यायाः सर्वभावापत्तिः कथमित्येतस्यार्थस्य दार्ढ्याय श्रुतिप्रदर्शितं मन्त्रमुदाहृत्य तद्द्वारा सोपपत्तिकं विद्यासूत्रं विविच्याविद्यासूत्रस्य सोपपत्तिकं विवेचनं, पूर्वमनुग्राहकदेवतासर्गं प्रक्रम्याग्नेरेवार्थाद्ब्रह्मसृष्टिरुक्तेदानी मविद्यां प्रस्तुत्य कर्मणः श्रेयसे तन्नियामकक्षत्रसृष्टेरभिधानं, तथा कर्माङ्गभूतद्रव्योपार्जनार्थं वैश्यसृष्टेरभिधानं परिचारकशूद्रसृष्टेरभिधानं च, ततः क्षत्त्रस्योग्रत्वात्तन्नियन्तृधर्मसर्गस्य प्रतिपादनम् ,उक्तेऽर्थे लोकप्रसिद्धेरभिधानम् , इत्थं देवेषु दर्शितस्य चातुर्वर्ण्यस्य मनुष्येष्वपि योजयित्वा प्रदर्शनं, केचिच्चाग्न्यादिसाध्यकर्मणा मोक्षमिच्छन्तीति तेषां मतमनूद्य तस्य सोपपत्तिकं प्रत्याख्यानं, तत्र तावन्मोक्षसाधनानि यानि कर्माणि तानि कानि ? के च तैर्यष्टव्या देवादयः १ तेषामुभयेषां सप्रपञ्चं निरूपणं, येन प्रयुक्तो मनुष्यो ग्रहग्रस्त इवावशः सन्स्वात्मलोकबहिर्मुखीभूतो दुःखात्मके कर्मण्येव प्रवर्तत इति स कः प्रवर्तक इत्यपेक्षायां काम एवेति निर्णयार्थं सप्रपञ्चं निरूपणम्, अन्तेऽन्तर्यज्ञस्य पांक्तत्ववद्बाह्ययज्ञस्यापि सफलं पांक्तत्वप्रतिपादनं चेत्यादि.

ब्राह्मणम् ३ सप्तान्नब्राह्मणं वा संवर्गविद्याब्राह्मणम्

३ सप्तान्नब्राह्मणं वा संवर्गविद्याब्राह्मणम् - तत्र चैवं कामप्रयुक्तेन पुरुषेण पांक्तज्ञानकर्मभ्यां वा केवलज्ञानेन वाऽद्यमानत्वेन सृष्टस्यान्नभूतस्य जगत उपासनार्थं विभागेन सप्तधा निरूपणं, तत्र संक्षेपतः सविनियोगान्नप्रकाशकानां सूत्रभूतानां मन्त्राणामुदाहरणं, तत्र पयसोऽन्नत्वे हेतुं प्रतिपाद्यान्नस्याक्षयत्वे च हेतुं प्रतिपाद्यान्नस्याक्षितित्वगुणविज्ञाने फलनिरूपणम् , एतेषां मन्त्राणां तिरोहितार्थत्वेन तत्तन्मन्त्रस्य प्रतीकग्रहणपूर्वकं व्याख्यानं, तत्रोक्तसप्तान्नविनियोजकमन्त्रभागस्य व्याख्यानम्, तत्रापि विशेषतः सर्वसाधारणस्यान्नस्यासाधारणीकुर्वतो दोषप्रदर्शनम् - मनुष्याणां पशूनां च पयोरूपमेकमेवान्नमिति सकारणमभिधानं - पशूनां पयोऽन्नमस्तीत्यत्र लोकप्रसिद्धेः प्रदर्शनं - पयसि हीदं सर्वं प्रतिष्ठितमिति विधित्सितदर्शनस्तुत्यर्थं मतान्तरमुद्भाव्य तस्य निन्दार्थवादप्रतिपादनं च, एवं पाठक्रमं विहायार्थक्रमवशात्साधनभूतमन्नचतुष्टयं व्याख्यायेदानीं पांक्तस्य कर्मणः फलभूतं क्रमेणाध्यात्ममधिभूतमधिदैवमन्नत्रयं कार्यत्वाद्विस्तीर्णविषयत्वाद्यत्पूर्वस्मादन्नचतुष्टयात्पृथगुत्कृष्टं तस्य व्याख्यानं, तत्र मनोवाक्प्राणरूपेऽन्नत्रये आध्यात्मिकस्य मनसः सप्रमाणमस्तित्वं निरूप्य तत्स्वरूपस्य सोपपत्तिकं निरूपणम्, आध्यात्मिकाया वाचः स्वरूपमभिधायाध्यात्मिकस्य प्राणस्य सप्रमाणं स्वरूपनिरूपणम्, एवं वागादीनामाध्यात्मिकीं विभूतिमुक्त्वाऽऽधिभौतिक्या विभूतेर्विस्तारनिरूपणं, तत्र वागादीनां लोकत्रयात्मकत्वं वेदत्रयात्मकत्वं देवपितृमनुष्यात्मकत्वं पितृमातृप्रजात्मकत्वं चेत्यादिनिरूपणं, तथा वागादीनां पुनर्विज्ञात विजिज्ञास्याविज्ञातवस्त्वात्मकत्वनिरूपणम् , एवं वागादीनामाधिभौतिकं विस्तारमुक्त्वा आधिदैविकविस्तारस्य प्रतिपादनं, तत्राध्यात्माधिभूतं च या वाक्परिच्छिन्ना तस्या आधिदैविकवागंशत्वादंशांशिनोश्च तादात्म्यात्तया सह तुल्यपरिमाणत्वप्रदर्शनम् , तथाऽध्यामाधिभूतं च मनःप्राणयोराधिदैविकमनःप्राणांशत्वात्तादात्म्याभिप्रायेण तुल्यपरिमाणत्वप्रदर्शनं, तत्रापि विशिष्येन्द्रत्वासपत्नत्वादिगुणविशिष्टस्य प्राणस्य सफलमुपासनकथनं, तत आध्यात्मिकाधिभौतिकाधिदैविकानां वाङ्मनःप्राणानां ध्यानार्थं समत्वानन्तत्वादिगुणनिरूपणं, तत उक्तेऽर्थे वित्तकर्मणोः सम्भावनायाः प्रतिपादनद्वारा प्रजापतेः पांक्तं कर्मफलत्वमुक्त्वाऽमावास्यायां रात्रौ प्राणिनः प्राणं न विच्छिन्द्यादित्यस्य प्रासङ्गिकार्थस्य निषेधप्रयोजनसहितमभिधानं, यत्पूर्वमाधिदैविकत्र्यन्नात्मकप्रजापत्युपासनमुक्तं तदहमस्मि प्रजापतिरित्यहंग्रहेण कर्तव्यमिति दृष्टान्तं सफलमभिधानं, तत उक्तेऽर्थे पुत्रकर्मापरविद्यानां साध्यलोकत्रयप्राप्ति साधनमात्रं सामान्येनावगतं तस्यैव पुनर्विशेषज्ञानार्थं विस्तरशः प्रतिपादनं, तत्र पुत्रत्वस्य क्रियात्मकत्वात्केन प्रकारेण लोकजयहेतुत्वमित्यपेक्षायां तत्प्रकारस्य सोपपत्तिकं निरूपणं, तत्र विशेषतः पितृकर्तृकं सफलं पुत्रानुशासननिरूपणं-पुत्रशब्दनिर्वचनं-पितुः पुत्रतादात्म्येनैतल्लोकावस्थाननिरूपणं च, तत एनं कृतसम्प्राप्तिकं पितरमेते दैवा वाङ्मनःप्राणाश्च मरणधर्माण आविशन्तीति सप्रकारकं निरूपणं, "ते सर्वे समाः सर्वेऽनन्ताः " इति यत्पूर्वमविशेषेण वाङ्मनःप्राणानामुपासनमुक्तं तत्र तद्गतान्यतमविशेषप्रतिपत्यर्थं प्राणविषयकाध्यात्मदर्शननिरूपणं, तदर्थं प्राणव्रतमीमांसाकथनं, प्राणव्रतमभग्नत्वेन धारणीयमिति निर्धारणायाख्यायिकाकथनं, तस्यां च विशेषतः करणानामन्योऽन्यस्पर्धाप्रकारकथनं-प्रजापतेर्वागादिषु श्रमद्वारा स्वकर्मप्रच्युतिरासीदिति सप्रमाणमभिधानम्-प्राणव्रतधारणप्रकारकथनं-करणानां प्राणनामत्वनिरूपणम्-उक्तदर्शनफलनिरूपणम्-उक्ताध्यात्मप्राणदर्शनस्योपसंहरणं चेत्याद्यंशप्रतिपादनं, ततो. ऽध्यात्मवत्प्राणविषयकाधिदेवतदर्शननिरूपणम्, उक्तार्थदाढ्र्याय मन्त्रसंवादप्रदर्शनं, श्रुतिकर्तृकं संवादमन्त्रस्य व्याख्यानं, प्रकरणार्थस्योपसंहरणं, प्राणव्रताकरणे बाधकनिरूपणं, प्राणव्रतमामरणमनुवर्तयेदिति प्रतिपादनम् , अहं च सर्वभूतेषु सूत्ररूपप्राणात्मा सर्वपरि. स्पन्दकृदित्येवंप्राणोपासकस्य फलाभिधानं चेत्यादि.


ब्राह्मणम् ४ त्र्यन्नब्राह्मणं वा अविद्याविषयकसंसारतत्त्वप्रदर्शकं ब्राह्मणं वा उपसंहारब्राह्मणम्

४ त्र्यन्नब्राह्मणं वा अविद्याविषयकसंसारतत्त्वप्रदर्शकं ब्राह्मणं वा उपसंहारब्राह्मणम्-तत्र च पूर्वब्राह्मणे सूत्रिताया अविद्यायाः साध्यसाधनलक्षणो व्याकृताव्याकृतरूपो विस्तरो निरूपित इदानीं तस्यैव प्रतिपत्तिसौकर्याय नामरूपकर्मत्वेनोपसंहारस्य प्रतिपादनं, तत्र च क्रमेण देवदत्तयज्ञदत्तप्रभृतीनां नामविशेषाणां सितासितप्रभृतीनां रूपाणां-मननदर्शनचलनप्रभृतीनां सर्वकर्मविशेषाणां सोपपत्तिकं विवरणम्, एवं नामरूपकर्मत्वेन संक्षिप्तस्यापि जगतः पुनः संक्षेपान्तरकथनं, एकस्मिन्नपि संघाते कार्यकारणरूपेणावान्तरविभागकथनं--तत्प्रतिपादकवाक्यस्य श्रुतिकर्तृकं व्याख्यानं चेति.