शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ६/ब्राह्मणम् ०७

उद्दालकब्राह्मणं, अन्तर्यामिब्राह्मणं वा सृष्टिप्रवेशब्राह्मणम्

अथ हैनमुद्दालक आरुणिः पप्रच्छ। याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्चलस्य काप्यस्य गृहेषु यज्ञमधीयानास्तस्यासीद्भार्या गन्धर्वगृहीता तमपृच्छाम कोऽसीति सोऽब्रवीत्कबन्ध आथर्वण इति - १४.६.७.१

सोऽब्रवीत्। पतञ्चलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तत्सूत्रं यस्मिन्नयं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति सोऽब्रवीत्पतञ्चलः काप्यो नाहं तद्भगवन्वेदेति - १४.६.७.२

सोऽब्रवीत्। पतञ्चलं काप्यं याज्ञिकांश्च वेत्थ नु त्वं काप्य तमन्तर्यामिणं य इमं च लोकं परं च लोकं सर्वाणि च भूतान्यन्तरो यमयतीति सोऽब्रवीत्पतञ्चलः काप्यो नाहं तं भगवन्वेदेति - १४.६.७.३

सोऽब्रवीत्। पतञ्चलं काप्यं याज्ञिकांश्च यो वै तत्काप्य सूत्रं विद्यात्तं चान्तर्यामिणं स ब्रह्मवित्स लोकवित्स देववित्स वेदवित्स यज्ञवित्स भूतवित्स आत्मवित्स सर्वविदिति तेभ्योऽब्रवीत्तदहं वेद तच्चेत्त्वं याज्ञवल्क्य सूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्द्धा ते विपतिष्यतीति - १४.६.७.४

वेद वा अहं गौतम तत्सूत्रं। तं चान्तर्यामिणमिति यो वा इदं कश्च ब्रूयाद्वेद वेदेति यथा वेत्थ तथा ब्रूहीति - १४.६.७.५

वायुर्वै गौतम तत्सूत्रम्। वायुना वै गौतम सूत्रेणायं च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्ति तस्माद्वै गौतम पुरुषम्प्रेतमाहुर्व्यस्रंसिषतास्याङ्गानीति वायुना हि गौतम सूत्रेण संदृब्धानि भवन्तीत्येवमेवैतद्याज्ञवल्क्यान्तर्यामिणं ब्रूहीति - १४.६.७.६

यः पृथिव्यां तिष्ठन्। पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.७

योऽप्सु तिष्ठन्। अद्भ्योऽन्तरो यमापो न विदुर्यस्यापः शरीरं योऽपोऽन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.८

योऽग्नौ तिष्ठन्। अग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.९

य आकाशे तिष्ठन्। आकाशादन्तरो यमाकाशो न वेद यस्याकाशः शरीरं य आकाशमन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.१०

यो वायौ तिष्ठन्। वायोरन्तरो यं वायुर्न वेद यस्य वायुः शरीरं यो वायुमन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.११

य आदित्ये तिष्ठन्। आदित्यादन्तरो यमादित्यो न वेद यस्यादित्यः शरीरं य आदित्यमन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.१२

यश्चन्द्रतारके तिष्ठन्। चन्द्रतारकादन्तरो यं चन्द्रतारकं न वेद यस्य चन्द्रतारकं शरीरं यश्चन्द्रतारकमन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.१३

यो दिक्षु तिष्ठन्। दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशः शरीरं यो दिशोऽन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.१४

यो विद्युति तिष्ठन्। विद्युतोऽन्तरो यं विद्युन्न वेद यस्य विद्युच्छरीरं यो विद्युतमन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.१५

य स्तनयित्नौ तिष्ठन्। स्तनयित्नोरन्तरो यं स्तनयित्नुर्न वेद यस्य स्तनयित्नुः शरीरं य स्तनयित्नुमन्तरो यमयति स त आत्मान्तर्याम्यमृत इत्यधिदेवतमथाधिलोकम् - १४.६.७.१६

यः सर्वेषु लोकेषु तिष्ठन्। सर्वेभ्यो लोकेभ्योऽन्तरो यं सर्वे लोका न विदुर्यस्य सर्वे लोकाः शरीरं यः सर्वांल्लोकानन्तरो यमयति स त आत्मान्तर्याम्यमृत इत्यु एवाधिलोकमथाधिवेदम् - १४.६.७.१७

यः सर्वेषु वेदेषु तिष्ठन्। सर्वेभ्यो वेदेभ्योऽन्तरो यं सर्वे वेदा न विदुर्यस्य सर्वे वेदाः शरीरं यः सर्वान्वेदानन्तरो यमयति स त आत्मान्तर्याम्यमृत इत्यु एवाधिवेदमथाधियज्ञम् - १४.६.७.१८

सर्वेषु यज्ञेषु तिष्ठन्। सर्वेभ्यो यज्ञेभ्योऽन्तरो यं सर्वे यज्ञा न विदुर्यस्य सर्वे यज्ञाः शरीरं यः सर्वान्यज्ञानन्तरो यमयति स त आत्मान्तर्याम्यमृत इत्यु एवाधियज्ञमथाधिभूतम् - १४.६.७.१९

यः सर्वेषु भूतेषु तिष्ठन्। सर्वेभ्यो भूतेभ्योऽन्तरो यं सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरं यः सर्वाणि भूतान्यन्तरो यमयति स त आत्मान्तर्याम्यमृत इत्यु एवाधिभूतमथाध्यात्मम् - १४.६.७.२०

यः प्राणे तिष्ठन्। प्राणादन्तरो यं प्राणो न वेद यस्य प्राणः शरीरं यः प्राणमन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.२१

यो वाचि तिष्ठन् वाचोऽन्तरो यम्वाङ्न वेद यस्य वाक्शरीरं यो वाचमन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.२२

यश्चक्षुषि तिष्ठन्। चक्षुषोऽन्तरो यश्चक्षुर्न वेद यस्य चक्षुः शरीरं यश्चक्षुरन्तरो यमयति स त आत्मान्तर्याम्यमृतः। - १४.६.७.२३

यः श्रोत्रे तिष्ठन्। श्रोत्रादन्तरो यं श्रोत्रन्न वेद यस्य श्रोत्रं शरीरं यः श्रोत्रमन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.२४

यो मनसि तिष्ठन्। मनसोऽन्तरो यम्मनो न वेद यस्य मनः शरीरं यो मनोन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.२५

यस्त्वचि तिष्ठन्। त्वचोऽन्तरो यन्त्वङ्न वेद यस्य त्वक्छरीरं यस्त्वचमन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.२६

यस्तेजसि तिष्ठन्। तेजसोऽन्तरो यन्तेजो न वेद यस्य तेजः शरीरं यस्तेजोन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.२७

यस्तमसि तिष्ठन्। तमसोऽन्तरो यन्तमो न वेद यस्य तमः शरीरं यस्तमोन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.२८

यो रेतसि तिष्ठन्। रेतसोऽन्तरो यं रेतो न वेद यस्य रेतः शरीरं यो रेतोन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.२९

य आत्मनि तिष्ठन् आत्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः - १४.६.७.३०

अदृष्टो द्रष्टा। अश्रुतः श्रोता अमतो मन्ताऽविज्ञातो विज्ञाता नान्योऽस्ति द्रष्टानान्योऽस्ति श्रोता नान्योऽस्ति मन्ता नान्योऽस्ति विज्ञातैष त आत्मान्तर्याम्यमृतोऽतोऽन्यदार्तं ततो होद्दालक आरुणिरुपरराम - १४.६.७.३१