शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ६/ब्राह्मणम् १०

षडाचार्यब्राह्मणं वा उदंकब्राह्मणम्

जनको ह वैदेह आसां चक्रे। अथ ह याज्ञवल्क्य आवव्राज स होवाच जनको वैदेहो
याज्ञवल्क्य किमर्थमचारीः पशूनिच्छन्नण्वन्तानित्युभयमेव सम्राडिति होवाच यत्ते कश्चिदब्रवीत्तच्छृणवामेति - १४.६.१०.[१]

अब्रवीन्म उदङ्कः शौल्बायनः। प्राणो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छौल्बायनोऽब्रवीत्प्राणो वै ब्रह्मेत्यप्राणतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति - १४.६.१०.[२]

स वै नो ब्रूहि याज्ञवल्क्य। प्राण एवायतनमाकाशः प्रतिष्ठा प्रियमित्येनदुपासीत का प्रियता याज्ञवल्क्य प्राण एव सम्राडिति होवाच प्राणस्य वै सम्राट्कामायायाज्यं याजयत्यप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र वधशङ्का भवति यां दिशमेति प्राणस्यैव सम्राट्कामाय प्राणो वै सम्राट्परमं ब्रह्म नैनं प्राणो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति - १४.६.१०.[३]

देवो भूत्वा देवानप्येति। य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति क एव ते किमब्रवीदिति - १४.६.१०.[४]

अब्रवीन्मे जित्वा शैलिनो वाग्वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छैलिनोऽब्रवीद्वाग्वै ब्रह्मेत्यववदतो हि किं स्यादब्रवीत्तु ते तस्यायतनम्प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति - १४.६.१०.[५]

स वै नो ब्रूहि याज्ञवल्क्य वागेवायतनमाकाशः प्रतिष्ठा प्रज्ञेत्येनदुपासीत का प्रज्ञता याज्ञवल्क्य वागेव सम्राडिति होवाच वाचा वै सम्राड्बन्धुः प्रज्ञायत ऋग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि वाचैव सम्राट्प्रज्ञायन्ते वाग्वै सम्राट्परमं ब्रह्म नैनं वाग्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति - १४.६.१०.[६]

देवो भूत्वा देवानप्येति। य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति क एव ते किमब्रवीदिति - १४.६.१०.[७]

अब्रवीन्मे बर्कुवार्ष्णः। चक्षुर्वै ब्रह्मेति यथामातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तद्वार्ष्णोऽब्रवीच्चक्षुर्वै ब्रह्मेत्यपश्यतो हि किं स्यादब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति - १४.६.१०.[८]

स वै नो ब्रूहि याज्ञवल्क्य। चक्षुरेवायतनमाकाशः प्रतिष्ठा सत्यमित्येनदुपासीत का सत्यता याज्ञवल्क्य चक्षुरेव सम्राडिति होवाच चक्षुषा वै सम्राट्पश्यन्तमाहुरद्राक्षीरिति स आहाद्राक्षमिति तत्सत्यं भवति चक्षुर्वै सम्राट्परमं ब्रह्म नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति - १४.६.१०.[९]

देवो भूत्वा देवानप्येति। य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति क एव ते किमब्रवीदिति - १४.६.१०.[१०]

अब्रवीन्मे गर्दभीविपीतो भारद्वाजः। श्रोत्रं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तद्भारद्वाजोऽब्रवीच्छ्रोत्रं वै ब्रह्मेत्यशृण्वतो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति - १४.६.१०.[११]

स वै नो ब्रूहि याज्ञवल्क्य। श्रोत्रमेवायतनमाकाशः प्रतिष्ठानन्त इत्येनदुपासीत काऽनन्तता याज्ञवल्क्य दिश एव सम्राडिति होवाच तस्माद्वै सम्राड्यां कां च दिशं गच्छति नैवास्या अन्तं गच्छत्यनन्ता हि दिशः श्रोत्रं हि दिशः श्रोत्रं वै सम्राट्परमं ब्रह्म नैनं श्रोत्रं जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति - १४.६.१०.[१२]

देवो भूत्वा देवानप्येति। य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति क एव ते किमब्रवीदिति - १४.६.१०.[१३]

अब्रवीन्मे सत्यकामो जाबालो। मनो वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तत्सत्यकामोऽब्रवीन्मनो वै ब्रह्मेत्यमनसो हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति - १४.६.१०.[१४]

स वै नो ब्रूहि याज्ञवल्क्य। मन एवायतनमाकाशः प्रतिष्ठाऽऽनन्द इत्येनदुपासीत काऽऽनन्दता याज्ञवल्क्य मन एव सम्राडिति होवाच मनसा वै सम्राट्स्त्रियमभिहर्यति तस्यां प्रतिरूपः पुत्रो जायते स आनन्दो मनो वै सम्राट्परमं ब्रह्म नैनं मनो जहाति सर्वाण्येनं भूतान्यभिक्षरन्ति - १४.६.१०.[१५]

देवो भूत्वा देवानप्येति। य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति क एव ते किमब्रवीदिति - १४.६.१०.[१६]

अब्रवीन्मे विदग्धः शाकल्यो। हृदयं वै ब्रह्मेति यथा मातृमान्पितृमानाचार्यवान्ब्रूयात्तथा तच्छाकल्योऽब्रवीद्धृदयं वै ब्रह्मेत्यहृदयस्य हि किं स्यादित्यब्रवीत्तु ते तस्यायतनं प्रतिष्ठां न मेऽब्रवीदित्येकपाद्वा एतत्सम्राडिति - १४.६.१०.[१७]

स वै नो ब्रूहि याज्ञवल्क्य। हृदयमेवायतनमाकाशः प्रतिष्ठा स्थितिरित्येनदुपासीत का स्थितिता याज्ञवल्क्य हृदयमेव सम्राडिति होवाच हृदयं वै सम्राट्सर्वेषां भूतानां प्रतिष्ठा हृदयेन हि सर्वाणि भूतानि प्रतितिष्ठन्ति हृदयं वै सम्राट्परमं ब्रह्म नैनं हृदयं जहाति सर्वाण्येनम्भूतान्यभिक्षरन्ति - १४.६.१०.[१८]

देवो भूत्वा देवानप्येति। य एवं विद्वानेतदुपास्ते हस्त्यृषभं सहस्रं ददामीति होवाच जनको वैदेहः स होवाच याज्ञवल्क्यः पिता मेऽमन्यत नाननुशिष्य हरेतेति - १४.६.१०.[१९]