शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ८/ब्राह्मणम् ०६

सत्यस्य ब्रह्मणः स्तुतिब्राह्मणम्

आप एवेदमग्र आसुः। ता आपः सत्यमसृजन्त सत्यं ब्रह्म ब्रह्म प्रजापतिम्प्रजापतिर्देवान् - १४.८.६.[१]

ते देवाः सत्यमित्युपासते। तदेतत्त्र्यक्षरं सत्यमिति स इत्येकमक्षरं तीत्येकमक्षरममित्येकमक्षरं प्रथमोत्तमे अक्षरे सत्यम्मध्यतोऽनृतं तदेतदनृतं सत्येन परिगृहीतं सत्यभूयमेव भवति नैवंविद्वांसमनृतं हिनस्ति - १४.८.६.[२]

तद्यत्तत्सत्यम्। असौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषस्तावेतावन्योऽन्यस्मिन्प्रतिष्ठितौ रश्मिभिर्वा एषोऽस्मिन्प्रतिष्ठितः प्राणैरयममुष्मिन्स यदोत्क्रमिष्यन्भवति शुद्धमेवैतन्मण्डलं पश्यति नैनमेते रश्मयः प्रत्यायन्ति - १४.८.६.[३]

य एष एतस्मिन्मण्डले पुरुषः। तस्य भूरिति शिर एकं शिर एकमेतदक्षरम्भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहरिति हन्ति पाप्मानं जहाति च य एवं वेद - १४.८.६.[४]

अथ योऽयं दक्षिणेऽक्षन्पुरुषः। तस्य भूरिति शिर एकं शिर एकमेतदक्षरम्भुव इति बाहू द्वौ बाहू द्वे एते अक्षरे स्वरिति प्रतिष्ठा द्वे प्रतिष्ठे द्वे एते अक्षरे तस्योपनिषदहमिति हन्ति पाप्मानं जहाति च य एवं वेद - १४.८.६.[५]