शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ८/ब्राह्मणम् ०७

विद्युद्ब्रह्मोपासनाब्राह्मणम्

विद्युद्ब्रह्मेत्याहुः। विदानाद्विद्युद्विद्यत्येनं सर्वस्मात्पाप्मनो य एवं वेद विद्युद्ब्रह्मेति विद्युद्ध्येव ब्रह्म - १४.८.७