शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ८/ब्राह्मणम् १०

जठरस्थवैश्वानरोपासनाब्राह्मणम्

अयमग्निर्वैश्वानरो योऽयमन्तः पुरुषे येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यमेतत्कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन्भवति नैतं घोषं शृणोति - १४.८.१०