शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ८/ब्राह्मणम् ११

ज्वरादिव्याध्यादेस्तपस्त्वोपासनाब्राह्मणम्

एतद्वै परमं तपो यद्व्याहितस्तप्यते परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमरण्यं हरन्ति परमं हैव लोकं जयति य एवं वेदैतद्वै परमं तपो यं प्रेतमग्नावभ्यादधति परमं हैव लोकं जयति य एवं वेद - १४.८.११