शतपथब्राह्मणम्/काण्डम् १४/अध्यायः ८/ब्राह्मणम् १४

प्राणोपासनाब्राह्मणम्

उक्थम्। प्राणो वा उक्थं प्राणो हीदं सर्वमुत्थापयत्युद्धास्मा उक्थविद्वीरस्तिष्ठत्युक्थस्य सायुज्यं सलोकतां जयति य एवं वेद - १४.८.१४.[१]
यजुः। प्राणो वै यजुः। प्राणे हीमानि सर्वाणि भूतानि युज्यन्ते युज्यन्ते हास्मै सर्वाणि भूतानि श्रैष्ठ्याय यजुषः सायुज्यं सलोकतां जयति य एवं वेद - १४.८.१४.[२]
साम। प्राणो वै साम। प्राणे हीमानि सर्वाणि भूतानि सम्यञ्चि हास्मिन्त्सर्वाणि भूतानि श्रैष्ठ्याय कल्पन्ते साम्नः सायुज्यं सलोकतां जयति य एवं वेद - १४.८.१४.[३]
क्षत्रम्। प्राणो वै क्षत्रं। प्राणो हि वै क्षत्रं त्रायते हैनं प्राणः क्षणितोः प्र क्षत्रमात्रमाप्नोति क्षत्रस्य सायुज्यं सलोकतां जयति य एवं वेद - १४.८.१४.[४]