१४.९.१ पञ्चाग्निविद्याब्राह्मणं वा श्वेतकेतुब्राह्मणम्

श्वेतकेतुर्ह वा आरुणेयः। पञ्चालानां परिषदमाजगाम स आजगाम जैवलम्प्रवाहणं परिचारयमाणं तमुदीक्ष्याभ्युवाद कुमारा३ इति स भो३ इति प्रतिशुश्रावानुशिष्टो न्वसि पित्रेत्योमिति होवाच- १४.९.१.[१]

वेत्थ यथेमाः प्रजाः। प्रयत्यो विप्रतिपद्यान्ता३ इति नेति होवाच वेत्थ यथेमं लोकं पुनरापद्यान्ता३ इति नेति हैवोवाच वेत्थ यथासौ लोक एवं बहुभिः पुनः पुनः प्रयद्भिर्न सम्पूर्यता३ इति नेति हैवोवाच - १४.९.१.[२]

वेत्थ यतिथ्यामाहुत्यां हुतायाम्। आपः पुरुषवाचो भूत्वा समुत्थाय वदन्ती३ इति नेति हैवोवाच वेत्थो देवयानस्य वा पथः प्रतिपदं पितृयाणस्य वा यत्कृत्वा देवयानं वा पन्थानं प्रतिपद्यते पितृयाणं वा - १४.९.१.[३]

अपि हि न ऋषेर्वचः श्रुतम्। द्वे सृती अशृणवं पितॄणामहं देवानामुत मर्त्यानां। ताभ्यामिदं विश्वमेजत्समेति यदन्तरा पितरं मातरं चेति नाहमत एकं चन वेदेति होवाच - १४.९.१.[४]

अथ हैनं वसत्योपमन्त्रयां चक्रे। अनादृत्य वसतिं कुमारः प्रदुद्राव स आजगाम पितरं तं होवाचेति वाव किल नो भवान्पुरानुशिष्टानवोच इति कथं सुमेध इति पञ्च मा प्रश्नान्राजन्यबन्धुरप्राक्षीत्ततो नैकं चन वेदेति होवाच कतमे त इतीम इति ह प्रतीकान्युदाजहार - १४.९.१.[५]

स होवाच। तथा नस्त्वं तात जानीथा यथा यदहं किं च वेद सर्वमहं तत्तुभ्यमवोचं प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं वत्स्याव इति भवानेव गच्छत्विति - १४.९.१.[६]

स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास तस्मा आसनमाहार्योदकमाहारयांचकाराथ हास्मा अर्घं चकार - १४.९.१.[७]

स होवाच। वरं भवते गौतमाय दद्म इति स होवाच प्रतिज्ञातो म एष वरो यांतु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति - १४.९.१.[८]

स होवाच। दैवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति - १४.९.१.[९]

स होवाच। विज्ञायते हास्ति हिरण्यस्यापात्तं गो अश्वानां दासीनां प्रवराणाम्परिधानानां मा नो भवान्बहोरनन्तस्यापर्यन्तस्याभ्यवदान्यो भूदिति स वै गौतम तीर्थेनेच्छासा इत्युपैम्यहं भवन्तमिति वाचा ह स्मैव पूर्व उपयन्ति - १४.९.१.[१०]

स होपायनकीर्ता उवाच। तथा नस्त्वं गौतम मापराधास्तव च पितामहा यथेयं विद्येतः पूर्वं न कस्मिंश्चन ब्राह्मण उवास तां त्वहं तुभ्यं वक्ष्यामि को हि त्वैवं ब्रुवन्तमर्हति प्रत्याख्यातुमिति - १४.९.१.[११]

असौ वै लोकोऽग्निर्गौतम। तस्यादित्य एव समिद्रश्मयो धूमोऽहरर्चिश्चन्द्रमा अङ्गारा नक्षत्राणि विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति - १४.९.१.[१२]

पर्जन्यो वा अग्निर्गौतम। तस्य संवत्सर एव समिदभ्राणि धूमो विद्युदर्चिरशनिरङ्गारा ह्रादुनयो विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः सोमं जुह्वति तस्या आहुतेर्वृष्टिः सम्भवति - १४.९.१.[१३]

अयं वै लोकोऽग्निर्गौतम। तस्य पृथिव्येव समिद्वायुर्धूमो रात्रिरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा वृष्टिं जुह्वति तस्या आहुतेरन्नं सम्भवति - १४.९.१.[१४]

पुरुषो वा अग्निर्गौतम। तस्य व्यात्तमेव समित्प्राणो धूमो वागर्चिश्चक्षुरङ्गाराः श्रोत्रं विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति - १४.९.१.[१५]

योषा वा अग्निर्गौतम। तस्या उपस्थ एव समिल्लोमानि धूमो योनिरर्चिर्यदन्तः करोति तेऽङ्गारा अभिनन्दा विस्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुतेः पुरुषः सम्भवति स जायते स जीवति यावज्जीवत्यथ यदा म्रियतेऽथैनमग्नये हरन्ति - १४.९.१.[१६]

तस्याग्निरेवाग्निर्भवति। समित्समिद्धूमो धूमोऽर्चिरर्चिरङ्गारा विष्फुलिङ्गा विष्फुलिङ्गास्तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति तस्या आहुतेः पुरुषो भास्वरवर्णः सम्भवति - १४.९.१.[१७]

ते य एवमेतद्विदुः। ये चामी अरण्ये श्रद्धां सत्यमुपासते तेऽर्चिरभिसम्भवन्त्यर्चिषोऽहरह्नु आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान्षण्मासानुदङ्ङादित्य एति मासेभ्यो देवलोकं देवलोकादादित्यमादित्याद्वैद्युतं तान्वैद्युतात्पुरुषो मानस एत्य ब्रह्मलोकान्गमयति ते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति तेषामिह न पुनरावृत्तिरस्ति - १४.९.१.[१८]

अथ ये यज्ञेन दानेन तपसा लोकं जयन्ति ते धूममभिसम्भवन्ति धूमाद्रात्रिं
रात्रेरपक्षीयमाणपक्षमपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणादित्य एति मासेभ्यः पितृलोकं पितृलोकाच्चन्द्रं ते चन्द्रं प्राप्यान्नं भवन्ति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीयस्वेत्येवमेनांस्तत्र भक्षयन्ति तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यन्त आकाशाद्वायुं वायोर्वृष्टिं वृष्टेः पृथिवीं ते पृथिवीं प्राप्यान्नं भवन्ति त एवमेवानुपरिवर्तन्तेऽथ य एतौ पन्थानौ न विदुस्ते कीटाः पतङ्गा यदिदं दन्दशूकम् - १४.९.१.[१९]]